संवित्सिद्धि (अन्य संस्करण) · श्लोक 100-119
अर्थान्तरम् अविद्या चेत् साध्वी भेदाइरूपणा
अर्थानर्थान्तरत्वादि विकल्पो ऽस्या न युज्यते
विद्यातो ऽर्थान्तरं चासाव् इति सुव्याहृतं वचः ॥
अथार्थान्तरभावो ऽपि तस्यास् ते भ्रान्तिकल्पितः
हन्तैवं सत्य् अविद्यैव विद्या स्यात् परमार्थतः ॥
किञ् च शुद्धाजडा संवित्, अविद्येयं तु नेसृशी
तत् केन हेतुना सेयम् अन्यैव न निरूप्यते ॥
अपि चेयम् अविद्या ते यदभावादिरूपिणी
सा विद्या किं नु संवित्तिर् वेद्यं वा वेदिताथ वा ॥
वेद्यत्वे वेदितृत्वे च नास्यास् ताभ्यां निवर्तनम्
न हि ज्ञानाद् ऋते ऽज्ञानम् अन्यतस् ते निवर्तते
संविद् एवेति चेत् तस्या ननु भवाद् असम्भवः ॥
किञ्चेयं तद्विरुद्धा वा, न तस्याः क्वापि सम्भवः
यतो ऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ॥
अभावो ऽन्यो विरुद्धो वा संविदो ऽपि यद् ईष्यते
तदानीं संविद् अद्वैत प्रतिज्ञां दूरतस् त्यज ॥
किञ् चासौ कस्य? जीवस्य, को जीवो यस्य सेति चेत्
नन्व् एवम् असमाधानम् अन्योन्याश्रयणं भवेत् ॥
न तु जीवाद् अविद्या स्यात्, न च जीवस् तया विना
न वीजाङ्कुरतुल्यत्वं जीवोत्पत्तेर् अयोगतः ॥
ब्रह्मणश् चेन् न सर्वज्ञं कथं तद् बंभ्रमीति ते(भोः)
अविद्याकृतदेहात्म प्रत्ययाधीनता न ते
ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः ॥
भेदावभासगभत्वाद् अथ सर्वज्ञता मृषा
तत एवामृषा कस्मान् न स्वाच् छब्दान्तरादिवत् ॥
यथा शब्दान्तराभ्यास सञ्ख्याद्याः शास्त्रभेदकाः
भेदावभासगर्भाश् च यथार्थाः, तादृशी न किम् ॥
सर्वज्ञे नित्यमुक्ते ऽपि यद्य् अज्ञानस्य सम्भवः
तेजसीव तमस् तस्मान् न निवर्तेत केनचित् ॥
सर्वज्ञत्वादिवचन प्रामाण्यं व्यावहारिकम्
तात्त्विकं तु प्रमाणत्वम् अद्वैतवचसाम् इति
नियामकं न पश्यामो निर्बन्धात् तावकाद् ऋते ॥
आश्रयप्रतियोगित्वे परस्परविरोधिनी
कथं वैकरसं ब्रह्म सद् इति प्रतिपद्यते ॥
प्रत्यक्त्वेनाश्रयो ब्रह्म रूपेण प्रतियोगि चेत्
रूपभेदः कृतस्य ऽयं यद्य् अविद्याप्रसादजः
ननु सापि तदायत्तेत्य् अन्योन्याश्रयणं पुनः ॥
अवस्तुत्वाद् अविद्यायाः ...(नेदं तद्रूपणं यदि)
वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ॥
(स्वसाध्यस्य पुरस्काराद्) दोषो ऽन्योन्यसमाश्रयः
न वस्तुत्वाद् अवस्तुत्वाद् इत्य् अतो नेदम् उत्तरम् ॥
किञ्चाविद्या न चेत् ... (वस्तु व्यवहर्यं कथं भवेत्)
(न चासद्व्योम)पुष्पादि व्यवहारवद् इष्यते ॥
नाप्य् अवस्त्व् इति चो(क्तौ तु वस्तुत्वं सिध्यति ध्रुवम्)
(निषिध्यते) समस्तेन नञा वस्त्व् इति चेन् (मतम्) ॥
मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0