सांख्यपरिभाषा · अध्याय 2
इति गुरुपरम्परा ।
अथ सांख्यसाम्प्रदायेन ज्ञानमाह । तत्र प्रथमं साधनचतुष्टयसम्पन्नस्य इहामुत्रार्थफलभोगविरागः । द्वितीयं शमदमादिषट्कम् । तृतीयं नित्यानित्यवस्तुविवेकः । चतुर्थं मुमुक्षत्वं मोक्षेच्छा । किन्तु इह नाम स्रक्चन्दनवनितादिविषयभोगविरागः । अमुत्र नाम स्वर्गभोगादिअनिच्छा । शमो नाम मनोनिग्रहः । दम इन्द्रियनिग्रहः । तितिक्षा शीतोष्णादिपरोत्कर्षसहनम् । समाधानं सृष्ट्यादिमायाविलक्षणम् । श्रद्धा गुरावध्यात्मशास्त्रे रतिः । उपरमः कार्यकारणातीतम् । नित्य आत्मा । अनित्या दृश्यपदार्थाः । अतः परं मोक्षेच्छा ॥
इति साधनचतुष्टयम् ।
कम्बलो खर्परी वेणुर्बुद्धेस्त्रिविधलक्षणम् ।
चित्तक्षिप्तगतायतालीनताभूमिकात्रयम्
मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0