भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 41-60

41

तथा सुरासुरनर ब्रह्मब्रह्माण्डकोटयः ॥

42

क्लेशकर्मविपाकाद्यैर् अस्पृष्टस्याखिलेशितुः ॥

43

ज्ञानादिषाड्गुण्यनिधेर् अचिन्त्यविभवस्य ताः ॥

44

विष्णोर् विभूतिमहिम समुद्रद्रप्सविप्रुषः ॥

45

कः खल्व् अङ्गुलिभङ्गेन समुद्रान् सप्तसङ्ख्यया ॥

46

गणयन् गणयेद् ऊर्मि फेनबुद्बुदविप्रुषः ॥

47

यथैक एव सविता न द्वितीयो नभःस्थले ॥

48

इत्य् उक्त्या न हि सावित्रा निषिध्यन्ते ऽत्र रश्मयः ॥

49

यथा प्रधानसङ्ख्येय सङ्ख्यायां नैव गण्यते ॥

50

सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थत्वत् ॥

51

पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥

52

इति ब्रुवञ् जगत् सर्वम् इत्थम्भावे न्यवेशयत् ॥

53

एतावान् अस्य महिमा ततो ज्यायस्तरो हि सः ॥

54

यत्रान्यन् न विजानाति स भूमोदरम् अन्तरम् ॥

55

कुरुते ऽस्य भयं व्यक्तम् इत्यादिश्रुतयः पराः ॥

56

मेरोर् इवाणुर् यस्येदं ब्रह्माण्डम् अखिलं जगत् ॥

57

इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ॥

58

वाचारम्भणमात्रं तु जगत् स्थावरजङ्गमम् ॥

59

विकारजातं कूटस्थं मूलकारणम् एव सत् ॥

60

अनन्यत् कारणात् कार्यं पावकाद् विस्फुलिङ्गवत् ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc