सांख्यसार · अध्याय 2.1
आत्मानात्मविवेकसाक्षात्कारात् कर्तृत्वाद्यखिलाभिमाननिवृत्त्या तत्कार्यरागद्वेषधर्माधर्माद्यनुत्पादात् पूर्वोत्पन्नकर्मणां चाविद्यारागादिसहकार्युच्छेदरूपदानेन विपाकानारम्भकत्वात् प्रारब्धसमाप्त्यनन्तरं पुनर्जन्माभावेन त्रिविधदुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीति श्रुतिस्मृतिडिण्डिमः । तत्र श्रुतयः । अथाकामयमानो यो ऽकामो निष्कामो न तस्य प्राणा उत्क्रामन्तीहैव समवलीयन्ते ।
आत्मानं चेद्विजानीयादयमस्तीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसञ्चरेत् ॥
यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।
अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥
कामान् यः कामयते मन्यमानः
स कर्मभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु
इहैव सर्वे प्रविलीयन्ति कामाः ॥
इत्याद्याः । स्मृतयश्च कौर्माद्याः । यथा कौर्मे ।
रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।
कार्यो ह्यस्य भवेद्दोषः पुण्यापुण्यमिति श्रुतिः ॥
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।
इति । मोक्षधर्मे च ।
इन्द्रियाणीन्द्रियार्थाश्च नोपसर्पन्त्यतर्षुलम् ।
हीनश्च करणैर्देही न देहं पुनरर्हति ॥
तस्मात् तर्षात्मकाद् रागाद् बीजाज्जायन्ति जन्तवः ।
इति । ननु रागाभावे ऽपि केवलकर्मवशान्नरकादिप्राप्तेः कथं रागस्य कर्मसहकारित्वं विपाकारम्भ उपपन्नम् । नरकादौ विशेषतो रागाभावे ऽपि सामान्यतो रागसत्त्वात् । निषिद्धस्त्र्यादिगामिनां स्त्र्यादिरागादेव तप्तलोहमयनारीसमालिङ्गनादिरूपनरकोत्पत्तेः । यद्यप्यविद्यास्मितारागद्वेषभयाख्यं क्लेशपञ्चकमेव जन्मादिविपाकारम्भे कर्मणां सहकारि भवति ।
तदेव सक्तः सह कर्मणैति
लिङ्गं मनो यत्र निषिक्तमस्य ।
इति श्रुतावभिमानरागद्वेषादिजन्यस्य विषयवासनाख्यसङ्गसामान्यस्यैव जन्मादिविपाकारम्भे कर्मसहकारित्वसिद्धेः ।
यत्र यत्र मनो देही धारयेत् सकलं धिया ।
स्नेहाद्द्वेषाद्भयाद्वा ऽपि याति तत्तत्सरूपताम् ॥
इत्यादिस्मृतेश्च । तथा च क्लेशमूलः कर्माशयः । सति मूले तद्विपाको जात्यायुर्भोगा इति योगसूत्राभ्यामप्यदृष्टे तद्विपाकारम्भे च क्लेशानां हेतुत्ववचनाच्च । तथा ऽप्यविद्यास्मितासत्त्वे रागस्यावश्यकत्वाद्द्वेषभययोश्च रागमूलकत्वाद्राग एव मुख्यतो जन्मादिहेतुतया यथोक्तवाक्यैर्निर्दिश्यत इति । ननु ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ।
इत्यादिश्रुतेर्ज्ञानस्य प्राचीनकर्मनाशकत्वमेवोचितं दाहकत्वं कथमिष्यत इति चेन्न ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ।
इत्यादिवाक्यैर्दाहस्यापि श्रवणेन लाघवाद्दाहपरत्वस्यैव नाशादिवाक्येष्वपि कल्पनौचित्यात् । कर्मणां दाहश्च क्लेशाख्यसहकार्युच्छेदेन नैष्फल्यम् । कर्मणां नाशस्तु प्रारब्धभोगान्ते चित्तनाशादेव भविष्यति । अतो लोकसिद्धेनाविद्यानाशेनैव द्वारेण कर्मफलानुत्पत्तिसम्भवान्न ज्ञानस्य कर्मनाशकत्वं गौरवादित्यादिकं योगवार्त्तिके प्रप्रञ्चितमस्माभिरिति दिक् । तस्माद्विवेकसाक्षात्कारादविद्यास्मितारागादिक्लेशनिवृत्तौ त्रिविधदुःखात्यन्तनिवृत्तिरूपपरमपुरुषार्थः सिद्ध्यतीत्युपपन्नम् । तथा च योगसूत्रद्वयम् । हेयं दुःखमनागतम् । विवेक्ख्यातिरविप्लवा हानोपाय इति ।
इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे ऽभ्यर्हितत्त्वादादौ विवेकख्यातिफलस्य परमपुरुषार्थस्य परिच्छेदः ॥ * ॥
अथ द्वितीयः परिच्छेदः
अथात्मानात्मविवेकज्ञानस्य किं स्वरूपं तदुच्यते । आत्मा तावत् सुखदुःखाद्यनुभवितेति सामान्यतो लोकप्रसिद्धिः अनात्मा च प्रकृत्यादिर्जडवर्गः तयोरन्योन्यवैधर्म्येण परिणामित्वापरिणामित्वादिरूपेण दोषगुणात्मकेन हेयोपादेयतया पृथक्त्वेन ज्ञानं विवेकज्ञानम् । तथा च श्रुतिः । स एष नेति नेत्यात्मा ऽगृह्यो न हि गृह्यते ऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्यते ऽसितो न व्यथते न रिष्यतीत्यादि । स्मृतिश्च ।
सो ऽथ प्रतिनिवृत्ताक्षो गुरुदर्पणबोधितः ।
स्वतो ऽन्यां विक्रियां मौढ्यादास्थितामञ्जसैक्षत ॥
अथासौ प्रकृतिर्नाहमियं हि कलुषात्मिका ।
शुद्धबुद्धस्वभावो ऽहमिति त्यजति तां विदन् ॥
एवं देहेन्द्रियादिभ्यः शुद्धत्वेनात्मनि स्मृते ।
निखिला सविकारेयं त्यक्तप्राया ऽहिचर्मवत् ॥
इति । सूत्रं च । एवं तत्त्वाभ्यासान्नेति नेतीति त्यागाद्विवेकसिद्धिरिति । तत्त्वज्ञानस्य लक्षणं च मात्स्ये कृतम् ।
अव्यक्ताद्ये विशेषान्ते विकारे ऽस्मिंश्च वर्णिते ।
चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ॥
इति । यद्यप्यन्योन्यभेदज्ञानमेव विवेकज्ञानं तथाप्यात्मविशेष्यकमेव तन्मोक्षकारणं भवति । आत्मा वा ऽरे द्रष्टव्य इत्यादि श्रुतिस्मृतिभ्यः । नन्वनात्मन्यात्मबुद्धिरूपा या ऽविद्या पातञ्जलादिषूक्ता तस्याः कथमात्मविशेष्यकविवेकज्ञाननाश्यत्वं प्रकारादिभेदादिति चेन्न । तादृशाविद्याया अनात्मविशेष्यकविवेकज्ञानद्वारेणात्मविशेष्यकविवेकज्ञाननाश्यत्वादिति । यच्च योगेन निर्विकल्पकमात्मज्ञानं जायते तद्विवेकज्ञानद्वारैव मोक्षकारणं भवति न तु साक्षादविद्यानिवर्तकत्वाभावात् । अहं गौरः कर्ता सुखी दुःखीत्यादि ज्ञानमेव ह्यविद्या संसारानर्थहेतुतया श्रुतिस्मृतिन्यायसिद्धा तस्याश्च निवर्तिका नाहं गौर इत्यादिरूपा विवेकख्यातिरेव भवति । समाने विषये ग्राह्याभावत्वप्रकारकग्राह्याभावज्ञानत्वेनैव विरोधात् । अन्यथा शुक्तनिर्विकल्पकस्यापि इदं रजतमिति ज्ञानविरोधित्वापत्तेः । किञ्च यतोक्ताभावज्ञाने ग्राह्यज्ञानविरोधित्वस्यावश्यकतया निर्विकल्पकज्ञानस्य भ्रमनिवर्तकत्वं न पृथक् कल्प्यते गौरवात् । अपि चाथा ऽत आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्तीत्यादिश्रुत्या विवेकोपदेशापेक्षयोत्तमोपदेशो नास्तीत्युच्यते ।
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥
इति गीतादिवाक्यैश्च विवेकज्ञानस्यैव मोक्षहेतुत्वमुच्यते । अतो विवेकज्ञानमेव साक्षादविद्यानिवृत्त्या मोक्षहेतुः । योगेन केवलात्मसाक्षात्कारस्तु योग्यानुपलब्धिविधयोपाध्यादिगतधर्माभावमुपाध्यादिभेदं च ग्राहयति ततो ऽविद्यानिवृत्तिरिति । एतेन सर्वभूतेषु समताज्ञानमात्मनः सर्वात्मकत्वादिज्ञानं च श्रुतिस्मृत्योर्गीयमानं विवेकज्ञानस्यैव शेषभूतं सर्वदर्शनेषु मन्तव्यम् । ज्ञानान्तराणां साक्षादभिमानानिवर्तकत्वात् । ब्रह्ममीमांसायां त्वयं विशेषो यत् परमात्मविवेकशेषत्वम् । साङ्ख्यशास्त्रे तु सामान्यात्मविवेकशेषत्वमिति दिक् । ननु यथोक्तविवेकख्यातितो ऽप्यत्यन्तमविद्योच्छेदो न घटते । विवेकख्यातेरविद्याप्रतिबन्धकत्वमात्रत्वेन विवेकख्यातिनाशोत्तरं पुनरभिमानसम्भवात् । शुक्तिरजतविवेकदर्शिनो ऽपि कालान्तरे शुक्तौ रजतभ्रमवदिति । मैवम् । दृष्टान्तवैषम्यात् । शुक्त्यादिषु जाते ऽपि साक्षात्कारे दूरत्वादिरूपविषयदोषाणां पटलादिरूपकरणदोषाणां चोत्पत्तिसम्भवेन पुनर्भ्रमो युक्तः । अनात्मन्यात्माभिमाने त्वनादिवासनैव दोषः सर्वास्तिकसम्मतः जातमात्रस्याभिमाने दोषान्तरानुपलब्धेः । सा मिथ्याज्ञानवासना यदा विवेकख्यातिपरम्पराजन्यदृढवासनोन्मूलिता तदैव विवेकसाक्षात्कारनिष्ठोच्यते । तत्पूर्वमवश्यं वासनालेशतो मिथ्यांशस्य कस्याप्यात्मनि भावात् तस्यां च विवेकख्यातिनिष्ठायां जातायां न पुनरभिमानः सम्भवति वासनाख्यदोषाभावादिति तु महद्वैषम्यम् । यदि तु बुद्धिपुरुषयोरन्योन्यप्रतिबिम्बनादिकमविवेककारणं दोष इष्यते तदा तु तद्दोषं बाधित्वैव विवेकसाक्षात्कार उदित इति न तस्य पुनर्भ्रमहेतुत्वं फलबलेन योगजधर्मासहकृतस्यैव तस्य दोषत्वकल्पनासम्भवादिति । विवेकख्यातिनिष्ठा च गीतादिषु लक्षिता ।
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥
इति । गुणातीतो निवृत्तगुणाभिमानः । अधिकं तु ज्ञानिलक्षणमग्रे वक्ष्यामः । नन्वेवमपि विवेकप्रतियोगिपदार्थानामानन्त्येन प्रातिस्विकरूपैः सर्वपदार्थेभ्यो विवेकग्रहासम्भवात् कथं विवेकख्यातेर्मोक्षहेतुत्वमिति चेन्न । दृश्यत्वपरिणामित्वादिसामान्यरूपैर्विवेकग्रहसम्भवात् । तथा हि । द्रष्टा स्वसाक्षात्प्रकाशेभ्यो भिन्नः प्रकाशकत्वाद्यो यस्य प्रकाशकः स तस्माद्भिन्नः यथा घटादालोको वृत्तिप्रकाश्याच्च वृत्तिरित्यनुमानेनादावन्तर्दृश्येभ्यो बुद्धिवृत्तितदारूढार्थेभ्यो विवेकतो बुद्धीसाक्षी सिध्यति । कर्मकर्तृविरोधश्चानुकूलस्तर्कः । अत्र आत्मनि व्यभिचारवारणाय साक्षात्पदम् । वृत्तिद्वारैवात्मनः स्वविषयत्वात् । नन्वत्रानुमाने बुद्धिवृत्तिमात्राद्विवेकः सिध्यतु । तस्या एव साक्षदात्मदृश्यत्वात् न प्रकृत्यादिभ्य इति चेन्न । वृत्तीनामज्ञातसत्त्वाभावेन ह्यत्रानुमाने लाघवाद्वक्ष्यमाणतर्कगणाच्चाखिलवृत्तीनां द्रष्टा विभुकूटस्थनित्यैकज्ञानस्वरूपतयैव सिध्यति । यथा नैयायिकानां क्षितिः सकर्तृका कार्यत्वादित्यनुमाने लाघवात् कर्तुरेकत्वनित्यत्वादिकं तद्वत् । तत्र विभुत्वं परिच्छिन्नभिन्नत्वं कूटस्थत्वादिकत्वं च परिणामिभिन्नत्वादिकमतो बुद्ध्यात्मनोर्दृग्दृश्यरूपतो विवेकग्रहे सति तदुत्तरानुमानेन परिणामित्वापरिणामित्वादिरूपैः सामान्यतो ऽप्यात्मानात्मविवेकग्रहो घटत इति । अतएव पातञ्जले सत्त्वपुरुषान्यताख्यातिरेव मोक्षहेतुतया स्थले स्थले व्यासभाष्ये प्रोक्ता । सत्त्वपुरुषान्यताख्यातिरूपदृग्दृश्यविवेकग्रहोत्तरं यथोक्तरीत्या प्रकृत्यादिविवेकग्रहात् । तत्र च सत्त्वशब्दे बुद्धिस्थत्वेन बुद्धिसत्त्वमुक्तमिति । एवं च प्रकृत्यादिपदार्थानां विशिष्यज्ञानाभावे ऽपि तद्विवेकज्ञानं घटते । एतेन दृग्दृश्यविवेकादविद्यानिवृत्तिरिति प्राचां प्रवादो ऽप्युपपादितः । किञ्चात्मा प्रकृतितत्कार्येभ्यो भिन्नो ऽपरिणामित्वादित्याद्यनुमानैरपि सामान्यतो दृश्यविवेको द्रष्टरि सम्भवतीति । यत्त्वाधुनिका वेदान्तिब्रुवा दृश्यत्वेनैव प्रकृत्यादीनां द्रष्टृत्वेन च प्रकृत्याद्यखिलजडेभ्य आत्मविवेकं मन्यन्ते ।
घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।
देहद्रष्टा तथा देहो नाहमित्यादिरूपतः ॥
तन्न । आत्मा वा ऽरे द्रष्टव्य इत्यादिश्रुतिभिरात्मनो ऽपि दृश्यत्वात् साक्षाद्दृश्यत्वविवक्षया च प्रकृत्यादेरसङ्ग्रहात् करणद्वारैव तद्दर्शनात् । अथैवं कल्पनीयं आत्मनो वृत्तिव्याप्यत्वमेव दृश्यत्वं श्रुत्यादिभिर्विधीयते न तु प्रकाश्यत्वरूपफलव्याप्यत्वम् । स्वयम्प्रकाशस्वरूपस्य प्रकाशापेक्षाविरहात् । अतो ऽत्र दृश्यत्वं प्रकाश्यत्वं तच्चात्मनि नास्तीति तदपि तुच्छम् । यथा ह्यहमित्यनुभूयमानो ऽप्यात्मा चैतन्याख्यफलव्याप्यो न भवतीति भवद्भिरुच्यते तथैव बौद्धैरपीष्यते सुखदुःखादिमत्त्वेनापि बुद्धिः स्वप्रकाशतया चैतन्यव्याप्या न भवतीति । तथा चात्मनीव बुद्धावपि दृश्यत्वासिद्ध्या दृश्यत्वेन रूपेण बुद्धिविवेको ऽत्यन्तापेक्षितो ऽपि न सिध्यतीति भाष्यादिषु चान्यान्यत्र दूषणान्युक्तानीति दिक् । ननु सम्भवत्येवं सामान्यरूपेण विवेकग्रहः । तथापि सामान्यान्येव बहूनि सन्ति परिणामित्वसंहत्यकारित्वसुखदुःखमोहात्मकत्वचतुर्विंशतितत्त्वत्वादीन्यतस्तैस्तै रूपैर्विवेकग्रहाणां मोक्षहेतुत्वे ऽननुगमदोष इति चेन्न । अभिमानप्रतिबन्धकज्ञानत्वेनैवानुगमादिति । अथैवं सामान्यरूपेण विवेकस्यैव सर्वाभिमाननिवर्तकतया नाहं देहो नेन्द्रियाणित्यादिप्रत्येकरूपैर्विवेकग्रहाणां मोक्षहेतुत्वं श्रुतिस्मृत्योरुच्यमानं कथं घटेतेति चेन्न । अवान्तरविवेकानां सामान्यविवेकप्रपञ्चमात्रत्वादिति ॥
इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे मोक्षहेतुविवेकज्ञानस्य स्वरूपस्य परिच्छेदः ॥ * ॥
अथ तृतीयः परिच्छेदः ।
अथ के ते प्रकृत्यादयो येभ्यः पुरुषो विवेचनीय इत्युच्यते ।
प्रकृतिर्बुद्ध्यहङ्कारौ तन्मात्रैकादशेन्द्रियम् ।
भूतानि चेति सामान्याच्चतुर्विंशतिरेव ते ॥
एतेष्वेव धर्मधर्म्यभेदेन गुणकर्मसामान्यानामन्तर्भावः । तत्र प्रकृतित्वं साक्षात् परम्परया ऽखिलविकारोपादानत्वं प्रकृष्टाकृतिः परिणामरूपा ऽस्या इति व्युत्पत्तेः । प्रकृतिः शक्तिरजा प्रधानमव्यक्तं तमो माया ऽविद्येत्यादयः प्रकृतेः पर्यायाः ।
ब्राह्मीति विद्या ऽविद्येति मायेति च तथा परे ।
प्रकृतिश्च परा चेति वदन्ति परमर्षयः ॥
इति स्मृतेः । सा च साम्यावस्थयोपलक्षितं सत्त्वादिद्रव्यत्रयम् । कार्यसत्त्वादिवारणायोपलक्षितान्तम् । साम्यावस्था च न्यूनाधिकभावेनासंहननावस्था अकार्यावस्थेति यावत् । महदादिकं तु कार्यसत्त्वादिकं न कदा ऽप्यकार्यावस्थं भवतीति तद्व्यावृत्तिः । वैषम्यावस्थायामपि प्रकृतित्वसिद्धय उपलक्षितमित्युक्तम् । अकार्यमिति तूपलक्षितान्तस्य निष्कृष्टार्थः । सत्त्वादिगुणवती सत्त्वाद्यतिरिक्ता प्रकृतिरिति न शङ्कनीयम् । सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति साङ्ख्यसूत्रेण सत्त्वादीनां प्रकृतिस्वरूपहेतुना प्रकृतिधर्मत्वप्रतिषेधात् । योगसूत्रतद्भाष्याभ्यामपि गुणानामेव प्रकृतित्ववचनाच्च । गुणेभ्य एव कार्योत्पत्तौ तदन्यप्रकृतिकल्पनावैयर्थ्याच्च । प्रकृतेर्गुणा इत्यादिवाक्यं तु वनस्य वृक्षा इतिवद् बोध्यम् ।
सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणाः ।
इति सत्त्वादीनां प्रकृतिकार्यत्ववचनं तु गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरमेव । महदादिसृष्टिर्हि गुणवैषम्यात् श्रूयते । तच्च वैषम्यं सजातीयसवलनेन गुणान्तरव्यावृत्तप्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः परिणाम इति । एतेनाष्टाविंशतितत्त्वपक्षो ऽप्युपपादितो मन्तव्यः । वैषम्य एव सत्त्वादिव्यवहारश्च श्रुतौ दृश्यते । यथा तम एवेदमग्र आस तत्परेणेरितं विषमत्वं प्रयात्येतद् वै रजसो रूपं खल्वीरितं विषमत्वं प्रयात्येतद् वै सत्त्वस्य रूपमिति । सत्त्वादित्रयं च सुखप्रकाशलाघवप्रसादादिगुणवत्तया । संयोगविभागादिमत्तया ऽनाश्रितत्वोपादानत्वादिना च द्रष्टव्ये ऽपि पुरुषोपकरणत्वात् पुरुषबन्धकत्वाच्च गुणशब्देनोच्यते । इन्द्रियादिवत् । गुणानां सुखदुःखमोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात् । मनसः सङ्कल्पात्मकत्ववत् । तत्र सत्त्वं सुखप्रसादप्रकाशाद्यनेकधर्मकं प्राधान्यतस्तु सुखात्मकमुच्यते । एवं रजो ऽपि दुःखकालुष्यप्रवृत्त्याद्यनेकधर्मकं प्राधान्यतस्तु दुःखात्मकमुच्यते । तथा तमो ऽपि मोहावरणस्तम्भनाद्यनेकधर्मकं प्राधान्यतस्तु मोहात्मकमुच्यते । त एव धर्मास्तेषां लक्षणानि भवन्ति । सत्त्वादिसञ्ज्ञा चान्वर्था । सतो भावः सत्त्वमुत्तमत्वमिति व्युत्पत्त्या हि धर्मप्राधान्येनोत्तमं पुरुषोपकरणं सत्त्वशब्दार्थः । मध्यमं च रजःशब्दार्थो रागयोगात् । अधमं च तमःशब्दार्थः । अधर्मावरणयोगात् । तानि च सत्त्वादीनि प्रत्येकमसङ्ख्यव्यक्तयः । लघुत्वादिधर्मैरन्योन्यसाधर्म्यं वैधर्म्यं च गुणानामिति साङ्ख्यसूत्रात् । अत्र हि सूत्रे लघुत्वादिना बहूनां सत्त्वानां साधर्म्यं तेनैव रजस्तमोभ्यां वैधर्म्यम् । एवं चलत्वादिना गुरुत्वादिना च बहूनां रजसां बहूनां च तमसां तदुभयमुक्तमिति । किञ्च यदि सत्त्वादित्रयमेकैकव्यक्तिरेव स्यात् तत् त्रयं विभ्वेव वक्तव्यम् । एकदा ऽनेकब्रह्माण्डादिसृष्टिश्रवणात् । तथा च कार्याणामनन्तवैचित्र्यं न घटते । न च संयोगवैचित्र्याद्वैचित्र्यं स्यादिति वाच्यम् । विभूनां त्रयाणां गुणानां स्वतः संयोगवैचित्र्यासम्भवात् । द्रव्यान्तरस्य चावच्छेदकीभूतस्याभावादिति । तस्मात् सत्त्वादीन्यसङ्ख्यव्यक्तिकान्येव द्रव्याणि । तेषु त्रित्ववचनं तु सत्त्वत्वादिविभाजकोपाधित्रयेण वैशेषिकाणां नवद्रव्यवचनवदिति सिद्धम् । तानि च सत्त्वादीनि यथायोग्यमणुविभुपरिमाणकानि । अन्यथा रजसश्चलस्वभावत्ववचनविरोधात् । आकाशकारणत्वस्य च विभुत्वौचित्यात् । सर्वेषां कारणद्रव्याणां विभुत्वे कार्याणां परिच्छिन्नत्वानुपपत्तेश्च । नन्वेवं वैशेषिकोक्तान्येव पार्थिवाण्वादीनि प्रकृतिरित्यायायमिति चेन्न । गन्धादिगुणशून्यत्वेन कारणद्रव्येषु पृथिवीत्वाद्यभावतो ऽस्माकं विशेषात् । तदुक्तं विष्णुपुराणादिषु ॥
अव्यक्तं कारणं यत् तत् प्रधानमृषिसत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥
शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुतम् ।
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ॥
इत्यादिना ।
वैशेषिकाणां कारणद्रव्येषु गन्धाद्यनुमानं तु भाष्ये ऽस्माभिर्निराकृतम् । अथैवमपि प्रकृतेरणुविभुसाधारणसत्त्वाद्यनेकव्यक्तिरुपत्वे ऽपरिच्छिन्नत्वैकत्वाक्रियत्वसिद्धान्तक्षतिरिति मैवम् । कारणद्रव्यत्वरूपप्रकृतित्वेनैवापरिच्छिन्नत्ववचनात् । गन्धत्वेन गन्धानां पृथिवीव्यापकतावत् । आकाशादिप्रकृतीनां विभुत्वेनैव प्रकृतिविभुत्वसिद्धान्तोपपत्तेश्च । तथा पुरुषभेदेन सर्गभेदेन च भेदाभावस्यैवैकशब्दार्थत्वात् । अजामेकामिति श्रुतितस्तथा ऽवगमात् । अथाध्यवसायाभिमानादिक्रियाराहित्यस्यैवाक्रियशब्दार्थत्वात् । अन्यथा श्रुतिस्मृतिषूक्तस्य प्रकृतिक्षोभस्यानुपपत्तेरिति । प्रकृतिगताश्चापरे विशेषा भाष्ये द्रष्टव्याः । प्रकृत्यनुमानं चेदम् । सुखदुःखमोहात्मकं महदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्यं सुखदुःखमोहात्मकत्वात् वस्त्रादिकार्यशय्यादिवदिति । श्रुतिस्मृती चात्रानुग्राहकस्तर्कः । एवं सामान्यतो ऽनुमितायाः प्रकृतेर्विशेषाः शास्त्राद्योगाच्चावगन्तव्याः । अनुमानस्य सामान्यमात्रविषयकत्वात् । नन्वन्तरेव सुखादिकमुपलभ्यते बाह्यवस्तुषु सुखादौ किं प्रमाणं येन दृष्टान्तता स्यादिति । उच्यते । अन्तःकरणस्य सुखादिहेतुतया विषयेषु सुखादिकं सिध्यति । न च रूपादिगतोत्तमत्वादिकमेव सुखाद्युत्पादने नियामकम् । उत्तमत्वादेर्जातिरूपत्वे नीलत्वपीतत्वादिना जातिसाङ्कर्यापत्तेः । कालादिभेदैरेकस्या एव रूपव्यक्तेः सुखदुःखोत्पादकत्वाच्च । अतः सुखादिमत्त्वमेवोत्तमत्वादिकम् । किञ्च घटरूपमिति प्रत्ययवत् स्त्रीसुखं चन्दनसुखमित्यादिप्रत्ययादपि विषये सुखाद्युचितम् । अधिकं तु भाष्ये द्रष्टव्यम् । तदेवं प्रकृतिर्निरूपिता । महत्तत्त्वं निरूप्यते । प्रकृतेः सकाशाद्बुद्ध्याख्यं महत्तत्त्वं जायते । तस्य धर्मादिरूपप्रकृष्टगुणयोगान् महत्सञ्ज्ञा तदेव च लक्षणम् । महान् बुद्धिः प्रज्ञेत्यादयश्च तस्य पर्यायाः । तथा चोक्तमनुगीतायाम् ।
महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च वीर्यवान् ।
बुद्धिः प्रज्ञोपलब्धिश्च तथा ब्रह्मा धृतिः स्मृतिः ॥
पर्यायवाचकैरेतैर्महानात्मा निगद्यते ।
सर्वतः पाणिपादश्च सर्वतो ऽक्षिशिरोमुखः ॥
सर्वतः श्रुतिमांल्लोके सर्वं व्याप्य स तिष्ठति ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः ।
विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत ।
विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ॥
इति । अत्र सत्त्वाद्यंशत्रयेण महतो देवतात्रयोपाधित्वात् तदविवेकेन ब्रह्मविष्णुशिवत्ववचनम् । तदुक्तं विष्णौ ।
सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ।
इति । मात्स्ये च ।
सविकारात् प्रधानात् तु महत्तत्त्वमजायत ।
महानिति यतः ख्यातिर्लोकानां जायते सदा ॥
गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो देवा विजज्ञिरे ।
एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
इति । अणिमेत्यादिभावनिर्देशो धर्मधर्म्यभेदात् । ब्रह्मशङ्करापेक्षया ऽप्यादौ विष्णुरूपेणैव महानाविर्भवतीति विष्णुरेवेत्यर्धेनोक्तम् । एकमेव महत्तत्त्वमंशतो रजस्तमःसम्भेदेन परिणतं सद् व्यष्टिजीवानामुपाधिरधर्मादियुक्तं क्षुद्रमपि भवति । महदुपरागाद्विपरीतमिति साङ्ख्यसूत्रात् । महत्तत्त्वस्य प्राधान्येनासाधारण्येन चाध्यवसायो वृत्तिः । महदहङ्कारमनस्त्रितयात्मकस्यान्तःकरणस्य महत्तत्त्वं बीजावस्थेति । अत्र प्रकृतेर्महान् महतो ऽहङ्कार इत्यादिसृष्टिक्रमे शास्त्रमेव प्रमाणम् । अनुमानेन सामान्यतः कार्याणां सकारणकत्वमात्रसिद्धेः न तु सृष्टौ भूतादिक्रमो वा ऽन्तःकरणादिक्रमो वेत्येकतरवधारकमनुमानं सम्भवति । स्पष्टलिङ्गाभावात् । श्रुतिस्मृत्यनुगृहीतं यथाकथञ्चिल्लिङ्गं तु महदादिक्रमे ऽस्तीति भाष्ये ऽस्माभिः प्रदर्शितम् । महत्तत्त्वं निरूपितम् । अहङ्कारो निरूप्यते । महत्तत्त्वादहङ्कार उत्पद्यते । अङ्कुरात् शाखावत् । तस्य चाभिमानवृत्तिकत्वादहङ्कारसञ्ज्ञा । कुम्भकारसञ्ज्ञावत् । तदेव लक्षणम् । तस्य च पर्यायाः कौर्मे प्रोक्ताः ।
अहङ्कारो ऽभिमानञ्च कर्ता मन्ता च संस्मृतः ।
आत्मा च प्रकुलो जीवो यतः सर्वाः प्रवृत्तयः ॥
इति । स चाहङ्कारस्त्रिविधतया त्रिविधकार्यहेतुः । तदुक्तं कौर्मे ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधो ऽयमहङ्कारो महतः सम्बभूव ह ॥
तैजसादिन्द्रियाणि स्युर्देवा वैकारिकाद्दश ।
एकादशं मनश्चात्र स्वगुणेनोभयात्मकम् ॥
भूततन्मात्रसर्गस्तु भूतादेरभवन् प्रजाः ।
इति । वैकारिकः सात्त्विकः । तैजसो राजसः । स्वगुणेनिन्द्रियवृत्तिषु साहाय्यरूपेणोत्कर्षेण । उभयात्मकं ज्ञानकर्मोभयेन्द्रियात्मकम् । अन्यत्रमना अभूवं ना ऽश्रौषमित्यादिश्रुत्या मनसो ज्ञानकर्मोभयेन्द्रियसहकारित्वसिद्धेरिति । एकादशेन्द्रियदेवाश्च ।
दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।
चन्द्रश्च
इति । अहङ्कारो निरूपितः । इन्द्रियादीनि निरूप्यन्ते । अहङ्कारादादौ मन उत्पद्यते ।
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः ।
रूपरागात् तथा चक्षुर्घ्राणं गन्धजिघृक्षया ॥
इत्यादिना मोक्षधर्मादाविन्द्रियादीनां मनोवृत्तिरागादिकार्यत्वश्रवणात् । ततश्चाहङ्कारात् सङ्कल्पपूर्वकं दशेन्द्रियाणि पञ्चतन्मात्रानि चोत्पद्यन्ते । इन्द्रियतन्मात्रयोश्च कार्यकारणभावस्याभावात् क्रमनियमो नास्ति । तत्रेन्द्रियेषु नास्त्यवान्तरकार्यकारणभावः प्रमाणाभावात् । तन्मात्रेषु त्वस्ति । स यथा । शब्दतन्मात्राद्वक्ष्यमाणक्रमेण स्पर्शतन्मात्रं शब्दस्पर्शोभयगुणकमेवं क्रमेणैकैकगुणवृद्ध्या परतन्मात्रत्रयं पूर्वपूर्वतन्मात्रेभ्य उत्पद्यते पातञ्जलभाष्ये तन्मात्रेषु क्रमेणैकैकगुणवृद्धिवचनात् । ततश्च पञ्चतन्मात्रेभ्यः पञ्चभूतानि जायन्ते । तत्राहङ्कारात् पञ्चतन्मात्राणां तद्द्वारा भूतानां चोत्पत्तौ क्रमः कूर्मविष्ण्वादिपुराणेषूक्तः । यथा कूर्मे ।
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह ।
आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।
वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः ॥
इत्यादिक्रमेणेति । नन्वेवमाकाशादिभूतचतुष्टयस्यापि तत्त्वान्तरारम्भकत्वेन प्रकृतित्वापत्त्या केवलविकृतित्वसिद्धान्तक्षतिरिति चेन्न । आकाशादीनां स्पर्शादितन्मात्रेष्वहङ्कारोपष्टम्भमात्रेण कारणत्वस्य पुराणेषूक्तत्वादिति । तदेवं त्रयोविंशतितत्त्वानामुत्पत्तिरुक्ता । तत्र पञ्चभूतानि वर्जयित्वा ऽहङ्कारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति वह्नेरिन्धनवदात्मनो ऽभिव्यक्तिस्थानत्वात् । तच्च सर्वपुरुषाणां सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति । तेनैव चेहलोकपरलोकयोः संसरणं जीवानां भवति । प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो न लिङ्गशरीरात् पृथङ् निर्दिश्यते । तस्य लिङ्गशरीरस्य सूक्ष्माणि पञ्चभूतान्याश्रयश्चित्रादिवदाश्रयं विना परमसूक्ष्मस्य लोकान्तरगमनासम्भवात् । इदं च लिङ्गशरीरमादौ स्वयम्भुव उपाधिभूतमेकमेव जायते । तस्यैव विराडाख्यवक्ष्यमाणस्थूलशरीरवत् । ततश्च व्यष्टिजीवानामुपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदंशभूतानि ततो विभज्यन्ते । पितुर्लिङ्गशरीरात् पुत्रलिङ्गशरीरवत् । तदुक्तं सूत्रकारेण । व्यक्तिभेदः कर्मविशेषादिति । मनुना ऽप्युक्तम् ।
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥
इति । षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम् । तथा च स्वयम्भूः स्वलिङ्गशरीरावयवान् सूक्ष्मान् अल्पान् आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्जेत्यर्थः । लिङ्गशरीरं निरूपितम् । स्थूलशरीरोत्पत्तिरुच्यते । दशगुणितमहत्तत्त्वमध्ये ऽहङ्कारो ऽहङ्कारस्यापि दशगुणितस्य मध्ये व्योम व्योम्नो ऽपि दशगुणितस्य मध्ये वायुर्वायोरपि दशगुणितस्य मध्ये तेजः तेजसो ऽपि दशगुणितस्य मध्ये जलं जलस्यापि दशगुणितस्य मध्ये पृथिवी समुत्पद्यते । सैव स्थूलशरीरस्य बीजम् । तदेव च पृथिवीरूपं बीजमण्डरूपेण परिणमते । तस्यापि दशगुणितस्याण्डरूपस्य पृथिव्यावरणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवं स्थूलशरीरं तत्सङ्कल्पादेवोत्पद्यते । तेनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते । तदुक्तं मनुना स्वयम्भुवं प्रकृत्य ।
सो ऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु बीजमवासृजत् ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥
आपे नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥
इत्यादिनेति । तत एव चादिपुरुषात् व्यष्टिपुरुषाणां विभागादन्ते च तत्रैव लयात् स एव चैक आत्मेति श्रुतिस्मृत्योर्व्यवह्रियते । अतो न व्यवहारपरतया नारायण एव सर्वभूतानामात्मेति श्रुतिस्मृतिविरोध इति । ततश्च स नारायणो विराट् शरीरी स्वनाभिकमलकर्णिकास्थानीयस्य सुमेरोरुपरि चतुर्मुखाख्यस्वयम्भुवं सृष्ट्वा तद्द्वारा ऽन्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज । तथा च स्मर्यते ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह ।
क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥
इति । यत्तु शेषशायिनो नारायणस्य नाभिकमलश्रोत्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते तद्दैनन्दिनसर्गेष्वेव कल्पभेदेन मन्तव्यम् । दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशाद्घटते न त्वादिसर्गेषु । दैनन्दिनप्रलय एव लीलाविग्रहेण शयनादिति । तदेवं सङ्क्षेपतश्चतुर्विंशतितत्त्वानि तेषां सृष्टिरूपं प्रयोजनं चोक्तम् । तत्र यद्यस्माज्जायते तस्य तदापूरणेनैव स्थितिः ततस्तस्य संहारो ऽपि तत्रैव भवति ।
यद्यस्माज्जायते तत्त्वं तत्तत्र प्रविलीयते ।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥
इति भारतादिभ्य इति । एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाश्चतुर्विंशतितत्त्वानां कूटस्थपुरुषविवेकाय प्रदर्शिताः । सूक्ष्मा अप्यन्ये प्रतिक्षणपरिणामा एतेषां स्मर्यन्ते । तथा ।
नित्यदा ह्यङ्गभूतानि भवन्ति न भवन्ति च ।
कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ॥
इति । अतश्च सर्वं जडवस्तु परमार्थतः सर्वदैवासदुच्यते । ततश्च तस्माद्विरज्यात्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः । तदुक्तमनुगीतायाम् ।
अव्यक्तबीजप्रभवो बुधिस्कन्धमयो महान् ।
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः ॥
महाभूतप्रशाखश्च विशेषप्रतिशाखवान् ।
सदापर्णः सदापुष्पः शुभाशुभफलोदयः ॥
आजीवः सर्वभूतानां ब्रह्मवृत्तः सनातनः ।
एतज्ज्ञात्वा च तत्त्वेन ज्ञानेन परमासिना ॥
छित्त्वा चाक्षरतां प्राप्य जहाति मृत्युजन्मनी ।
इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे विवेकप्रतियोगिनां प्रकृत्यादीनां स्वरूपपरिच्छेदः ॥ * ॥
इति साङ्ख्यसारस्य पूर्वभागः ॥
अथोत्तरभागः ॥
प्रथमः परिच्छेदः ॥
अथ शिष्यैः सुखेनैव ग्रहीतुं पद्यमालया ।
विवेकस्यानुयोग्यात्मा पुरुषाख्यो निरूप्यते
तत्र सामान्यतः सिद्धो जाने ऽहमिति धीबलात् ।
द्रष्टा ऽतो नित्यविभ्वादिधर्मैरेव स साध्यते
भोक्ता नित्यस्तदर्थत्वात् तत्कर्मोत्पादितत्वतः ।
महदादिविकाराणां सर्वेषामविशेषतः
अपि चादृष्टसंस्काराधारत्वाद्बीजरूपतः ।
धीरनादिरतो ऽस्याश्च सिद्धा भोक्तुरनादिता
स्वस्वामिभावानादित्वमृते भोक्तृव्यवस्थितेः ।
स्वभक्तवृत्तिसंस्कारवत्त्वं स्वत्वं तु बुद्धिषु
स्वाम्यं स्वनिष्ठसंस्कारहेतुवृत्तेश्च भोक्तरि ।
अतश्च घटते स्वत्वनाशे कैवल्यमात्मनः
भोक्तुश्चानादिभावस्य विनाशे हेत्वसम्भवात् ।
न नाशो भोक्तुरस्तीति भोक्ता नित्यो हि सिध्यति
जन्यो ज्ञानप्रकाशो ऽस्य नित्यत्वे तु न युज्यते ।
न ह्यप्रकाशे कुत्रापि प्रकाशोत्पत्तिरीक्ष्यते
कार्ये प्रकाशाख्यगुणे ऽवयवानां हि तद्गुणः ।
कारणं तेन नानित्यः प्रकाशो नित्यवस्तुनि
प्रकाशाश्रयसंयोगात् प्रकाशभूम इन्धने ।
आदर्शे चावृतेर्भङ्गात् प्रकाशोत्पत्तिविभ्रमः
तस्मान्नित्यात्मनो ज्ञानं नित्यं वाच्यं तथा सति ।
लाघवाज्ज्ञानमेवात्मा निराधारः प्रकल्प्यते
अनाश्रिततया द्रव्यं संयोगादेश्च तन्मतम् ।
अतो ज्ञाने ऽहमित्यादिबुद्धिरप्युपपद्यते
पिण्डे ऽहन्धीर्हि मूढानां ध्रुवैवानादिदोषतः ।
संयोगात्तत्र पिण्डे तु ज्ञानवत्त्वमतिः प्रमा
सन्तु वा ऽ; ऽधेयता ऽल्पत्वजन्मनाशादिबुद्धयः ।
श्रोत्रस्य नभसीवार्थज्ञानस्य ज्ञानमात्रके
तस्माल्लाघवतर्केण बाधकाभावतस्तथा ।
श्रुत्यादिभिश्च नित्यात्मा चिद्रूपेणैव सिध्यति
तज्ज्ञानं विभु नित्यत्वाद्देहव्यापितया ऽपि च ।
मध्यत्वे नाशिता हि स्यादणुत्वे वा ऽल्पदेशता
विभुत्वे ऽपि स्वधीवृत्तेरेव साक्षान्निरीक्षणात् ।
न सर्वत्र सदा सर्वभानं ज्ञाने प्रसज्यते
अर्थभानं चितावर्थप्रतिबिम्बो मतो बुधैः ।
वृत्तेरेव चित्तौ साक्षात्प्रतिबिम्बनयोग्यता
अतो ऽसङ्गे ऽपि कूटस्थचैतन्ये विभुनि ध्रुवे ।
वृत्तिद्वारकमेवान्यभानं फलबलान् मतम्
अन्वयव्यतिरेकाभ्यां वृत्तिजन्यतया ऽखिलः ।
वृत्यैकाधिकरण्येन कामादिर्धीषु नात्मसु
अतो ऽन्तःस्वविकाराणां स्वस्वबुद्धिष्ववस्थितेः ।
कूटास्थ एव सर्वो ऽपि चिदाकाशगणः समः
नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरञ्जनः ।
स्वप्रकाशो निराधारः प्रदीपः सर्ववस्तुषु
नन्वेवमेकतैवास्तु लाघवादात्मनां स्ववत् ।
धीष्वेव सुखदुःखादिवैधर्म्यादिति चेन्न तत्
भोगाभोगादिवैधर्म्येणैकरूपे ऽपि चिद्गणे ।
श्रुतिस्मृतिभ्यामुक्तेन भेदसिद्धेः परस्परम्
सुखादिप्रतिबिम्भात्मा भोगो ऽप्यस्य न वस्तुतः ।
तथा ऽप्यस्य चितौ भावाभावौ स्यातां हि भेदकौ
औपाधिकौ यथा श्यामरागौ स्फटिकभेदकौ ।
स्वदृष्टान्तश्च विषमो वैधर्म्यासिद्धितो ऽम्बरे
मूल पाठ: Sāṃkhyasāra · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0