संवित्सिद्धि (अन्य संस्करण) · श्लोक 180-199
यथा तन्मात्रधीर् नाना नास्तिव्याहारसाधनी
ह्लस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ॥
एवं व्यवस्थितानेक प्रकाराकारवत्तया
प्रत्यक्षस्य प्रपञ्चस्य तद्भावो ऽशक्यनिह्नवः ॥
आगमः कार्यनिष्ठत्वाद् ईदृशे ऽर्थे न तु प्रमा
प्रामाण्ये ऽप्य् अन्वयायोग्य पदार्थत्वान् न बोधकः ॥
नासत् प्रतीतेः, बाधाच् च न सद् इत्य् अपि यन् न तत्
प्रतीतेर् एव सत् किं न बाधान् नासत् कुतो जगत् ?
तस्माद् अविद्ययैवेयम् अविद्या भवताश्रिता ॥
किञ् च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः
मिथ्या वा परमार्थो वा नाद्यः कल्पो ऽयम् अञ्जसा ॥
तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम्
पारमार्थ्ये ऽपि तेनैव तवाद्वैतं विहन्यते ॥
सर्वाण्य् एव प्रमाणानि स्वं स्वम् अर्थं यथोदितम्
असतो ऽर्थान्तरेभ्यश् च व्यवच्छिन्दन्ति भान्ति नः ॥
तथा हीह घटो ऽस्तीति येयं धीर् उपजायते
सा तदा तस्य नाभावं पटत्वं वानुमन्यते ॥
नन्व् अस्तीति यद् उक्तं किं तन्मात्रं घट इत्य् अपि
अर्थान्तरं वा, तन्मात्रे सदद्वैतं प्रसज्यते
अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ॥
यद्य् एवम् अस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम्
घटवत् सदसत्त्वाभ्याम् अनिर्वाच्यं तवापतेत् ॥
आनन्दसत्यज्ञानादि निर्देशैर् एव वैदिकैः
ब्रह्मणो ऽप्य् अतथाभावस् त्वयैवैवं समर्थितः ॥
सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते
यद् यथा किञ्चिद् उच्येत तत्सर्वस्य तथा भवेत् ॥
तस्माद् अस्तीति संवित्तिर् जायमाना घटादिषु
तत्तत्पदार्थसंस्थान पारमार्थ्यावबोधिनी ॥
सजातीयविजातीय व्यवच्छेदनिबन्धनैः
स्वैः स्वैर् व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः
सा सत्ता न स्वतन्त्रान्या तत्राद्वैतकथा कथम् ॥
न च नानाविधाकार प्रतीतिः शक्यनिह्नवा
न वेद्यं वित्तिधर्मः स्याद् इति यत्प्रागुदीरितम् ॥
तेनापि साधितं किञ्चित् संविदो ऽस्ति न वा त्वया
अस्ति चेत् पक्षपातः स्यान् न चेत् ते विफलः श्रमः ॥
अतः स्वरसविस्पष्ट दृष्टभेदास् तु संविदः
(यथावस्थायिभिर् बाह्यै)र् नैक्यं यान्ति घटादिभिः ॥
सहोपलम्भनियमो न खल्व् एकैकसंविदा
न चेद् अस्ति ससामान्यं सर्वं संवेदनास्पदम् ॥
सहोपलम्भनियमान् नान्यो ऽर्थः संविदो भवेत्
यद् एतद् अपराधीन स्वप्रकाशं तद् एव हि
स्वयम्प्रकाशताशब्दम् इति बृद्धाः प्रचक्षते ॥
यस्मिन्न् अभासमाने ऽपि यो नामार्थो न भासते
नासाव् अर्थान्तरस् तस्मान् मिथ्येन्दुर् इव चन्द्रतः ॥
मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0