ग्रंथ पाठ
सांख्यसार · अध्याय 1.1
1.1.1
साङ्ख्यसारः ।
पूर्वभागः ।
प्रथमः परिच्छेदः ।
महदाख्यः स्वयम्भूर्यो जगदङ्कुर ईश्वरः ।
सर्वात्मने नमस्तस्मै विष्णवे सर्वजिष्णवे
1.1.2
साङ्ख्यकारिकया लेशादात्मतत्त्वं विवेचितम् ।
साङ्ख्यसारविवेको ऽतो विज्ञानेन प्रपञ्च्यते
1.1.3
प्रायः सङ्कलिता साङ्ख्यप्रक्रिया कारिकागणे ।
सा ऽतो ऽत्र वर्ण्यते लेशात् तदनुक्तांशमात्रतः
1.1.4
साङ्ख्यभाष्ये प्रकृत्यादेः स्वरूपं विस्तरान् मया ।
प्रोक्तं तस्मात् तदप्यत्र सङ्क्षेपादेव वक्ष्यते
मूल पाठ: Sāṃkhyasāra · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0