भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 281-300

281

अभाविन्य् एव सा मिथ्या भाविनीत्य् अपदिश्यताम् ॥

282

सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ॥

283

ननु नेदं अनिष्टं मे यन् मुक्तिर् न भविष्यति ॥

284

आत्मनो नित्यमुक्तत्वान् नित्यसिद्धैव सा यतः ॥

285

तद् इदं शान्तिकर्मादौ वेतालावाहनं भवेत् ॥

286

येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ॥

287

अविद्याप्रतिबद्धत्वाद् अथ सा नित्यसत्य् अपि ॥

288

असतीवेति तद्व्यक्तिर् विद्याफलम् उपेयते ॥

289

हस्तस्थम् एव हेमादि विस्मृतं मृग्यते यथा ॥

290

यथा तद् एव हस्तस्थम् अवगम्योपशाम्यते ॥

291

तथैव नित्यमुक्तात्म स्वरूपानवबोधतः ॥

292

संसारिणस् तथाभावो व्यज्यते ब्रह्मविद्यया ॥

293

हन्त केयम् अभिव्यक्तिर् या विद्याफलम् इष्यते ॥

294

स्वप्रकाशस्य चिद्धातोर् या स्वरूपपदे स्थिता ॥

295

संवित् किं सैव किंवाहं ब्रह्मास्मीतिति किदृशी ॥

296

यदि स्वरूपसंवित् सा नित्यैवेति न तत्फलम् ॥

297

अथ ब्रह्माहम् अस्मीति संवित्तिर् व्यक्तिर् इष्यते ॥

298

ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथं ॥

299

किंच सा तत् त्वम् अस्यादि वाक्यजन्या भवन्मते ॥

300

उत्पत्तिमत्य् अनित्येति मुक्तस्यापि भयं भवेत् ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc