भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि (अन्य संस्करण) · श्लोक 200-207

200

अभासमाने विज्ञाने न चात्मार्थावभासनम्
इति संविद्विवर्तत्वं प्रपञ्चः स्फुटम् अञ्चति ॥

201

(मैवं स्मार्थान् परिभवः) प्रत्यक्षेण बलीयसा
संरक्ष्यमाणभेदास् ते नानुमानानुवर्तिनः ॥

202

तथा हीदम् अहं वेद्मीत्य् अन्योन्यानात्मना स्फुटम्
त्रयं साक्षाच् चकास्तीति सर्वेषाम् अत्मसाक्षिकम् ॥

203

प्रत्यक्षप्रतिपक्षं च नानुमानं प्रवर्तते
न हि वह्नेर् अनुष्णत्वं द्रव्यत्वाद् अनुमीयते ॥

204

किञ् च हेतुर् विरुद्धो ऽयं सहभावो द्वयोर् यतः
तवापि न हि संवितिः स्वात्मना सह भासते ॥

205

नीलाद्युपप्लवापेत स्वच्छचिन्मात्रसन्ततिः
स्वापादौ भासते, नैवम् अर्थः संवेदनात् पृथक्
तेन संवेदनं सत्यं अंवेद्यो ऽर्थस् त्व् असन्न् इति ॥

206

तद् एतद् अपरामृष्ट स्ववाग्बाधस्य जल्पितम्
अहोपलम्भनियमो येनैवं सति हीयते ॥

207

यस्माद् ऋते यद् आभाति भाति (त)स्माद् ऋते ऽपि तत्
घटाद् ऋते ऽपि निर्भातः पटाद् इव घटः स्वयम् ॥

मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc