भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि (अन्य संस्करण) · श्लोक 1-20

1

एकम् एवाद्वितीयं तद् ब्रह्मेत्य् उपनिषद्वचः
ब्रह्मणो ऽन्यस्य सद्भावं ननु तत् प्रतिषेधति ॥

2

अत्र ब्रूमो ऽद्वितीयोक्तौ समासः को विवक्षितः
किंस्वित् तत्पुरुषः किं वा बहुव्रीहिर् अथोच्यताम् ॥

3

पूर्वस्मिन्न् उत्तरस् तावत् प्रधान्येन विवक्ष्यते
पदार्थस् तत्र तद् ब्रह्म ततोऽन्यत् सदृशं तु वा ॥

4

तद्विरुद्धम् अथो वा स्यात् त्रिष्व् अप्य् अन्यन् न बाधते
अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ॥

5

विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा
ब्रह्म प्राप्नोति यस्मात् तद् द्वितीयेन विरुध्यते ॥

6

अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः
द्वितीयेन तथा स्पृष्ट्वा स्वार्थास् तिष्ठन्त्य् अबाधिताः ॥

7

ननु नञ् ब्रह्मणो ऽन्यस्य सर्वस्यैव निषेधकम्
द्वितीयग्रहणं यस्मात् सर्वस्यैवोपलक्षणम् ॥

8

नैवं निषेधो न ह्य् अस्माद् द्वितीयस्यावगम्यते
ततो ऽन्यत् तद्विरुद्धं वा सदृशं वात्र वक्ति सः ॥

9

द्वितीयं यस्य नैवास्ति तद् ब्रह्मेति विवक्षिते
सत्यादिलक्षणोक्तीनाम् अपलक्षणता भवेत् ॥

10

अद्वितीये द्वितीयार्थ नास्तितामात्रगोचरे
स्वनिष्ठत्वान् नञर्थस्य न स्याद् ब्रह्मपदान्वयः ॥

11

द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम्
विशेषणे वा तद् ब्रहम तृतीयं प्रथमं तु वा ॥

12

प्रसक्तं पूर्ववत् सर्वं बहुव्रीहौ समस्यति
ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्त्रये ॥

13

ब्रह्म प्रत्य् अद्वितीयत्वात् स्वस्थास् तिष्ठन्त्य् अबाधिताः
किञ् च तत्र बहुव्रीहौ समासे संश्रिते सति ॥

14

वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः
सत्य् अर्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ॥

15

द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम्
असत्त्वान् न ह्य् असद् ब्रह्म भवेन् नापि विशेषणम् ॥

16

तस्मात् प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः
स्वप्रमाणबलात् सिद्धः श्रुत्या चाप्य् अनुमोदितः ॥

17

तेनाद्वितीयं ब्रह्मेति श्रुतेर् अर्थो ऽयम् उच्यते
द्वितीयगणनायोग्यो नासीद् अस्ति भविष्यति ॥

18

समो वाभ्यधिको वास्य यो द्वितीयस् तु गुण्यते
यतो ऽस्य विभवव्यूह कलामात्रम् इदं जगत् ॥

19

द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम्
यथा चोलनृपः सम्राड् अद्वितीयो ऽद्य भूतले ॥

20

इति तत्तुल्यनृपति निवारणपरं वचः
न तु तद्भृत्यतत्पुत्र कलत्रादिनिषेधकम् ॥

मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc