भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि (अन्य संस्करण) · श्लोक 80-99

80

किञ् चास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः
ऋते विषयनानात्वान् नानात्वावग्रहभ्रमः ॥

81

न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लौकिकः
घटादिवेद्यभेदो ऽपि केवलं भ्रमलक्षणः ॥

82

यदा, तदा तदायतो धीभेदावग्रहोदयः
कुतः, कुतस्तरां तस्य परमार्थत्वसम्बन्धः ॥

83

किञ् च स्वयंप्रकाशस्य स्वतो वा परतो ऽपि वा
प्रागभावादिसिद्धिः स्यात्, स्वतस् तावन् न युज्यते ॥

84

स्वस्मिन् सति विरुद्धत्वाद् अभावस्यानवस्थितेः
स्वनिमित्तप्रकाशस्य स्वस्याभावे ऽप्य् असम्भवात्
अनन्यगोचरत्वेन चितो न परतो ऽपि च ॥

85

किञ् च वेद्यस्य भेदादेर् न चिद्धर्मत्वसम्भवः
रूपादिवत्, अतः संविद् अद्वितीया स्वयंप्रभा ॥

86

अतस् तद्भेदम् आश्रित्य यद्विलक्षणादिजल्पितम्
तदविद्या+विलासो ऽयम् इति ब्रह्मविदो विदुः ॥

87

हन्त ब्रह्मोपदेशो ऽयं श्रद्दधानेषु शोभते
वयम् अश्रद्दधानाः सो ये युक्तिं प्रार्थयामहे ॥

88

प्रतिप्रमातृविषयं परस्परविलक्षणाः
अपरोक्षं प्रकाशन्ते सुखदुःखादिवद् धियः ॥

89

सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः
न हि भेदः स्वतो नास्ति नाप्रत्यक्षश् च संअतः ॥

90

यदि सर्वगता नित्या संविद् एवाभ्युपेयते
ततः सर्वं सदा भायात्, न वा किञ्चित् कदाचन ॥

91

तदानीं न हि वेद्यस्य सन्न्निधीतरकारिता
व्यवस्था घटते, वित्तेर् व्योमवद् वैभवाश्रयात् ॥

92

नापि कारणभेदेन. नित्यायास् तदभावतः
न च स्वरूपनानात्वात्, तद् एकत्वपरिग्रहात् ॥

93

ततश् च बधिरान्धादेः शब्दादिग्रहणं भवेत्
गुरुशिष्यादिभेदश् च निर्निमित्तः प्रसज्यते ॥

94

ननु नः संविदो भिन्नं सर्वं नाम न किञ्चन
अतः सर्वं सदा भायाद् इत्यकण्डे ऽनुयुज्यते ॥

95

इदम् आख्याहि भो किं नु नीलादिर् न प्रकाशते
प्रकाशमानो नीलादिः संविदो वा न भिद्यते ॥

96

आदौ प्रतीतिसुभगो निवाहो लोकवेदयोः
यतः पदपदार्थादि न किञ्चिद् अवभासते ॥

97

द्वितीये संविदो ऽद्वैतं व्याहन्येत समीहितम्
यद्य् अयं विविधाकार प्रपञ्चः संविदात्मकः
सापि संवित् तद् आत्मेति यतो नाना प्रसज्यते ॥

98

न चाविद्याविलासत्वाद् भेदाभेदानिरूपणा
सा हि न्यायानलस्पृष्टा जातुषाभरणायते ॥

99

तथा हि यद्य् अविद्येयं विद्याभावात्मिकेष्यते
निरुपाख्यस्वभावत्वात् सा न किञ्चिन् नियच्छति ॥

मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc