भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 4

4.1

इति वैराग्यम् ॥
अथ भक्तिद्वारा चतुर्विधा मुक्तिः ।
वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते ॥
प्रथमं चित्तशुद्धिं च मानसं पूजनद्वयम् ।
तृतीयं च सदा ध्यानं व्यापकं च चतुर्थकम्

4.2

पञ्चमं तु निरालम्बं मोक्षभूमिर्यथाक्रमम् ।
यत्नेन साधयेन्मर्त्यो तस्य मुक्तिर्न संशयः

4.3

जपानुष्ठानयोर्द्वारा चित्तशुद्धिर्विधीयते ।
पश्चाच्चतुर्विधा मुक्तिः शृणु साधु द्विजोत्तम

4.4

मानसे लोकसम्प्राप्तिस्तत्सदा च समीपता ।
तथा तस्य स्वरूपं च निरालम्बेन शाश्वतम्

4.5

ये ये यान् यान् यजन्देवांस्ते चत्वारमोक्षगाः ।
आत्मज्ञानं विना मोक्षो न भवेत्सच्चिदात्मनि

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc