भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 181-200

181

रूपादिवद् अतः संविद् अद्वितिया स्वयम्प्रभा ॥

182

अतस् तद्भेदम् आश्रित्य यद् विकल्पादिजल्पितम् ॥

183

तद् अविद्याविलासो ऽयम् इति ब्रह्मविदो विदुः ॥

184

हन्त ब्रह्मोपदेशो ऽयं श्रद्दधानेषु शोभते ॥

185

वयम् अश्रद्दधानाः स्मो ये युक्तिं प्रार्थयामहे ॥

186

प्रतिप्रमातृविषयं परस्परविलक्षणाः ॥

187

अपरोक्षं प्रकाशन्ते सुखदुःखादिवद् धियः ॥

188

सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः ॥

189

न हि भेदः स्वतो नास्ति नाप्रत्यक्षश् च संमतः ॥

190

यदि सर्वगता नित्या संविद् एवाभ्युपेयते ॥

191

ततः सर्वं सदा भायान् न वा किंचित् कदाचन ॥

192

तदानीं न हि वेद्यस्य सन्निधीतरकारिता ॥

193

व्यवस्था घटते वित्तेर् व्योमवद्वैभवाश्रयात् ॥

194

नापि कारणभेदेन नित्यायास् तदभावतः ॥

195

न च स्वरूपनानात्वात् तदेकत्वपरिग्रहात् ॥

196

ततश् च बधिरान्धादेः शब्दादिग्रहणं भवेत् ॥

197

गुरुशिष्यादिभेदश् च निर्निमित्तः प्रसज्यते ॥

198

ननु नः संविदो भिन्नं सर्वं नाम न किंचन ॥

199

अतः सर्वं सदा भायाद् इत्य् अकाण्डे ऽनुयुज्यते ॥

200

इदम् आख्याहि भोः किं नु नीलादिर् न प्रकाशते ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc