संवित्सिद्धि (अन्य संस्करण) · श्लोक 60-79
अविद्योपाधिके जीवे विनाशे नेति यन् मतम्
क्षुद्रब्रह्मविदाम् एतन् मतं प्राग् एव दूषितम् ॥
चिद्स्वरूपे विशिष्टे वा मायाविद्याद्युपाधयः
पूर्वस्मिन् सर्वसाअङ्कर्यं परजीवाविभागतः ॥
उत्तरस्मिन्न् अपि तथा विशिष्टम् अपि चिद् यदि
चित्स्वरूपं हि निर्भेदं मायाविद्याद्युपाधिभिः
विभिन्नम् इव विभ्रान्तं विशिष्टं च ... (मतं तव) ॥
तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम्
न हि दण्डिशिरश्छेदाद् देवदत्तो न हिंसितः ॥
अचिदंशव्यपोहेन चिदेकपरिशेषता
अतस् तत् त्वम् असीत्य् आदेर् अर्थे इत्य् अप्य् असुन्दरम् ॥
अब्रह्मानात्मताभावे प्रत्यक् चित् परिशिष्यते
तत्त्वंपदद्वयं जीव परतादात्म्यगोचरम्
तन्मुख्यवृत्ति तादात्म्यम् अपि वस्तुद्वयाश्रयम् ॥
भेदाभेदविकल्पस् तु यत् त्वया परिचोदितः
अभेदाभेदिनो ऽसत्ये बन्धे सति निरर्थकः ॥
अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः
भेदः परस्परानात्म्यं भावानाम् एवम् एतयोः ॥
स्वरूपम् अभ्युपेत्यैव भेदाभेदविकल्पयोः
(बाधनं) तेन वागबाधा विरोधेन निगृह्यसे ॥
भिन्नाभिन्नत्वसम्बन्ध सदसत्त्वविकल्पनम्
प्रत्यक्षानुभवापारतं केवलं कण्ठशोषणम् ॥
नीले नीलमतिर् यादृग् उत्पले नीलधीर् हि सा
नीलम् उत्पलम् एवेदम् इति साक्षाच्चकास्ति नः ॥
यथा विदितसंयोग सम्बन्धे ऽप्य् अक्षगोचरे
भेदाभेदादिदुस्तर्क विकल्पाधानविभ्रमः ॥
तद्वत् तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके
श्रुतिदण्डेन दुस्तर्क विकल्पभ्रमवारणम् ॥
निर्दोषापौरुषेयी च श्रुतिर् अत्यर्थम् आदरात्
असकृत्तत्त्वम् इत्य् आह तादात्म्यं ब्रह्मजीवयोः ॥
ब्रह्मानन्दह्रदान्तःस्थोः मुक्तात्मा सुखम् एधते
फले च फलिनो ऽभावान् मोक्षस्यापुरुषार्थता
एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥
किञ् च प्रपञ्चरूपेण का नु संविद् विवर्तते
न तावद् घटधीस् तस्याम् असत्याम् अपि दर्शनात् ॥
न हि तस्याम् अजातायां नष्टायां वाखिलं जगत्
नास्तीति शक्यते वक्तुम् उक्तौ प्रत्यक्षबधनात्
नाप्य् अन्यसंवित् तन्नाशे ऽप्य् अन्येषाम् उपलम्भनात् ॥
ननु संविदभिन्नैका न तस्याम् अस्ति भेदधीः
घटादयो हि भिद्यन्ते न तु सा चित् प्रकाशनात् ॥
घटधीः पटसंवित्ति समये नावभाति चेत्
नैवं, घटो हि नाभाति सा स्फुरत्य् एव तु स्फुटम् ॥
घटव्यावृत्तसंवित्तिर् अथ न स्फुरतीति चेत्
तद्व्यावृत्तिपदेनापि किं सैवोक्ताथ वेतरत्
सैव चेद् भासते ऽन्यच् चेन् न ब्रूहस् तस्य भासनम् ॥
मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0