भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 61-80

61

मृत्तिकालोहबीजादि नानादृष्टान्तविस्तरैः ॥

62

नाशकद् दग्धुम् अनलस् तृणं मज्जयितुं जलम् ॥

63

न वायुश् चलितुं शक्तस् तच् छक्त्याप्यायनाद् ऋते ॥

64

एकप्रधानविज्ञानाद् विज्ञातम् अखिलं भवेत् ॥

65

इत्यादिवेदवचन तन्मूलाप्तागमैर् अपि ॥

66

ब्रह्मात्मनात्मलाभो ऽयं प्रपञ्चश् चिदचिन्मयः ॥

67

इति प्रमीयते ब्राह्मी विभूतिर् न निषिध्यते ॥

68

तन्निषेधे समस्तस्य मिथ्यात्वाल् लोकवेदयोः ॥

69

व्यवहारास् तु लुप्येरंस् तथा स्याद् ब्रह्मधीर् अपि ॥

70

व्यावहारिकसत्यत्वान् मृषत्वे ऽप्य् अविरुद्धता ॥

71

प्रत्यक्षादेर् इति मतं प्राग् एव समदूदुषम् ॥

72

अतश् चोपनिषज्जात ब्रह्माद्वैतधिया जगत् ॥

73

न बाध्यते विभूतित्वाद् ब्रह्मणश् चेत्य् अवस्थितम् ॥

74

ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् ॥

75

असत्त्वे वा कथं तस्मिन्न् अस्तीति प्रत्ययो भवेत् ॥

76

सदसत्त्वं तथैकस्य विरुद्धत्वाद् असम्भवि ॥

77

सदसत्प्रत्ययप्राप्त विरुद्धद्वन्द्वसङ्गमे ॥

78

तयोर् अन्यतरार्थस्य निश्चयाभावहेतुतः ॥

79

सदसत्त्वं प्रपञ्चस्य जैनास् तु प्रतिजानते ॥

80

सत्त्वप्राप्तिं पुरःकृत्य नास्तीति प्रत्ययोदयात् ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc