सार्धत्रिशतिकालोत्तरागम · अध्याय 13
अथातः सम्प्रवक्ष्यामि सृष्टिं मन्त्रलिपेः क्रमात्
यथा तु सकलो देवो निष्कलेन समन्वितः ॥
कलामुत्पादयामास सर्वमन्त्रप्रवर्तिकाम्
ओंकारमूर्ध्नि मध्यस्थ ओंकारव्यापकस्तथा ॥
ओंकारप्रथमां रेखां सृजति प्रभुः(?)
विद्या नाम कला सा तु वर्णे वर्णे व्यवस्थिता ॥
ओंकारस्य उकाराभा रेखा या सम्प्रदृश्यते
प्रतिष्ठा नाम सा ज्ञेया उकाराक्षरसम्भवा ॥
मूर्ध्नि तस्य भवेद्यासौ सूक्ष्मरेखा निरञ्जना
मकारो ह्यभवत्तत्र निवृत्तिर्नाम सा कला ॥
ओंकारमूर्ध्नि संयुक्ता लय ओंकारमूर्धनि
रेखेयं व्योम्नि निर्वाणा सा कला शान्तिरुच्यते ॥
संयोगात्सम्प्रकाशेत निष्कले सकले स्थिता
मूर्धन्याक्रान ओंकारे शब्दस्तत्र तु जायते ॥
सा शक्तिः परमा सूक्ष्मा बिन्दुना सहिता मता
दीपादिव महत्तेजो विस्फुलिङ्गशिखान्वितम् ॥
निपतन्ती त्रिधा याति शिवविद्यात्मकैर्यथा
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः कलाः ॥
या कला रेखिनी तत्र पतिता बिन्दुना सह
सविद्येशः शिवः प्रोक्तो देवदेवः सदाशिवः ॥
प्रथमं तस्य तद्बीजं नादबिन्दुरितीरितम्
न जहाति परं स्थानं शाश्वतं ध्रुवमव्ययम् ॥
बिन्दुं तदुदरे क्षिप्त्वा मातृवत्परिरक्षति
तस्योर्ध्वं वामपार्श्वे ऽथ विष्णुबीजं प्रतिष्ठितम् ॥
दक्षिणं ब्रह्मयोनिस्थम् एकमेव त्रिधा स्थितम्
पार्श्वबिन्दुद्वयोपेता सा रेखा मध्यतः स्थिता ॥
तत्र देवः शिवः सूक्ष्मो गूढस्तिष्ठति शंकरः
तद्बीजं परमं देवं शक्तिगर्भो महेश्वरः ॥
यतः प्रवर्तते सर्वं मन्त्रतन्त्रं चराचरम्
अव्यक्तं परमं सूक्ष्मं शक्तिदेहं निरञ्जनम् ॥
शिवं त्वनादिनिधनं यं बुद्ध्वा नाभिजायते
दक्षिणस्थं हि यद्बीजं ज्ञानशक्तिः परा हि सा ॥
तद्बीजमपरं ब्रह्मा यत्र गूढः स तिष्ठति
वामगो ऽथ परो बिन्दुः क्रियाशक्तिः परा हि सा ॥
तत्र विष्णुः स्वयं बीजे गूढः सूक्ष्मो निरञ्जनः
एष देवो ऽपि सर्गस्थो विसृष्टो यः स शम्भुना ॥
निगूढत्वान्न पश्यन्ति येन सृष्टं चराचरम्
विसर्गाज्जायते सृष्टिर् ईश्वरः प्रभुरेव सः ॥
विसृष्टं येन तद्बीजं विसर्गस्तेन चोच्यते
तेन चापूरितमिदं जगत्सर्वं च तन्मयम् ॥
शक्तिरश्मिसमूहेन शतशो ऽथ सहस्रशः
सृजति ग्रसति ह्येष संयोजकवियोजकः ॥
ज्ञानशक्त्या च भगवान् अनुगृह्णाति वै शिवः
विसर्गाच्च भवेत्सृष्टिः संहारो बिन्दुना सह
निर्वाणं तत्त्वविज्ञानं तन्त्रविस्तारगोचरः ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0