भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 15

15.1

प्रासादं नादमुत्थाप्य जपेद्यः सततं नरः
षण्मासात्प्राप्नुयात्सिद्धिं योगयुक्तो न संशयः ॥

15.2

गमागमस्य जपतः सर्वपापक्षयो भवेत्
अणिमादिगुणैश्वर्यं षण्मासैस्तु न संशयः ॥

15.3

गमागमं विदित्वा तु मुच्यते नात्र संशयः
तन्मयस्तल्लयो भूत्वा षण्मासात्सिद्धिमाप्नुयात् ॥

15.4

स्थूलः सूक्ष्मः परश्चैव प्रासादः कथितो मया
प्रासादं ये न बुध्यन्ति ते न बुध्यन्ति शङ्करम् ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc