संवित्सिद्धि (अन्य संस्करण) · श्लोक 120-139
समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते
प्रतिप्रसूतं व्यस्तेन पुनस् तद् इति वस्तुता ॥
अतो न वस्तु ना(वस्तु न सद्वच्यं न चाप्य् असत्)
(भेदो) न कश् चकास्तीति (विवक्षीर् मा) स्म जातुचित् ॥
किञ्च प्रपञ्चनिर्वाह जननी येयम् आश्रिता
अविद्या सा किम् एकैव नैका वा तद् इदं वद
तदाश्रयश् च संसारी तथैको नैक एव वा ॥
सा चेद् एका, ततस् सैका शुकस्य ब्रह्मविद्यया
पूर्वम् एव निरस्तेति व्यर्थस् ते मुक्तये श्रमः ॥
स्यान् मतं नैव ते सन्ति वामदेवशुकादयः
यद्विद्यया निरस्तत्वान् नाद्याविद्येति चोद्यते ॥
मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया
दृश्यत्वान् मामकस्वप्न दृश्यभेदप्रपञ्चवत् ॥
यत् पुनर् ब्रह्मविद्यातस् तेषां मुक्तिर् अभूद् इति
वाक्यं तत्स्वाप्नमुक्त्युक्ति युक्त्या प्रत्यूह्यताम् इति ॥
नन्व् ईदृशानुमानेन स्वाविद्यापरिकल्पितम्
प्रपञ्चं साधयत्य् अन्यः कथं प्रत्य् उच्यते त्वया ॥
त्वद् अविद्यानिमित्तत्वे यो हेतुस् ते विवक्षितः
स एव हेतुस् तस्यापि भवेत् सरज्ञसिद्धिवत् ॥
इत्य् अन्योन्यविरुद्धोक्ति व्याहते भवतां मते
मुखम् अस्तीति यत् किञ्चित् प्रलपन्न् इव लक्ष्यसे ॥
यथा च स्वाप्नमुक्त्युक्ति सदृशी तद्विमुक्तिभीः
तथैव भवतो ऽपीति व्यर्थो मोक्षाय ते श्रमः ॥
यथा तेषाम् अभूतैव पुरस्ताद् आत्मवुद्यया
मुक्तिर् भूतोच्यते तद्वत् परस्ताद् आत्मविद्यया ॥
अभाविन्य् एव सा मिथ्या भाविनीत्य् अपदिश्यताम्
सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ॥
ननु नेदम् अनिष्टं मे यन् मुक्तिर् न भविष्यति
आत्मनो नित्यमुक्तत्वान् नित्यसिद्धैव सा यतः ॥
तद् इदं शान्तिकर्मादौ वेतालवाहनं भवेत्
येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ॥
अविद्याप्रतिबद्धत्वाद् अथ सा नित्यसत्य् अपि
असतीवेति तद्व्यक्तिर् विद्याफलम् उपेयते ॥
हस्तस्थम् एव हेमादि विस्मृतं मृग्यते यथा
यथा तद् एव हस्तस्थम् अवगम्योपशाम्यति ॥
तथैव नित्यसिद्धात्म स्वरूपानवबोधतः
संसारिणस् तथाभावो व्यज्यते ब्रह्मविद्यया ॥
हन्त केयम् अभिव्यक्तिर् या विद्याफलम् इष्यते
स्वप्रकाशस्य चिद्छातोर् या स्वरूपपदे स्थिता ॥
संवित् किं सैव किं वाहं ब्रह्मास्तीतीति कीदृशी
यदि स्वरूपसंवित् सा, नित्यैवेति न तत्प्झलम् ॥
मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0