संवित्सिद्धि · श्लोक 261-280
अविद्या सा किम् एकैव नैका वा तद् इदं वद ॥
तदाश्रयश् च संसारी तथैको नैक एव वा ॥
सा चेद् एका ततः सैका शुकस्य ब्रह्मविद्यया ॥
पूर्वम् एव निरस्तेति व्यर्थस् ते मुक्तये श्रमः ॥
स्यान् मतं नैव ते सन्ति वामदेवशुकादयः ॥
यद्विद्यया निरस्तत्वान् नाद्याविद्येति चोद्यते ॥
मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया ॥
दृश्यत्वान् मामकस्वप्न दृश्यभेदप्रपञ्चवत् ॥
यत् पुनर् ब्रह्मविद्यातस् तेषां मुक्तिर् अभूद् इति ॥
वाक्यं तत् स्वाप्नमुक्त्युक्ति युक्त्या प्रत्यूह्यताम् इति ॥
नन्व् ईदृशानुमानेन स्वाविद्यापरिकल्पितम् ॥
प्रपञ्चं साधयत्य् अन्यः कथं प्रत्युच्यते त्वया ॥
त्वदविद्यानिमित्तत्वे यो हेतुस् ते विवक्षितः ॥
स एव हेतुस् तस्यापि भवेत् सर्वज्ञसिद्धिवत् ॥
इत्य् अन्योन्यविरुद्धोक्ति व्याहते भवतां मते ॥
मुखम् अस्तीति यत्किंचित् प्रलपन्न् इव लक्ष्यसे ॥
यथा च स्वाप्नमुक्त्युक्ति सदृशी तद्विमुक्तिगीः ॥
तथैव भवतो ऽपीति व्यर्थो मोक्षाय ते श्रमः ॥
यथा तेषाम् अभूतैव पुरस्ताद् आत्मविद्यया ॥
मुक्तिर् भूतोच्यते तद्वत् परस्ताद् आत्मविद्यया ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0