संवित्सिद्धि (अन्य संस्करण) · श्लोक 160-179
न च ते भ्रान्तिसिद्धास् ते येनाद्वैताविरोधिनः
तत्त्वावेदकवेदान्त वाक्यसिद्धा हि ते गुणाः ॥
आनन्दस्वप्रकाशत्व नित्यत्वमहिमाद्य् अथ
ब्रह्मस्वरूपम् एवेष्टं, तत्रापीदं विविच्यताम् ॥
ब्रह्मेति यावन् निर्दिष्टं तन्मात्रं किं सुखादयः
अथ वा तस्य ते, यद् वा त एव ब्रह्मसंज्ञिनः ॥
आद्ये तत्तत्पदाम्नान वैयर्थ्यं वेदलोकयोः
पूर्वोक्तनीत्या भेदश् च, जगज्जन्मादिकारणम् ॥
अभ्युपेत्यैव हि ब्रह्म विवादास् तेषु वदिनाम्
द्वितीये सैव तैर् एव ब्रह्मणः सद्वितीयता ॥
तृतीये ब्रह्म भिद्येत तन्मात्रत्वात् पदे पदे
तत्समूहो ऽथ वा ब्रह्म तरुवृन्दवनादिवत् ॥
प्रकर्षश् च प्रकाशश् च भिन्नाव् एवार्कवर्तिनौ
तेन न क्वापि वाक्यार्थो विभागो ऽस्ति निदर्शनम् ॥
जाड्यदुःखाद्यपोहेन यद्य् एकत्रैव वर्तिता
ज्ञनानन्दादिशब्दानां न सतस् सद्वितीयता ॥
अपोहाः किं न सन्त्य् एव, सन्तो वा, नोभये ऽपि वा
सत्त्वे सत् सद्वितीयं स्याज् जडाद्यात्मकतेतरे (ता परे) ॥
सदसद्व्यतिरेकोक्तिः पूर्वम् एव पराकृता
तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥
किञ् चापोह्यजडत्वादि विरुद्धार्थासामर्पणे
नैव तत्तदपोह्यते तदेकार्थैः पदैर् इव ॥
प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः
सैवाभाव इतीहापि सद्भिस् ते सद्वितीयता ॥
भूतभौतिकभेदानां सदसद्व्यतिर्रेकिता
कुतो ऽवसीयते किं नु प्रत्यक्षादेर् उतागमात् ॥
प्रत्यक्षादीनि मानानि स्वं स्वम् अर्थं यथायथम्
व्यवच्छिन्दन्ति जायन्त इति यावत् स्वसाक्षिकम् ॥
यथाग्रतः स्थिते नीले नीलिमान्यकथा न, धीः
एकाकारा, न हि तया स्फटिके धवले मतिः ॥
क्षीरे मधुरधीर् यदृक्, नैव निम्बकषायधीः
व्यवहाराश् च नियतः सर्वे लौकिकवैदिकाः ॥
सत्यं प्रतीतिर् असत्य् अस्या मूलं नास्तीति चेन् न तत्
सा चेद् अस्ति तस्या मूलं कल्प्यतां कार्यभूतया ॥
कॢपं चेन्द्रियलिङ्गादि तद्भावानुविधानतः
यौगपद्यक्रमायोगाद्य् अवच्छेदविधानयोः ॥
ऐक्यायोगाच् च भेदो न प्रत्यक्ष इति यो भ्रमः
भेदेतरेतराभाव विवेकाग्रहणेन सः ॥
स्वरूपम् एव भावाबां प्रत्यक्षेण परिशुरत्
भेदव्याहारहेतुः स्यात् प्रतियोगिव्यपेक्षया ॥
मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0