संवित्सिद्धि · श्लोक 241-260
तात्त्विकं तु प्रमाणत्वम् अद्वैतवचसाम् इति ॥
नियामकं न पश्यामो निर्बन्धात् तावकाद् ऋते ॥
आश्रयप्रतियोगित्वे परस्परविरोधिनी ॥
कथं वैकरसं ब्रह्म सद् इति प्रतिपद्यते ॥
प्रत्यक्त्वेनाश्रयो ब्रह्म रूपेण प्रतियोगि चेत् ॥
रूपभेदः कुतस्त्यो ऽयं यद्य् अविद्याप्रसादजः ॥
ननु सापि तदायत्तेत्य् अन्योन्याश्रयणं पुनः ॥
अवस्तुत्वाद् अविद्यायाः (नैतत् तद्दूषणं यदि) ॥
वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ॥
(स्वसाध्यस्य पुरः)काराद् दोषो ऽन्योन्यसमाश्रयः ॥
न वस्तुत्वाद् अवस्तुत्वाद् इत्य् अतो नेदम् उत्तरम् ॥
किंच विद्या न चेद् (वस्तु व्यवहारः कुतस् त्व् अयम्) ॥
(न चैष व्योम)पुष्पादि व्यवहारवद् इष्यते ॥
नाप्य् अवस्त्व् इति चो(क्तिस् ते वस्तुतां तत्र साधयेत्) ॥
(निषिध्यते) समस्तेन नञा वस्त्व् इति चेत् (न तत्) ॥
समस्तेन नञा वस्तु प्रथमं यन् निषिध्यते ॥
प्रतिप्रसूतं व्यस्तेन पुनस् तद् इति वस्तुता ॥
अतो न वस्तु ना(वस्तु याविद्या तद्बले सति) ॥
(भेदो) न कश् चकास्तिति विवक्षीर् मा स्म जातुचित् ॥
किंच प्रपञ्चनिर्वाह जननी येयम् आश्रिता ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0