भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 11

11.1

स जीवो जीवलोकस्य ज्ञायते ऽध्यात्मगो यथा
संशयो मे महादेव प्रसादीभव शूलधृक् ॥

11.2

जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख
कथयामि न सन्देहः पुत्रस्नेहाद्विशेषतः ॥

11.3

संक्रान्तिं विषुवं चैव अहोरात्रायनानि च
अधिमासमृणं चापि ऊनरात्रं धनं तथा ॥

11.4

ऊनरात्रं क्षुतं ज्ञेयम् अधिमासो विजृम्भिका
ऋणं च कासो विज्ञेयो निश्वासो धनमुच्यते ॥

11.5

उत्तरं दक्षिणं ज्ञेयं वामदक्षिणसंस्थितम्
मध्ये तु विषुवत्प्रोक्तं पुटद्वयविनिःसृतम् ॥

11.6

संक्रान्तिः पुनरस्यैव स्वस्थानात्स्थान एव च
इडा च पिङ्गला चैव अमा चैव तृतीयका ॥

11.7

सुषुम्ना मध्यमे ह्यङ्गे इडा वामे प्रकीर्तिता
पिङ्गला दक्षिणे ह्यङ्गे एषु संक्रान्तिरुच्यते ॥

11.8

ऊर्ध्वं प्राणो ह्यहः प्रोक्तः अपानो रात्रिरुचय्ते
विभागा दश प्राणस्य यो वेत्त्येवं स वेदवित् ॥

11.9

आयामो देहमध्यस्थः सोमग्रहणमिष्यते
देहातीतं तु तं विद्याद् आदित्यग्रहणं बुधः ॥

11.10

अयुते द्वे सहस्रं तु षट्शतानि तथैव च
अहोरात्रेण योगीन्द्रो जपसंख्यां करोति सः ॥

11.11

प्राणायामं समासेन कथयामि तवाखिलम्
उच्चारयेत्तु प्रणवं स्वरेणैकेन योगवित् ॥

11.12

उदरं पूरयित्वा तु वायुना यावदीप्सितम्
प्राणायामो भवेदेष पूरको देहपूरकः ॥

11.13

पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः
सम्पूर्णकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः ॥

11.14

मुञ्चेद्वायुं ततश्चोर्ध्वं श्वासेनैकेन योगवित्
निश्वासयोगयुक्तस्तु यावदूर्ध्वं स रेचयेत् ॥

11.15

रेचकस्त्वेष विख्यातः प्राणसंशयकारकः
यत्तद्धृदि सदा पद्मम् अधोमुखमवस्थितम् ॥

11.16

विकसत्येतदूर्ध्वं तु पूरकेण तु पूरितम्
ऊर्ध्वस्रोतो भवेत्पद्मं कुम्भकेन निरोधितम् ॥

11.17

रेचकेन तथा क्षिप्तं सद्यःप्राणहरेण तु
मुक्त्वा हृदयपद्मं तु ऊर्ध्वस्रोतोव्यवस्थितम् ॥

11.18

रेचितो गच्छति ह्यूर्ध्वं ग्रन्थिं भित्त्वा क्षणेन तु
भित्त्वा कपालद्वारं तु जीवो ह्यूर्ध्वं तु रेचितः ॥

11.19

सदाशिवपदं गत्वा न भूयो जन्म चाप्नुयात्
आयामः क्रियते तस्य नान्यस्य तु कदाचन
स जीवो जीवलोकस्य मया प्रोक्तः समासतः ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc