सार्धत्रिशतिकालोत्तरागम · अध्याय 14
संहारश्चैव सृष्टिश्च सर्वं निगदितं प्रभो
दीक्षितानां गतिभ्रंशं संक्षेपात् कथयस्व मे ॥
मायाविनि शठे क्रूरे निःसत्त्वे कलहप्रिये
गतिभ्रंशकरे योगे तत्त्वं तच्छृणु षण्मुख ॥
विधाय मूर्ध्नि क्षिप्तस्य आयामे शशिनः क्रमात्
पूर्ववन्मनसालोक्य गतिं तस्य निवर्तयेत् ॥
संहारसम्पुटं कूटम् आदावन्ते षडानन
मातृकायां शतं हुत्वा एकैकस्य पृथक् पृथक् ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0