संवित्सिद्धि · श्लोक 201-220
प्रकाशमानो नीलादिः संविदो वा न भिद्यते ॥
आदौ प्रतीतिसुभगो निर्वाहो लोकवेदयोः ॥
यतः पदपदार्थादि न किंचिद् अवभासते ॥
द्वितीये संविदो ऽद्वैतं व्याहन्येत समीहितम् ॥
यद्य् अयं विविधाकार प्रपञ्चः संविदात्मकः ॥
सापि संवित् तदात्मेति यतो नाना प्रसज्यते ॥
न चाविद्याविलासत्वाद् भेदाभेदानिरूपणा ॥
सा हि न्यायानलस्पृष्टा जाटुषाभरणायते ॥
तथा हि यद्य् अविद्येयं विद्याभावात्मिकेष्यते ॥
निरुपाख्यस्वभावत्वात् सा न किंचिन् नियच्छति ॥
अर्थान्तरम् अविद्या चेत् साध्वी भेदानिरूपणा ॥
अर्थानर्थान्तरत्वादि विकल्पो ऽस्या न युज्यते ॥
विद्यातो ऽर्थान्तरं चासाव् इति सुव्याहृतं वचः ॥
अथार्थान्तरभावो ऽपि तस्यास् ते भ्रान्तिकल्पितः ॥
हन्तैवं सत्य् अविद्यैव विद्या स्यात् परमार्थतः ॥
किंच शुद्धाजडा संविद् अविद्येयं तु नेदृशी ॥
तत् केन हेतुना सेयम् अन्यैव न निरूप्यते ॥
अपि चेयम् अविद्या ते यदभावादिरूपिणी ॥
सा विद्या किं नु संवित्तिर् वेद्यं वा वेदिताथवा ॥
वेद्यत्वे वेदितृत्वे च नास्यास् ताभ्यां निवर्तनम् ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0