भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि (अन्य संस्करण) · श्लोक 21-40

21

तथा सुरासुरनर ब्रह्मब्रह्माण्डकोटयः
क्लेशकर्मविपाकाद्यैर् अस्पृष्टस्याखिलेशितुः ॥

22

ज्ञानादिषाण्गुण्यनिधेर् अचिन्त्यविभवस्य ताः
विष्णोर् विभूतिमहिम समुद्रद्रप्सविप्रषः ॥

23

कः खल्व् अङ्गुलिभङ्गेन समुद्रान् सप्तसङ्ख्यया
गणयन् गणयेद् ऊर्मि फेनबुद्बुदविप्रुषः ॥

24

यथैक एव सविता न द्वितीयो नभःस्थले
इत्युक्त्या न हि सावित्रा निषिध्यन्ते ऽत्र रश्मयः ॥

25

यथा प्रधानसङ्ख्येय सङ्ख्यायां नैव गण्यते
सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थवत् ॥

26

पादो ऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि
इति ब्रुवन् जगत् सर्वम् इत्थम्भावे न्यवेशयत् ॥

27

एतावान् अस्य महिमा ततो ज्यायस्तरो हि सः
यत्रान्यन् न विजानाति स भूमोद् अरम् अन्तरम्
कुरुते ऽस्य भयं व्यक्तम् इत्यादिश्रुतयः पराः ॥

28

मेरोर् इवाणुर् यस्येदं ब्रह्माण्डम् अखिलं जगत्
इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ॥

29

वाचारम्भणमात्रं तु जगत् स्थावरजङ्गमम्
विकारजातं, कूटस्थं मूलकारणम् एव सत् ॥

30

अनन्यत् कारणात् कार्यं पावकाद् विस्फुलिङ्गवत्
मृत्तिकालोहबीजादि नानादृष्टान्तविस्तरैः ॥

31

नाशकद् दग्धम् अनलस् तृणं मज्जयितुं जलम्
न वायुश् चलितुं शक्तः तच्छक्त्याप्य् आयनाद् ऋते ॥

32

एकप्रधानविज्ञानाद् विज्ञातम् अखिलं भवेत्
इत्यादिवेदवचन तन्मूलाप्तागमैर् अपि ॥

33

ब्रह्मात्मनात्मलाभो ऽयं प्रपञ्चश् चिदचिन्मयः
इति प्रमीयते ब्राम्ही विभूतिर् न निषिध्यते ॥

34

तन्निषेधे समस्त तस्य मिथ्यात्वाल् लोकवेदयोः
व्यवहारास् तु लुप्येरन् तथा स्याद् ब्रह्मधीर् अपि ॥

35

व्यावहारिकसत्यत्वान् मृषात्वे ऽप्य् अविरुद्धता
प्रत्यक्षादेर् इति मतं प्राग् एव समदूदुषम् ॥

36

अतश् चोपनिषञ्जात ब्रह्माद्वैतधिया जगत्
न बाध्यते विभूतित्वाद् ब्रह्मणश् चेत्यवस्थितम् ॥

37

ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम्
असत्त्वे वा कथं तस्मिन्न् अस्तीति प्रत्ययो भवेत् ॥

38

सदसत्त्वं तथैकस्य विरुद्धत्वाद् असम्भवि
सदसत्प्रत्ययप्राप्त विरुद्धद्वन्द्वसङ्गमे ॥

39

तयोर् अन्यतरार्थस्य निश्चयाभावहेतुतः
सदसत्त्वं प्रपञ्चस्य जैनास् तु प्रतिपेदिरे ॥

40

सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात्
सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास् तु प्रतिपादिरे ॥

मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc