भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 3

3.1

अथ भूमिका । विक्षेप्ता विषयपदार्थे रतिः । गतायाता संशयात्मिका । सुलीनता प्रीतिरूपा तुरीया ।
अथ बुद्धयः । गुरुः शास्त्रादियुक्त्या बोधयति तथापि शून्यं कम्बलपेशीवत् । सा अधिकप्रकाशो न भवति खर्परच्छिद्रवत् । अनेकयुक्त्या विस्तारयति भग्नवेणुवत् जले तैलवत् । तत्रादौ वैराग्यम् । तत्र प्रमाणं श्रुतिः- न वा ऽरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति इति ।
बृहदारण्यके ऽत्यागेनैकेन अमृतत्वमानशुःऽ; । तत्रादौ शबलत्यागः ॥
विष्ठामूत्रं च दुर्गन्धि कृम्यगारं च नश्वरम् ।
तत्सौख्यमानिनो मूढा अहंममेतिगर्विताः

3.2

कस्य माता पिता कस्य कस्य भ्राता सहोदरः ।
कस्य स्त्री कस्य पुत्रस्तु नराणां कर्मबन्धनम्

3.3

जायापत्यगृजक्षेत्रस्वजनद्रविणादिषु ।
उदासीनसमं पश्येत्सर्वं व्यर्थमिवात्मनि

3.4

स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।
क्षमी विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः

3.5

कायारण्यसमाविष्टो मनव्याघ्रो महाबली ।
भक्षते सकलांल्लोकान्देवानुरगमानवान्

3.6

ज्ञानखड्गं दृढं कृत्वा वैराग्यं भूमिशोधनम् ।
दुर्लभो यस्य संग्रामो को ऽसौ शूरश्च आत्मवान्

3.7

अथ शुद्धत्यागः ।
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः

3.8

पदमिच्छसि ब्रह्मत्वं तदा विज्ञानतः शृणु ।
सर्वार्थेषु च वैराग्यं सर्वभूतेषु चात्मता

3.9

मुक्तिमिच्छसि चेत्त्वन्तु विषयान्विषवत्त्यज ।
क्षमार्जवदयातोषसत्यं पीयूषवद्भज

3.10

मनसा ध्यायते योगी कृपणस्तु धनं यथा ।
मनसा येन पीत्वा च तेन जित्वा जगत्त्रयम्

3.11

विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति

3.12

अकिञ्चनश्च दान्तश्च शान्तश्च सममानसः ।
स लिङ्गानाश्रमं त्यक्त्वा चरेदविधिगोचरः

3.13

देहे च शृणु तं तात गुप्तप्रकटलक्षणम् ।
दशगुप्तकरं मोक्षद्वादशं सहजस्थितिः

3.14

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
अनुव्रज्यामहं नित्यं पूययेदङ्घ्रिरेणुभिः

3.15

कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ।
एकाकी निस्पृहः शान्तो पाणिपात्रो दिगम्बरः

3.16

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः

3.17

निरालम्बपदं प्राप्य चित्ते तत्र लयं गते ।
निवर्तन्ते क्रियाः सर्वाः स योगी निर्गुणः परः

3.18

विषयेन्द्रियकारणमाकर्षचित्तविभ्रमः ।
यथा बहुसपत्नीनां लुठन्ति पतिमेकतः

3.19

साधु साधु शृणु स्वार्थमस्थियन्त्राच्च दूरतः ।
अस्य भागकृता लोके ममत्वं श्वानवत्कृतम्

3.20

शृणु तात द्वयं त्याज्यमाशा भेदस्तथैव च ।
आशया दीनतां कृत्वा भेदश्च भेदवर्धनम्

3.21

रोदनहास्यका ऽ; ऽनेन पिशाचस्थितिमाश्रयेत् ।
अस्य सङ्गं सदा त्यज्य भव चिन्मात्र सर्वदा

3.22

छायाकार्यं यथा नास्ति तथैवायं हि देहकः ।
तत्त्वं गृहरसं त्यज्य परमां स्थितिमाश्रय

3.23

गोष्पदं पृथिवी मेरुः स्थाणुराकाशमुद्रिका ।
तृणं त्रिभुवनं राम वैराग्यालंकृता कृतिः ।
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc