भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यसार · अध्याय 2.2

2.2.1

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे पुरुषस्वरूपपरिच्छेदः ॥ * ॥
अथ द्वितीयः परिच्छेदः ॥
अथात्मानात्मवैधर्म्ये गुणदोषात्मके तयोः ।
वक्ष्ये विस्तारतो येन विवेको ऽतिस्फुटो भवेत्

2.2.2

सामान्यात्मघनाकाशे सान्निध्येरितशक्तिभिः ।
जायते लीयते भूत्वा भूयो ऽयं जगदम्बुदः

2.2.3

त्रिगुणात्मकशक्तीनां परिणामैरतश्चितिः ।
आधारविधया विश्वोपादानमविकारतः

2.2.4

यथा ऽ; ऽधरतया तोयं धरोपादानमिष्यते ।
स्वस्थपार्थिवतन्मात्रद्वारेणैवं चितिर्मता

2.2.5

अतो जगदुपादानमपि ब्रह्माविकारतः ।
कूटस्थनित्यपर्यायपरमार्थसदुच्यते

2.2.6

स्वार्थत्वात् स्वानुभूत्या च सिद्धत्वात् परमार्थसत् ।
स्वतः स्थित्या स्वतः सिद्ध्या लोकैः सन्निति हीर्यते

2.2.7

प्रतिक्षणविकारेण तैस्तै रूपैरपायतः ।
प्रकृत्यादिरसत् सर्वो जडार्थो ऽब्धौ तरङ्गवत्

2.2.8

यत्तु कालान्तरेणापि नान्यसञ्ज्ञामुपैति वै ।
परिणामादिसम्भूतां तद्वस्त्वित्यादिकस्मृतेः

2.2.9

परार्थाधीनसत्त्वाच्च परदृष्ट्या च सिद्धितः ।
परतः सन्नसन्नेव तत्परापेक्षया मतः

2.2.10

सतो ऽस्तित्वं तु नासत्ता नास्तित्वे सत्यता कुतः ।
इति गारुडतश्चैवं सदसत्त्वव्यवस्थितेः

2.2.11

अतो न सन्नासदिदं जगत् सदसदात्मकम् ।
असद्विषयकत्वाच्च तस्य धीस्तात्त्विको भ्रमः

2.2.12

जगद्वृक्षस्य चैतन्यं सारो ऽसारस्तथेतरत् ।
प्रपञ्चस्य स्थिरांशो हि चितिरेवाविकारतः

2.2.13

तदन्यदखिलं तुच्छमसारत्वादुदीर्यते ।
तथा ऽनृतमसच्चापि तदपेक्षास्थिरत्वतः

2.2.14

एवंविधैवात्मसत्ता अन्यासत्ता च दर्शिता ।
वासिष्ठादौ विस्तरतो यथा लेशात्तदुच्यते

2.2.15

स्वप्नो जाग्रत्यसद्रूपः स्वप्ने जाग्रदसद्वपुः ।
मृतिर्जन्मन्यसद्रूपा मृतौ जन्माप्यसन्मयम्

2.2.16

जगन्मयी भ्रान्तिरिति न कदापि न विद्यते ।
विद्यते न कदाचिच्च जलबुद्बुदवत् स्थितम्

2.2.17

आत्मैवास्ति परं सत्यं नान्याः संसारदृष्टयः ।
शुक्तिकारजतं यद्वद्यथा मरुमरीचिका

2.2.18

अस्ति सर्वगतं शान्तं परमात्मघनं शुचि ।
अचिन्त्यचिन्मात्रवपुः परमाकाशमाततम्

2.2.19

तत्सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम् ।
यत्र यत्र यथोदेति यथा ऽ; ऽस्ते तत्र तत्र वै

2.2.20

आविर्भावतिरोभावमयास्त्रिभुवनोर्मयः ।
स्फुरन्त्यतितते यस्मिन् मराविव मरीचयः

2.2.21

असतेव सती तोयनद्येव लहरी चला ।
मनसेवेन्द्रजालश्रीर्जागती प्रवितन्यते

2.2.22

ब्रह्मणा तन्यते विश्वं मनसैव स्वयम्भुवा ।
मनोमयमतो विश्वं यन्नाम परिदृश्यते

2.2.23

यो ह्यशुद्धमतिर्मूढो रूढो न वितते पदे ।
वज्रसारमिदं तस्य जगदस्त्यसदेव सत्

2.2.24

अव्युत्पन्नस्य कनके कानके कटके यथा ।
कटकज्ञप्तिरेवास्ति न मनागपि हेमधीः

2.2.25

तथा ऽज्ञस्य पुरागारनगनागेन्द्रभासुरा ।
इयं दृश्यदृगेवास्ति न त्वन्या परमार्थदृक्

2.2.26

इत्यादिवाक्यैर्वासिष्ठे नात्यन्तासत्यतोदिता ।
जगतो ऽपरवाक्यैर्हि सत्कार्यं प्राकृतं मतम्

2.2.27

नामरूपविनिर्मुक्तं यस्मिन् सन्तिष्ठते जगत् ।
तमाहुं प्रकृतिं केचिन् मायामेके ऽपरे त्वणून्

2.2.28

सुषुप्तावस्थया चक्रपद्मरेखाशिलोदरे ।
यथा स्थिता चितेरन्तस्तथेयं जगदावली

2.2.29

प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला ।
इत्यादिवाक्यैः साङ्ख्यीयसत्कार्याद्युपवर्णनात्

मूल पाठ: Sāṃkhyasāra · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc