संवित्सिद्धि · श्लोक 221-240
न हि ज्ञानाद् ऋते ऽज्ञानम् अन्यतस् ते निवर्तते ॥
संविद् एवेति चेत् तस्या ननु भावाद् असम्भवः ॥
किंचेयं तद्विरुद्धा वा न तस्याः क्वापि सम्भवः ॥
यतो ऽखिलं जगद् व्याप्तं विद्ययैवाद्वितीयया ॥
अभावो ऽन्यो विरुद्धो वा संविदो ऽपि यदीष्यते ॥
तदानीं संविदद्वैत प्रतिज्ञां दूरतस् त्यज ॥
किंचासौ कस्य जीवस्य को जीवो यस्य सेति चेत् ॥
नन्व् एवम् असमाधानम् अन्योन्याश्रयणं भवेत् ॥
नर्ते जीवाद् अविद्या स्यान् न च जीवस् तया विना ॥
न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेर् अयोगतः ॥
ब्रह्मणश् चेन् न सर्वज्ञं कथं तद् बम्भ्रमीति ते ॥
अविद्याकृतदेहात्म प्रत्ययाधीनता न ते ॥
ब्रह्मसर्वज्ञभावस्य तत्स्वाभाविकताश्रुतेः ॥
भेदावभासगर्भत्वाद् अथ सर्वज्ञता मृषा ॥
तत एवामृषा कस्मान् न स्याच् छब्दान्तरादिवत् ॥
यथा शब्दान्तराभ्यास सङ्ख्याद्याः शास्त्रभेदकाः ॥
भेदावभासगर्भाश् च यथार्थास् तादृशी न किम् ॥
सर्वज्ञे नित्यमुक्ते ऽपि यद्य् अज्ञानस्य सम्भवः ॥
तेजसीव तमस् तस्मान् न निवर्तेत केनचित् ॥
सर्वज्ञत्वादिवचन प्रामाण्यं व्यावहारिकम् ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0