संवित्सिद्धि (अन्य संस्करण) · श्लोक 140-159
अथ ब्रह्माहम् अस्मीति संवित्तिर् व्यक्तिर् इष्यते
ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ॥
किञ् च सा तत् त्वम् अस्य् आदि वाक्यजन्या भवन् मते
उत्पत्तिमत्य् अनित्येति मुक्तस्यापि भयं भवेत् ॥
अपि च व्यवहारज्ञाः सति पुष्कलकारेण
कार्यं न जायते येन तम् आहुः प्रतिबन्धकम् ॥
इह किं तद् यद् उत्पत्तुम् उपक्रान्तं स्वहेतुतः
अविद्याप्रतिबद्धत्वाद् उत्पत्तिं न प्रपद्यते ॥
न मुक्तिर् नित्यसिद्धत्वात्, न ब्रह्मास्मीति धीर् अपि
न हि ब्रह्माहम् अस्मीति संवित्पुष्कलकारणम्
संसारिणस् तदास्तीति कथं सा प्रतिबध्यते ॥
यतः सा कारणाभावाद् इदानीं नोपजायते
न पुनः प्रतिबद्धत्वाद् अस्थाने तेन तद्वचः ॥
किञ् चैको जीव इत्य् एतद् वस्तुस्थित्या न युज्यते
अविद्यातत्समाश्लेष जीवत्वादि मृषा हि ते ॥
प्रातिभासिकम् एकत्वं प्रतिभासपराहतम्
यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ॥
आसंसरसमुच्छेदं व्यवहाराश् च तत्कृताः
अबाधिताः प्रतीयन्ते स्वप्नवृत्तिविलक्षणाः ॥
तेन यौक्तिकम् एकत्वम् अपि युक्तिपराहतम्
प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः
तत्तत्स्वात्मवद् अन्ये ऽपि देहिनो ऽशक्यनिह्नवाः ॥
यथानुमेयाद् वह्न्यादेर् अ(आ)नुमाना विलक्षणाः
प्रत्यक्षं ते (क्ष्यन्ते) तथान्येभ्यो जीवेभ्यो न पृथक् कथम् ॥
न चेच् चेष्टाविशेषेण परो बोद्धानुमीयते
व्यवहारो ऽवलुप्येत सर्वो लौकिकवैदिकः ॥
न चौपाधिकभेदेन मेयमातृविभागधीः
स्वशरीरे ऽपि तत्प्राप्तेः शिरःपाण्यादिभेदतः ॥
यथा तत्र शिरःपाणि पादादौ वेदनोदये
अनुसन्धानमेकत्वे, तथा सर्वत्र ते भवेत् ॥
प्रायणाम् नरकक्लेशात् प्रसूतिव्यसनाद् अपि
चिरातिवृत्ताः प्राग्जन्म भोगा न स्मृतिगोचराः ॥
युगपज्जायमानेषु (सुखदुःखादिषु स्फुटः)
आश्रयासङ्करस् तत्र कथम् ऐकार्थ्यविभ्रमः ॥
न च प्रातिस्विकाविद्या कल्पितस्वस्वदृश्यकैः
जीवैर् अनेकैर् अप्य् एषा लोकयात्रोपपद्यते ॥
परवर्तानभिज्ञास् ते स्वस्वस्वप्नैकदर्शिनः
कथं प्रवर्तयेयुस् तां सङ्गाद्येकनिबन्धनाम् ॥
किङ् च स्वयंप्रकाशत्व विभुत्वैकत्वनित्यताः
त्वदभ्युपेता बाधेरन् संविदस् ते ऽद्वितीयताम् ॥
संविद् एव न ते धर्माः, सिद्धायाम् अपि संविदि
विवाददर्शनात् तेषु; तर्द्रूपाणां च भेदतः ॥
मूल पाठ: Saṃvitsiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0