भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 41-60

41

ऽपूर्वोत्पन्नम्ऽ; इत्यादि । प्रधानेनादिसर्गे प्रतिपुरुषमुत्पादितत्वात् पूर्वोत्पन्नम् । असक्तमप्याह । तन्न क्वचिद्विहन्यते, पर्वतमपि भित्त्वा गच्छति ॥
ऽनियतम्ऽ; । नित्यम्, ज्ञानोत्पत्तेः प्रागित्यर्थः ॥
किंपरिमाणमिदमित्याह- ऽमहदादिसूक्ष्मपर्यन्तम्ऽ; इति । बुद्धिरादिर्यस्य तत्, महदादिसूक्ष्मविषयास्तन्मात्रलक्षणाः पर्यन्तं यस्य तत् सूक्ष्मपर्यन्तम् । बुद्धिरहङ्कार एकादशेन्द्रियाणि पञ्च तन्मात्राणीत्येतत्परिमाणमित्यर्थः ॥
ऽसंसरतिऽ; । त्रिषु लोकेषु ॥
ऽनिरुपभोगम्ऽ; इति । बाह्येन स्थूलशरीरेण विकलत्वाद्विषयभोगसमर्थं न भवतीत्यर्थः ॥
ऽभावैरधिवासितम्ऽ; इति । धर्मादिभिरुपरक्तमित्यर्थः ॥
ऽलिङ्गम्ऽ; इतु । प्रलयकाले लयं गच्छतीति कृत्वा ॥ 40 ॥
कारिका 41
ननु करणमात्रमेव संसरति, किं सूक्ष्मशरीरेणेत्याह-
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया ।
तद्वद्विना ऽविशेषैर्न तिष्ठति निराश्रयं लिङ्गम्

42

ऽचित्रम्ऽ; इत्यादि । यथा कुड्यादिकमाश्रयमृते चित्रं न तिष्ठति ॥
ऽस्थाण्वादिभ्यःऽ; इति । आदिशब्देन वृक्षस्तम्बादयः । ऽपृथग्विनानानाभिस्तृतीयान्यतरस्याम्ऽ; इति पञ्चम्यपि भवति । तैर्विना यथा च्छाया स्निग्धा परुषा वा न तिष्ठति ॥
ऽतद्वद्विना ऽविशेषैर्न तिष्ठति निराश्रयं लिङ्गम्ऽ; इति । अविशेषास्तन्मात्राणि । लिङ्गं त्रयोदशविधं करणमिह गृह्यते । न तिष्ठति निराश्रयत्वात् । (तैर्हि सूक्ष्मशरीरमारब्धम्, तदभावात्तदपि नास्तीति निराश्रयत्वात्) । न संसरति । न च निराधारेण करणेन पुरुषस्य संयोगः सम्भवति । पुरुषो ऽपि निष्क्रियत्वान्न संसरति ॥ 41 ॥
कारिका 42
तदेव सूक्ष्मशरीरं किमर्थं संसरतीत्याह-
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम्

43

ऽपुरुषार्थहेतुकम्ऽ; इत्यादि । पुरुषार्थो द्विविध उक्तः । स हेतुर्यस्येति । समासान्तः कप् ॥
ऽइदम्ऽ; इति । महदादि सूक्ष्मपर्यन्तं लिङ्गमुक्तम्, तन्नटवदवतिष्ठते । यथैक एव नटस्तं तं विशेषमास्थाय यवनिकान्तो निर्गत्य राजामात्यविदुषकादिभावेनानुविद्धो ऽवतिष्ठते, तथा लिङ्गमपि तं तं देहमास्थाय देवमनुष्यतिर्यग्भावेन व्यवतिष्ठते ॥
तदेव कथं भवतीत्याह- ऽनिमित्तनैमित्तिकप्रसङ्गेनऽ; इति । निमित्तं धर्माधर्मादि, नैमित्तिकमूर्ध्वाधोगमनादि । वक्ष्यति च । तयोः प्रसङ्गेनेति ॥
किमेतत्सर्वमीश्वरात् किं वा स्वभावादित्यत्राह- ऽप्रकृतेः विभुत्वयोगात्ऽ; इति । प्रकृतिः प्रधानम्, तस्या विभुत्वं जगत्कर्तृत्वम् । तद्योगात् नटवद्व्यवतिष्ठते । प्रधानेनैव हि पुरुषस्यार्थः कर्तव्य इति महदादिसूक्ष्मपर्यन्तं लिङ्गमुत्पाद्य धर्मादिभिरधिवासयति । तदधिवासितं च नटवत् व्यवतिष्ठते । नेश्वरान्न स्वभावादिति भावैरधिवासितमित्युक्तम् ॥ 42 ॥
कारिका 43
ते पुनः कियन्तः किमाश्रिता इत्याह-
सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टा करणाश्रयिणः कार्याश्रयिणः कललाद्याः

44

ऽसांसिद्धिकाश्चऽ; इत्यादि । ये प्राकृतस्वभावास्ते सांसिद्धिका उच्यन्ते । ते च कपिलस्यैव महामुनेर्नान्यस्य । तस्य ह्युत्पद्यमानस्यैवादिसर्गे सहोत्पन्ना धर्मज्ञानवैराग्यैश्वर्यसंज्ञकाश्चत्वारो भावाः । ये त्वादिसर्गादुत्तरकालमुत्पन्नकार्यकारणानामस्मद्विधानां प्रयत्नपूर्वका उत्पद्यन्ते, ते वैकृताः ॥
ते च द्विविधाः । यदाह- ऽधर्माद्या दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याःऽ; इति । धर्मादयश्चत्वारः, विपरीताश्चाधर्मादयश्चत्वार इत्यष्टौ । एते त्रयोदशविधं करणमाश्रित्य प्रवर्तन्ते । कार्यं पञ्च, कुक्षिस्थस्यास्य निच्छुरितस्य तु कौमारयौवनवार्द्धकानि त्रयः, इत्यष्टौ भावाः । तत्र वैकृते धर्मादिभिरधिवासितं संसरतीति ज्ञेयम् ॥ 43 ॥
कारिका 44
निमित्तनैमित्तिकप्रसङ्गेनेत्युक्तम् । तदुभयमपि दर्शयितुमाह-
धर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः

45

ऽधर्मेणऽ; इत्यादि । धर्मादिनिमित्तमूर्ध्वगमनादि नैमित्तिकम् । तत्र धर्मेण यमनियमलक्षणेन गमनमूर्ध्वमिति, सूक्ष्मशरीरस्य देवादिव्यवस्थितिरित्यर्थः ॥
ऽगमनमधस्ताद्भवयधर्मेणऽ; इति । तिर्यग्योनिषु स्थितिः । मिश्रान्मनुष्यलोके स्थितिरित्यर्थोक्तम् ॥
ऽज्ञानेन चापवर्गःऽ; इति । प्रधानपुरुषान्तरज्ञानाख्येन ज्ञानेन लिङ्गं निवर्तते । ततः केवलः पुरुषो भवति ॥
ऽविपर्ययादिष्यते बन्धःऽ; इति । ज्ञानविपर्ययादज्ञानात् संसारचक्रबन्धः, पुनः पुनरावर्तनम् । स च त्रिप्रकारः - प्रकृतिबन्धः, दक्षिणाबन्धः, विकारबन्धश्चेति । येषां प्रकृतिरेव परतत्त्वं नान्यत्, तेषां प्रकृतिवादिनां प्राकृतिको बन्धः । येषामिष्टापूर्तभाविन एव दिव्यादिव्यमानुषभोगाः पुरुषार्थ इति, तेषां कर्मवादिनां दक्षिणाबन्धः । इष्टापूर्तं दक्षिणेति । तथा चोक्तम्-
अग्निहोत्रं तपः सत्यं देवानां परिपालनम् ।
अतिथिर्वैश्वदेवं च इष्टमित्यभिधीयते ॥
पुष्करिण्यः सभा वाप्यो देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
येषां विकार एवैश्वर्यलक्षणः पुरुषार्थ इति, तेषां विकारत्ववादिनां वैकारिको बन्धः ॥ 44 ॥
कारिका 45
वैराग्यात् प्रकृतिलयः, संसारो भवति राजसाद्रागात् ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः

46

ऽवैराग्यात्" इत्यादि । यो विषयादिदर्शनाद्विरक्तो यमनियमपरिस्थितो न ज्ञानं पर्येषते, तस्य मृतस्य वैराग्यादष्टास्यु प्रकृतिषु प्रधानादितन्मात्रपर्यन्तासु लयः, स्थूलशरीरेण विषयोपभोगनिमित्तेन योगः । तल्लीनश्चात्मानं मुक्तमिव मन्यते न तु मुक्तम्, सर्गकाले पुनः संसरणात् । यदा तु ज्ञानं पर्येष्यते तदा मुच्यत एव । तथा चोक्तम्-
ज्ञानादथ विरागाच्च तथा कृत्स्नस्य संक्षयात् ।
इत्येवं जायते मोक्षो मुक्त आत्मस्थ उच्यते ॥ इति ॥
ऽसंसारो भवति राजसाद्रागात्ऽ; इति । वैराग्यविषयो ऽशुभविषयाभिष्वङ्गो राजसो रागः, तस्य शुभाशुभकर्माक्षेपकत्वात् । तस्माद्देवादिष्वयं जनाद्यजिभावेन (?) संसरति ॥
ऽऐश्वर्यादविघातःऽ; इति । अनैश्वर्यात्तद्विपर्यास इति । अविघातविपर्यासो विघातः, प्रार्थितानामप्राप्तिरित्यर्थह । मुक्तिस्तु दुरोत्सारितैव ॥ 45 ॥
कारिका 46
एषामष्टानां बुद्धिरूपाणामेकेन मोक्षः सप्तभिर्बन्धः संसार इति यदेतन्निमित्तनैमित्तिकं षोडशमुक्तं तत्संक्षेपेण चतुर्विधमाह -
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत्

47

ऽएषःऽ; इत्यादि । प्रत्ययशब्देन बुद्धिरुच्यते । तस्य सर्गो यः षोडशविध उक्तः, एष विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । विपर्ययादीनामाख्या यस्य प्रत्ययसर्गस्य स तथोक्तः । तत्र विपर्ययमज्ञानम्, अशक्तिर्ज्ञानाधिगमासामर्थ्यं सत्यामप्यधिजिगांसायाम्, तुष्टिर्मोक्षोपायेषु वैमुख्यम्, सिद्धिर्ज्ञानप्राप्तिः ॥
तस्य चतुविधस्य पुनः पञ्चाशत् भेदा भवन्ति । केन प्रकारेणेत्याह- ऽगुणवैषम्यविमर्देनऽ; इत्यादि । सत्त्वरजस्तमसामन्यो ऽन्याभिभवद्वारेण वैषम्यं विषमभावः, एकस्य द्वयोर्वाधिक्ये ऽन्यस्यानाधिक्यम् । एकद्वित्रियोगेन षड्विधं वैषम्यम् । तेन द्वयोर्विमर्दः परस्परक्षोभः । तेन हेतुना भवतीत्यर्थः ॥ 46 ॥
कारिका 47
तान् भेदान् दर्शयन्नाह-
पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर्नवधा ऽष्टधासिद्धिः

48

ऽपञ्च विपर्ययभेदाःऽ; इत्यादि । अज्ञानाख्यस्य सर्गस्य भेदाः पञ्च- तमो मोहो महामोहस्तामिस्रो ऽन्धतामिस्रश्चेति । अत एव सांख्यप्रवचने क्लेशा उच्यन्ते । ऽअविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाःऽ; इति । तत्राविद्याक्षेत्रमुत्तरेषाम् ॥
ऽअशक्तिश्चऽ; इति । अशक्त्याख्यः सर्गः ॥
ऽकरणवैकल्यात्ऽ; इति । करणं बाह्यमाभ्यन्तरं च । तयोर्वैकल्यादष्टाविंशतिभेदा यस्याः अशक्तेः सा भवतीति विभक्तिपरिणामेन योज्यम् । करणवैकल्यं च गुणवैषम्यविमर्देन भवति ॥
ऽतुष्टिर्नवधा ऽष्टधा सिद्धिःऽ; । इति तुष्टिसर्गो नवप्रकारः, सिद्धिसर्गो ऽष्टप्रकारो भवतीत्यर्थः । एतैः समुदायेन पञ्चाशद्भेदा इति ॥ 47 ॥
कारिका 48
तानवान्तरभेदसहितान् दर्शयन्नाह-
भेदस्तमसो ऽष्टविधो मोहस्य च, दशविधो महामोहः ।
तामिस्रो ऽष्टादशधा, तथा भवत्यन्धतामिस्रः

49

ऽभेदस्तमसःऽ; इत्यादि । तम इत्यविद्योच्यते । सा चोत्तरेषां प्रसवभूमिः । सा च प्रकृतिः । तत्त्ववेदिनां सत्यपि वैराग्ये नापवर्ग इति, ज्ञानस्याभावात् । ततश्च तेषामष्टास्वेव प्रकृतिषु लयो भवतीति अष्टविधा अविद्या, विषयस्याष्टविधत्वात् ॥
मोहस्य चेतिशब्देनाष्टविधो भेद इत्यनुवर्तते । मोह इत्यस्मितोच्यते । देवा अपि विनाशिनो ऽपि, अष्टगुणमैश्वर्यमाश्रिता आत्मानमविनाशिनं मन्यन्ते । ततश्च तेषामष्टविधो मोहः, ऐश्वर्यस्याष्टविधत्वात् ॥
ऽदशविधो महामोहःऽ; इति सुखानुशयो रागो महामोह इत्युच्यते । स च दिव्यादिव्यविषयेषु वर्तमानो दशविधो भवति । तत्र सूक्ष्मास्तन्मात्रलक्षणाः पञ्च, सुखैकस्वभावत्वाद्द्विव्याः । स्थूलाः पृथिव्यादयः पञ्च, सुखदुःखमोहात्मकत्वाददिव्याः ॥
ऽतामिस्रो ऽष्टादशधाऽ; इति । दुःखानुशयो द्वेषस्तामिस्र इत्युच्यते । स चाष्टगुणैश्वर्ये दशविधे च विषये प्रतिभवतीत्यष्टादशविधः ॥
ऽतथा भवत्यन्धतामिस्रःऽ; इति । यथा तामिस्रो ऽष्टादशधा तथा ऽयमपीत्यर्थः । मरणत्रासो ऽन्धतामिस्र उच्यते । स चाष्टगुणैश्वर्ये दशविधे च विषये प्रतिभवतीत्यष्टादशविधः ॥
ऽतथा भवत्यन्धतामिस्रःऽ; इति । यथा तामिस्रो ऽष्टादशधा तथा ऽयमपीत्यर्थः । मरणत्रासो ऽन्धतामिस्र उच्यते । स चाष्टगुणैश्वर्ये दशविधे विषय एव भवतीति । एवं द्विषष्टिभेदमज्ञानमुक्तम् ॥ 48 ॥
कारिका 49
अशक्तिः करणवैकल्यादित्युक्तम्, तस्या भेदान् दर्शयितुमाह-
एकादशेन्द्रियवधः सह बुद्धिवधैरशक्तिरुपदिष्टा ।
सप्तदशधा च बुद्धेर्विपर्ययास्तुष्टिसिद्धिनाम्

50

ऽएकादशऽ; इत्यादि । एकादशानामिन्द्रियाणामेकादशैवोपघाताः । श्रोत्रचक्षुर्घ्राणानां बाधिर्यान्धत्वाघ्रातृत्वानि, वाचो मूकत्वम्, जिह्वाया जाड्यम्, मनस उन्मादः, पाणिपादोपस्थानां कौण्यपङ्गुत्वक्लैब्यानि, त्वगिन्द्रियस्य कुष्ठः, पायोरुदावर्त इति ।
बाधिर्यमान्ध्याघ्रातृत्वे मूकता जडता तथा ।
उन्मादकौण्यकुष्ठानि क्लैब्योदावर्तपङ्गुताः ॥ इति ॥
अत इन्द्रियवधा अशक्तिरित्युपदिष्टाः सांख्याचार्यैः ॥
ऽसह बुद्धिवधैःऽ; इति । बुद्धेरपि वधा अशक्तिरुपदिष्टा ॥ ते कियन्त इत्याह- ऽसप्तदशधा च बुद्धेर्वुपययास्तुष्टिसिद्धीनाम्ऽ; इति । तुष्टयो नव, सिद्धयश्चाष्टौ । वक्ष्यमाणाम्भसां ये विपर्ययास्ते सप्तदशविधा बुद्धेर्ज्ञेयाः । एवमशक्तिरष्टाविंशतिभेदा यया क्रमस्वशक्तो भवति ॥
ननु प्रत्ययसर्ग इत्युक्तम्, नायमिन्द्रियवधः प्रत्ययसर्गः किञ्चिदहङ्कारसर्ग इति सत्यम्, अहङ्कारस्य प्रत्ययसर्गत्वात् तत्सर्गो ऽपि प्रत्ययसर्ग उच्यते । धर्मो वा प्रत्ययः सर्गः ॥ 49 ॥
कारिका 50
तुष्टिभेदानाह-
आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्च, नव तुष्टयो ऽभिमताः

51

ऽआध्यात्मिकाःऽ; इत्यादिना । प्रकृत्यादीन्याख्या यासां तुष्टीनां तास्तथोक्ताः । तत्र प्रकृतिः प्रधानम् । सैव व्यक्तात्मना परिणम्य बन्धमोक्षौ कुरुत इत्येतावन्मात्रोपदेशात् तुष्टो भवति यस्तस्य प्रकृत्याख्या तुष्टिरम्भ इत्युच्यते ॥
उपादीयते प्राप्यते मोक्षो ऽनेनेत्युपादानम् । प्रव्रज्यालिङ्गं चात्र दण्डादि । न प्रकृतिज्ञानमात्रेण मुक्तिः । ऽउपादानेन चापरेऽ; इत्यस्मादद्वितीयादुपदेशादिहैव मुक्तिः प्राप्तव्येति परितुष्टः प्रव्रजितो ऽयं तस्य द्वितीया उपादानाख्या तुष्टिः सलिलमुच्यते ॥
कल्यत इति काला । महदादिसूक्ष्मपर्यन्तेन लिङ्गेन संसरता ऽपरेण मोक्षो न प्रकृत्युपादानमात्रादिहैव जन्मनीति तस्मात्तृतीयादुपदेशात् तुष्टो यः कालापेक्षी स्थितस्तस्य कालाख्या तुष्टिरोध इत्युच्यते ॥
यस्यापरं भाग्यमस्ति तस्य मोक्षः, प्रकृत्युपादानकालमात्रेण न, कश्चिद्विपरीतभागधेयो ऽस्तीति तस्माच्चतुर्थादुपदेशात् तुष्टो यो भाग्यापेक्षी स्थितस्तस्य चतुर्थी वृष्टिरित्युच्यते । एताश्चतस्र आत्मानमधिकृत्य भवन्तीत्याध्यात्मिकाः आत्मना मोक्तव्यमिति कृत्वा ॥
ऽबाह्यविषयोपरमाच्चऽ; इति । शब्दादिभ्यो व्यावृत्तिरुपरमणं पञ्चधा भवति । आर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनात् । तत्र विषयार्जने महद्दुःखं तदल्पविषयेभ्य इत्यार्जनदोषदर्शनान्निवृत्तस्य तुष्टिरियं पञ्चमी सुतारमित्युच्यते ॥
विषया आर्जितुं शक्याः, रक्षणं तु दुःखं बहुभिः तज्जन्यमानानां (?) स्यादिति रक्षणदर्शनान्निवृतस्य तुष्टिरियं षष्ठी सुपारमित्युच्यते ॥
विषया आर्जितुं रक्षितुं क्षये च प्रतिविधातुं शक्याः, किन्तूपभुज्यमाना महतीमात्मसक्तिं कुर्वन्ति, तदप्राप्तौ च महद्दुःखमिति सङ्गदोषदर्शनादुपरस्तस्याष्टमी तुष्टिरनुत्तमाम्भ इत्युच्यते ॥
सर्वं शक्यं किन्त्वनुपहत्य भूतानि न भोगः सम्भवति । भूतोपघातान्महदनिष्टफलमिति हिंसादोषदर्शनादुपरतस्य तुष्टिरियं नवमी उत्तमाम्भ इत्युच्यते । एताः पञ्च विषयद्वारेणेति भवन्तीति बाह्याः । तत्पूर्विकाश्चाध्यात्मिकाः, विषये तत्परस्याध्यात्मिकतुष्ट्यसम्भवात् ॥
तत्र प्रकृत्युपादानकाला न मोक्षोपाया इत्युपदिष्टमपि यो वैमुख्यान्न प्रतिपद्यते तस्याध्यात्मिकाश्चतस्रः, विषयोपरमाच्च बाह्याः पञ्चेति नव तुष्टयः । ता बुद्धिवधा इत्युचन्ते । तेषां शक्तेरन्तर्भवति [?] । तासां चतुष्षष्टीनां महत्प्रभृतयो विपर्ययेण संज्ञा । तदुभयमपि बुद्धावन्तर्भूतं तत्सर्गत्वात् ॥ 50 ॥
कारिका 51
कतिभेदा ज्ञानाज्ञानलक्षणा सिद्धिरित्याह-
ऊहः शब्दो ऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयो ऽष्टौ, सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः

52

ऽऊहः शब्दो ऽध्ययनम्ऽ; इत्यादि । सिद्धिर्ज्ञानप्राप्तिः, तस्या भेदा उपायभेदात् । ऊह इति । जन्मान्तरसंस्कृतधियो यस्य बन्धमोक्षकारणमुत्प्रेक्षमाणस्य प्रधानपुरुषान्तरज्ञानमुत्पद्यते तस्य सिद्धिरूहहेतुका प्रथमा तारमित्युच्यते ॥
यस्य सांख्यशास्त्रपाठमन्यदीयमाकर्ण्य तत्त्वज्ञानमुत्पद्यते, सा सिद्धिः शब्दहेतुका द्वितीया सुतारमित्युच्यते ॥
यस्य शिष्याचार्यसम्बन्धेन सांख्यशास्त्रं शब्दतो ऽर्थतश्चाधीत्य ज्ञानमुत्पद्यते, तस्याध्ययनहेतुका । अध्ययनेन हि तत्परिज्ञानात् । एषा तृतीया तारवि इत्युच्यते ॥
ऽदुःखविघातास्त्रयःऽ; इति । यो ऽप्याध्यात्मिकेनाधिभौतिकेनाधिदैविकेन वा भावितस्तद्विघातार्थं ज्ञानं पर्येष्यति, ऊहेन शब्देनाध्ययनेन वा, तस्य तद्विघातहेतुकाः प्रमादप्रमुदितमोदनाख्यास्तिस्रः, उपायस्य त्रित्वादिति । पूर्वा यास्तिस्रः सिद्ध्ययस्ता न दुःखहेतुका इति बोद्धव्याः ॥
ऽसुहृत्प्राप्तिःऽ; इति । यो ऽधिगततत्त्वः सुहृदं प्राप्य ज्ञानमधिगच्छति, तस्य सुहृत्प्राप्तिपूर्विका । मित्रं हि स्नेहात् ज्ञानं प्रकाशयति । इयं सप्तमी रम्यकमित्युच्यते ॥
दानं च सिद्धिहेतुः । दानेन ह्याराधितो ज्ञानी ज्ञानं प्रयच्छति । इयमष्टमी सदाप्रमुदितमित्युच्यते ॥
तद्विपरीता असिद्धयः । मन्दबुद्धित्वान्नोहते यस्तस्यानूहहेतुका असिद्धिः । यः शक्तो ऽपि सांख्यशास्त्रं शृण्वन्नपि बुद्धिदौर्बल्यान्न बुद्ध्यति तस्य शब्दहेतुका असिद्धिः । बुद्धिदोष एवायम् । यस्य गुरुपूर्वकं नाध्ययनं बुद्धिदोषादेव तस्यानध्ययनहेतुका असिद्धिः । न यत्र मित्रसंग्रहो न च दानमित्यष्टावसिद्धयो बुद्धिवधा अशक्तावन्तर्भूताः । तासां चासिद्धीनां मोषमुष्णामानोरमित्याद्याः [?] संज्ञाः । बुद्धावन्तर्भूतं तत्सर्गत्वात् ॥
ऽसिद्धेः पूर्वो ऽङ्कुशस्त्रिविधःऽ; इति । तस्या अष्टविधायाः सिद्धेर्यः पूर्वो विपर्ययाशक्तितुष्ट्याख्यस्त्रिविध उक्तः सो ऽङ्कुश इवेत्यङ्कुश उक्तः । तेन ह्यस्वतन्त्रीकृतो लोकः संसारचक्रे ऽवतिष्ठते । तत्र विपर्ययादिष्यते बन्ध इति वचनात् पञ्चविधमज्ञानमङ्कुशः । अशक्तिः करणवैकल्यम्, ततो हि ज्ञानाप्राप्तिरित्यङ्कुशः । तुष्टिरप्यङ्कुशः । तदा प्रकृत्युपादानकालभाग्या मोक्षोपाया इति, विषयोपरमाच्च मुक्त इत्येतावन्मात्रादुपदेशात् तुष्टो न ज्ञानं पर्येष्यति । यदा तु पर्येष्यति तदा ऽनङ्कुश इत्यर्थः । एते प्रत्ययसर्गभेदाः पञ्चाशत् पदार्थाः, अस्तित्वादयश्च दश । ते चास्यामेव सप्तत्यां निर्दिष्टाः । तथा चाह संग्रहकारः-
अस्तित्वमेकत्वमथार्थवत्त्वं पारार्थ्यमन्यत्वमकर्तृभावः ।
योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ इति ॥
एकत्वमर्थवत्त्वं पारार्थ्यं चेति प्रधानमधिकृत्योक्तम् । अन्यत्वमकर्तृत्वं बहुत्वं चेति पुरुषमधिकृत्य । अस्तित्वं योगो वियोगश्चेत्युभयमधिकृत्य । स्थितिर्मूलसूक्ष्ममधिकृत्य । वक्ष्यति- ऽतिष्ठति संस्कारवशात्ऽ; इति । एते षष्टि पदार्थाः, तदर्थं शास्त्रं षष्टितन्त्रमित्युच्यते ॥ 51 ॥
कारिका 52
पूर्वोत्पन्नं लिङ्गं भावैरधिवासितं संसरतीत्युक्तम्, तत्र किं भावा अपि पूर्वमुत्पन्नाः किं लिङ्गमेवेत्यत्राह-
न विना भावैर्लिङ्गम्, न विना लिङ्गेन भावनिष्पत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद्द्विविधः प्रवर्तते सर्गः

53

ऽन विनाऽ; इत्यादि । यदि भावा न पूर्वोत्पन्नास्तैर्विना लिङ्गमपि नास्ति । संसरणार्थं लिङ्गं संसारनिमित्तं च भावाः ॥
ऽन विना लिङ्गेन भावनिष्पत्तिःऽ; इति । लिङ्गं विना न भावानिष्पत्तिः, लिङ्गाश्रितत्वाद्भावानाम् । यस्मादेवं तस्मात् लिङ्गाख्यो भावाख्यश्च द्विप्रकारः प्रधानत्वात् सर्गो भवतीति । सृज्यत इति सर्गः ॥ 52 ॥
कारिका 53
यथा द्वावेतौ पूर्वोत्पन्नौ तथ भूतसर्गो ऽपीति दर्शयन्नाह-
अष्टविकल्प दैवस्तैर्यग्योन्यश्च पञ्चधा भवति ।
मानुष्यचैकविधः, समासतो भौतिकः सर्गः

54

ऽअष्टविकल्पःऽ; इत्यादि । देवानामयं दैवः । सो ऽष्टविधः । तद्यथा ब्राह्मः, प्राजापत्यः, सौरः, आसुरः, गान्धर्वः, याक्षः, राक्षसः, पैशाचश्चेति ॥
ऽतैर्यग्योन्यश्च पञ्चधा भवतिऽ; इति । तिर्यग्योनीनामयं तैर्यग्योन्यः । पशुमृगपक्षिसरीसृपस्थावरभेदात् पञ्चविधः । तत्र गवाद्या रासभान्ताः पशवः । सिंहाद्या बिडालान्ता मृगाः । हंसाद्या मशकान्ताः पक्षिणः । सर्पादयः कृम्यन्ताः सरीसृपाः । वृक्षादयः स्थूणान्ताः स्थावरा इति ॥
ऽमानुष्यश्चैकविधःऽ; इति । मनुष्याणामयं मानुष्यः । एवंविधसंस्थानस्यैकविधत्वात् । ब्राह्मादिभेदो ऽपि सत्त्वरजस्तमसां विकल्पात् कालव्यवहारनिमित्तम् ॥
ऽसमासतःऽ; इति । संक्षेपेण । विस्तरं...तस्तस्यैव (?) - जरायुजाण्डजोष्मजोद्भिज्जाख्याश्चत्वारो भेदाः शास्त्रान्तरे द्रष्टव्याः । उद्भिज्जाः स्थावराः ॥
ऽभौतिकः सर्गःऽ; इति । भूतेषु भवो भौतिकः, लोकोत्पाद इत्यर्थः । स च द्विविधः ॥ 53 ॥
कारिका 53
स्थूलशरीरे सत्त्वयि कश्चिदेव क्वचिदधिक्येन वर्तत इति दर्शयन्नाह-
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो, ब्रह्मादिस्तम्बपर्यन्तः

55

ऽऊर्ध्वम्ऽ; इत्यादि । ब्रह्मा आदिर्यस्य सर्गस्य स्तम्बश्च तृणविटपपर्यन्तः, स ब्रह्मादिस्तम्बपर्यन्तः सर्गः । स ऊर्ध्वः सत्त्वविशालः । ऊर्ध्वं देवलोकस्तस्योत्कृष्टत्वात् तत्र सात्त्विक इत्यर्थः । देवलोकस्य सत्त्वबहुलत्वात् ॥
ऽतमोविशालश्च मूलतः सर्गःऽ; इति । तैर्यग्योनो मूलम्, तस्याधमत्वात् । तस्मिन् मूले तमो ऽधिकं तमोबहुलत्वात् ॥
ऽमध्ये रजोविशालःऽ; इति । मनुष्यलोके मध्ये । उत्तराधरभावात् तत्र दुःखबहुलत्वात् ॥ 54 ॥
कारिका 55
यदि त्रिषु लोकेषु लिङ्गं संसरति, तदेव तर्हि सांसारिकं सुखं दुःखं वाप्नोति, तस्यैव सांसारिकत्वादित्याह-
तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेस्तस्माद् दुःखं स्वभावेन

56

ऽतत्रऽ; इत्यादि । तेषु लोकेषु जरामरणकृतमिति चतुर्दुःखोपलक्षणार्थम् । गर्भदुःखम्, जन्मदुःखम्, जरादुःखम्, मरणदुःखमिति । तत्र मातुः कुक्षौ अन्धतमसीव प्रविष्टस्य सङ्कुचनप्रसारणदुःखं गर्भदुःखम् । जायमानस्य मातुरुदरान्निर्गच्छतो जन्मदुःखम् । व.....पालतस्खलनादिदुःखं जरादुःखम् । मरणावस्थायां स्थूलशरीरं त्यजतो मरणदुःखम् । एतत्त्वाध्यात्मिकं दुःखे ऽन्तर्भूतमप्रीतदुःखं बुद्ध्याध्यवसितं पुरुषः प्राप्नोति तस्य चेतनत्वात्, न तु लिङ्गमचेतनत्वादिति भावः ॥
कियन्तं कालमित्याह- ऽलिङ्गस्याविनिवृत्तेःऽ; इति । यावल्लिङ्गस्याविनिवृत्तिस्तावदित्यर्थः । तस्य च निवृत्तिः प्रधानपुरुषान्तरज्ञानात् । यतश्चैवं तस्माद्दुःखं स्वभावेन । लिङ्गगर्भाद्यवस्थासु स्वभावतो दुःखमित्यर्थः । लोकत्रये सुखमपि प्राप्नोति, तन्नोक्तं तस्यानियतत्वात् । जरादिदुःखं तु नियतमिति ॥ 55 ॥
कारिका 56
यो ऽयं भावलिङ्गभूततत्सर्गः स किमीश्वरात्, यथोच्यते-
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ।
इति, किं वा पुरुषात्, यथोच्यते-
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
इति, किं वा स्वभावात्, यथोच्यते-
स्वभाविकमेवेदं सर्वं जगन्नहि मरुदादयः केनचित् क्रियन्ते ।
इत्यत्राह-
इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः

57

ऽइत्येष प्रकृतिकृतःऽ; इत्यादि । आरभ्यत इत्यारम्भः । प्रकृतिकृत इति प्रधानकृतः, नेश्वरादिकृत इत्यर्थः । लोकत्रयं त्रिगुणात्मकं भवति, तच्च त्रिगुणाया एव प्रकृतेरुत्पद्यते । नपै स्वभाविकम्, विपरीतगुणदोषप्रसङ्गाद्देशानियमयोगाच्च ॥
स किंस्वरूप इत्याह- ऽमहदादिविशेषभूतपर्यन्तःऽ; इति । बुद्धिरादिर्यस्यारम्भस्य । भूतानि लोकत्रये यान्यभिन्नसंस्थानानि स्थूलशरीराख्यानि । विषयाश्च । बाह्याश्च विषयाः सूक्ष्माः स्थूलाः । ते पर्यन्ते ऽवसाने यस्य स तथोक्तः । अनेन भावलिङ्गभूतसर्गाख्यास्त्रय आख्याताः ॥
किमर्थमयं प्रधानस्यारम्भ इत्यत्राह- ऽप्रतिपुरुषविमोक्षार्थम्ऽ; इति । एकैकस्य पुरुषस्य पुरुषस्य विमुक्त्यर्थमारम्भः, पुरुषाणां बहुत्वात् । भावसर्गे भूतसर्गे चानेक इति दर्शयति । तथाहि मोक्षार्थं विषयोपभोगार्थं चायमारम्भ इति द्रष्टव्यम् । प्रधानेन हि पुरुषार्थः कर्तव्यः । स च द्विविधः । विषयोपभोगः कैवल्यं च । तदुभयं कृत्वा निवर्तत इति ॥
ऽस्वार्थःऽ; इति । यः कश्चित् देवदत्तस्वार्थ एव परार्थो रहितितं प्रवर्तते न परस्तपस्तकरोति (?) तथा प्रधानमपीत्यर्थः ॥ 56 ॥
कारिका 57
ननु च सचेतनस्य बुद्धिपूर्विका प्रवृत्तिर्भवति, प्रधानस्याचेतनत्वात्कथं लोकत्रये पुरुषं विषयैः संयोज्य ध्यानेन विप्रमोच्य निवर्तेत । कथमेवंविधा प्रवृत्तिः । नायं नियमः, अचेतनानामपि लोके प्रवृत्तिदर्शनात् । यदाह-
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य

58

ऽवत्सविवृद्धिनिमित्तम्ऽ; इत्यादि । वत्सस्य विवृद्धिः पुष्टिः । तस्या निमित्तम् ॥
ऽक्षीरस्य यथा प्रवृत्तिरज्ञस्यऽ; इति । अचेतनस्य । यथा तृणदिकमचेतनं गवाशितं पीतं च, वत्सस्य पुष्टिः कर्तव्येति, क्षीरात्मना परिणमति कृतार्थं च निवर्तत इति ॥ 57 ॥
कारिका 58
यदि पुरुषविमोक्षार्थं प्रधानस्य प्रवृत्तिः, प्रवृत्तेः प्राक् पुरुषस्य कैवल्यं स्थितमेव, तत् किं तेन प्रवृत्तेन? तथा चाहुः -
मध्वर्थं प्रस्थितः कश्चिद् ग्रामाभ्याशे तु माक्षिकम् ।
अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ॥ इति ॥
अत्राह-
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम्

59

ऽऔत्सुक्यम्ऽ; इत्यादि । यथौत्सुक्यनिवृत्त्यर्थमभिमतक्रियासु लोकः प्रवर्तते, तद्वत् प्रलयावस्थायां पुरुषो ऽपि मोक्षनिमित्तं यदौत्सुक्यं तन्निवृत्तये प्रवर्तयेत्प्रधानमिति ॥ 58 ॥
कारिका 59
उदाहरणान्तरमाह-
रङ्गस्य दर्शयित्वा निवर्तते नर्त्तकी यथा नृत्तात् ।
पुरुषस्य तथा ऽ; ऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः

60

ऽरङ्गस्यऽ; इत्यादि । नृत्यतीति नर्त्तकी । सा तथा रङ्गस्य नृत्तं दर्शयित्वा तस्मान्नृत्तान्निवर्तते विरमति, दृष्टाहमनेनेति कृतप्रयोजना सती, तथा पुरुषस्यात्मानं संप्रकाश्य देवादिभावरूपं गता निवर्तते प्रकृतिः प्रधानमित्यर्थः ॥ 59 ॥
कारिका 60
ननु च नटी रङ्गात् स्वार्थं साधयति, प्रकृतेस्तु पुरुषार्थः स्वार्थो येनैवमाचरयतीत्याह-
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति

मूल पाठ: Sāṃkhyakārikā with Śaṃkara's Jayamaṅgalā commentary · Edition: H. Sarma: Jayamaṅgalā nāma Sāṃkhyasaptatiṭīkā, Calcutta 1926 (Calcutta Oriental Series, 19) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc