संवित्सिद्धि · श्लोक 21-40
द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् ॥
विशेषणे वा तद् ब्रह्म तृतीयं प्रथमं तु वा ॥
प्रसक्तं पूर्ववत् सर्वं बहुव्रीहौ समस्यति ॥
ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्त्रये ॥
ब्रह्म प्रत्य् अद्वितीयत्वात् स्वस्थास् तिष्ठन्त्य् अबाधिताः ॥
किंच तत्र बहुव्रीहौ समासे संश्रिते सति ॥
वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः ॥
सत्य् अर्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ॥
द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् ॥
असत्त्वान् न ह्य् असद् ब्रह्म भवेन् नापि विशेषणम् ॥
तस्मात् प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः ॥
स्वप्रमाणबलात् सिद्धः श्रुत्या चाप्य् अनुमोदितः ॥
तेनाद्वितीयं ब्रह्मेति श्रुतेर् अर्थो ऽयम् उच्यते ॥
द्वितीयगणनायोग्यो नासीद् अस्ति भविष्यति ॥
समो वाभ्यदिको वास्य यो द्वितीयस् तु गण्यते ॥
यतो ऽस्य विभवव्यूह कलामात्रम् इदं जगत् ॥
द्वितीयवागास्पदतां प्रतिपद्येत तत् कथम् ॥
यथा चोलनृपः सम्राड् अद्वितीयो ऽद्य भूतले ॥
इति तत्तुल्यनृपति निवारणपरं वचः ॥
न तु तद्भृत्यतत्पुत्र कलत्रादिनिषेधकम् ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0