भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि (अन्य संस्करण) · श्लोक 41-59

41

सदसत्प्रत्ययप्राप्त विरुद्धद्वन्द्वसङ्कटे
विरोधपरिहारार्थं सत्त्वासत्त्वांशभङ्गतः
सदसद्भ्याम् अनिर्वाच्यं प्रपञ्चं केचिद् ऊचिरे ॥

42

सत्त्वासत्त्वे विभागेन देशकालादिभेततः
घटादेर् इति मन्वाना व्यवस्थाम् अपरे जगुः ॥

43

तद् एवं वादिसम्मर्दात् संशये समुपस्थिते
निर्णयः क्रियते तत्र मीमंसकमतेन तु ॥

44

घटस्वरूपे नास्तित्वम् अस्तित्वं यद्य् अबूबुधत्
स्याद् एव युगपत्सत्त्वम् असत्त्वं च घतादिषु ॥

45

इदानीम् इदम् अत्रास्ति नास्तीत्येवंविधा यतः
देशकालदशाभेदाद् अस्ति नास्तीति नो धियः ॥

46

अतो देशादिभेदेन सदसत्त्वं घटादिषु
व्यवस्थितं निरस्तत्वाद् वादस्येह न सम्भवः ॥

47

ननु देशादिसम्बन्धः सत एवोपपद्यते
न देशकालसम्बन्धाद् असतः सत्त्वम् इष्यते ॥

48

सम्बन्धो द्व्याश्रयस् तस्मात् सतः सत्त्वं सदा भवेत्
असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ॥

49ab

आद्यन्तवान् प्रपञ्चो ऽतः सत्कक्षान्तर्निवेश्यते

49cf

"आदाव् अन्ते च यन् नास्ति नास्ति मध्ये ऽपि तत् तथा"
अतो निश्चितसद्भावः सदा सन्न् अभ्युपेयताम् ॥

50

असतः सर्वदासत्त्वं जन्ययोगात् खपुष्पवत्
असत्त्वे न विशेषो ऽस्ति प्रागत्यन्तासतोर् इह ॥

51

श्वेतकेतुम् उपादाय तत् त्वम् इत्य् अपि यच् छ्रुतम्
षष्ठप्रपाटके तस्य कुतो मुख्यार्थसम्भवः ॥

52

कार्पण्यशोकदुःखार्तश् चेतनस् त्वंपदोदितः
सर्वज्ञस् सत्यसङ्कल्पो निस्सीमसुखसागरः
तत्पदार्थस् तयोर् ऐक्यं तेजस् तिमिरवत् कथम् ॥

53

त्वमर्थस्थे तटस्थे वा (तदर्थस्थे विभेदके)
गुणे तत्त्वंपदश्रुत्योर् ऐकार्थ्यं दूरवारितम् ॥

54

अज्ञत्वसर्ववेदित्व दुःखित्वसुखितादिके
विशेषणे वा चिद्धातोर् अथ वाप्य् उपलक्षणे
विरुद्धगुणसङ्क्रान्तेर् भेदः स्यात् त्वंतदर्थयोः ॥

55

वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता
सो ऽयं गौर् इतिवत् तत्त्वं पदयोर् इत्य् अपेशलम् ॥

56

देशकालदशाभेदाद् एकस्मिन्न् अपि धर्मिणि
विरुद्धद्वन्द्वसङ्क्रान्तेः सो ऽयं गौर् इति युज्यते ॥

57

स्वप्रकाशस्य चिद्धातोर् विरुद्धद्वन्द्वसङ्गतौ
न व्यवस्थापकं किञ्चिद् देशकालदशादिके ॥

58

निर्धूतनिखिलद्वन्द्व स्वप्रकाशे चिदात्मनि
द्वैतानर्थभ्रमाभावाच् छास्त्रं निर्विषयं भवेत् ॥

59

एतेन सत्यकामत्व जगत्कारणतादयः
मा(योपाधौ परे) ऽध्यस्ताः शोकमोहादयः पुनः ॥

मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc