भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 12

12.1

चन्द्राग्निरिव संयुक्ता आद्या कुण्डलिनी तु या
हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारवत्स्थिता ॥

12.2

सृष्टिन्यासं न्यसेत्तत्र द्विरभ्यासपदेरितम्
स्रवन्तं चिन्तयेत्तस्मिन्न् अमृतं साधकोत्तमः ॥

12.3

अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम्
चिन्तयेद्विपरीतं तु सिद्धिकामः समाहितः ॥

12.4

स्वदेहं चिन्तयेद्विद्वान् दिव्यरूपमनौपमम्
यस्य यत्कर्म चोद्दिष्टं तत्कर्म परिचिन्तयेत् ॥

12.5

इदं च यो ऽभ्यसेदेवम् अमृतं सर्वतोमुखम्
अचिरेणैव कालेन स सिद्धिफलभाग्भवेत् ॥

12.6

सृष्टिन्यासमविज्ञाय कथं युञ्जीत साधकः
हन्यान्मुष्टिभिराकाशं तुषान्कुट्टयतीव सः ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc