भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 61-72

61

ऽनानाविधैःऽ; इत्यादि । पूर्वं सप्तभिर्धर्मादिभिरुपायैस्त्रिषु विषयेष्वात्मनं प्रकाशयत्युपकारिणी, तदनन्तरमेकेन ज्ञानाख्येन कैवल्यं कुर्वाणोपकारिणी भवति ॥
ऽअनपकारिणः पुंसःऽ; इति । न पुमांस्तां प्रत्युपकरोति, अहमनयोपकृत इति । पुनस्सा तमुपकरोति ॥
नासौ तामित्याह - ऽ; गुणवत्यगुणस्य सतःऽ; इति । गुणसत्त्वात्प्रकृतिः सक्रिया, निर्गुणत्वात् पुरुषो निष्क्रिय इति । तस्यार्थमपार्थकं चरति । तस्य पुंसो ऽर्थो द्विविधः- विषयोपभोगः कैवल्यं च । तन्निरर्थकं करोति, यतस्तस्याः प्रयोजनाभावः । व्यक्तात्मना ऽ; ऽत्मानं दर्शयति नत्वव्यक्तात्मना ॥ 60 ॥
कारिका 61
तथाहि - गुणानां साम्यावस्था प्रकृतिः । कुतश्च सा न सर्वात्मना ऽ; ऽत्मानं प्रकाशयति, पुमानपि न सर्वथा पश्यति ? तथा चाहुः-
गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथं प्राप्तं तन्मायावस्तु तुच्छकम् ॥ इति । अत्राह -
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य

62

ऽप्रकृतेःऽ; इत्यादि । सुकुमारतरमिति सूक्ष्मतरमितरत् । एतदुक्तं भवति- प्राग्व्यक्तात्मना प्रकाशयति न त्वव्यक्तात्मनापि, येन ज्ञानावस्थायां प्रकृतेर्मतिर्भवति मम सूक्ष्मतरं न किञ्चिदपरमस्ति यद्द्रष्टव्यं पुरुषेण ॥
(ऽया दृष्टा ऽस्मिऽ; इति । सा प्रकृतिर्व्यक्तात्मना च) दृष्टाहमनेनेति न पुनर्दर्शनमुपैति पुरुषस्य, द्रष्टव्याभावात् । ततश्चैवं सर्वथा प्रकृतिरात्मानं प्रकाशयति, पुरुषश्चैतां सर्वथा पश्यति ॥ 61 ॥
कारिका 62
तस्मान्न पुरुषस्य बन्धो नापि संसरणं मोक्षो वेत्याह-
तस्मान्न बध्यते ऽद्धा न मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः

63

ऽतस्मान्न बध्यतेऽ; इत्यादि । बन्धाभावान्न बध्यते । पुरुषस्यापि कार्यत्वाद्बन्धो नास्ति । न विमुच्यते तस्या बन्धनात् । नापि संसरति निष्क्रियत्वात् । कश्चिदिति पुरुष इत्यर्थः ॥
कस्य तर्हि बन्धादय इत्याह- संसरति बध्यते मुच्यते च प्रकृतिरिति । ननु च तस्याः सुकुमारत्वाद्बन्धादयो न सम्भवन्त्येवेत्यत्राह- नानाश्रयेषुरभिवज्यते (?) । तत्राश्रयाः भावलिङ्गभूतास्सर्गाः । ते प्रकृतिपुरुषवन्नानाविधाः ॥ 62 ॥
कारिका 63
ततश्च नानाश्रयत्वादेव दर्शयन्नाह-
रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण

64

ऽरूपैःऽ; इत्यादि । धर्मादयो बुद्धे रूपान्युक्तानि । ऽसप्तभिःऽ; । ज्ञानं त्यक्त्वा ते च प्रकृतेरात्मभूताः । सैवात्मनैव पुरुषार्थं प्रत्यात्मानं महदादिसूक्ष्मपर्यन्तं लिङ्गं बध्नाति । बन्धश्च त्रिविधः । तच्च लिङ्गं भावादिभिरधिवासितमर्थमेव । संसरतीति । प्रकृतिरेव संसरति ॥
ऽसैव चऽ; इति । प्रकृतिः पुरुषार्थं प्रति कैवल्यार्थं विमोचयत्यात्मानम् ॥
ऽएकरूपेणऽ; इति । एकं च तद्रूपं चेति । ज्ञानाख्येन रूपेणेत्यर्थः । यं पुरुषमपेक्ष्य ज्ञानमुत्पादयति तं प्रत्यव्यक्तमात्मानं संहरतीत्यर्थः । नहि धर्मादयः पुरुषधर्मा यस्तैर्बध्यते । नापि संसरति, अलिङ्गभावत्वात् । नापि मुच्यते, तस्य बन्धनत्वात् ॥ 63 ॥
कारिका 64
तदेवं ज्ञानं कथमुत्पद्यते येन मोचयतीत्याह-
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्

65

ऽएवं तत्त्वाभ्यासात्ऽ; इत्यादि । एवमिति वक्ष्यमाणे योज्यम् । तत्त्वानि पञ्चविंशतिः । तेषां पुनः पुनः स्वरूपेणाभ्यसनमभ्यासः । यदेतत् सूक्ष्मशरीरं भौतिकं च तस्मिन्न भवामि, अपि तु प्रकृतिः ॥
ऽन मेऽ; इत्यादि । न ममेदमपि तु प्रकृतेः ॥
नाहमिति । नाप्यहं प्रकृतिरित्येवं तत्त्वाभ्यासात् । किंविशिष्टात् - अविपर्ययादहमित्यमानसंशयात् ज्ञानमुत्पद्यते ॥
ईदृशमित्याह- ऽअपरिशेषम्ऽ; इति । परिपूर्णं विशुद्धम् संसारमलापगमात् केवलमेकमित्यर्थः ॥ 64 ॥
कारिका 65
ननु ज्ञानेन पुरुषः किं पश्यतीत्याह-
तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः

66

ऽतेनऽ; इत्यादि । यत् प्रकृतिज्ञानमुत्पद्यते तं प्रति निवृतः प्रसवो लिङ्गभूतसर्गाख्यो यस्याः प्रकृतेः स तथोक्ता । प्रसवनिवृत्त्या वा यो विषयो विषयेभ्यो निवर्तते तद्वशात्, सप्तभ्यो रूपेभ्यो धर्मादिभ्यो निवृत्ता प्रकृतिर्भवति । भावसंसर्गो ऽपि यस्या निवर्तत इत्यर्थः । तामेवंविधामव्यक्तरूपां पश्यति पुरुषः ॥
ऽप्रेक्षकवदवस्थितःऽ; इति । यथा प्रेक्षकः प्रवर्त्तितनृत्तमुपसंहृतनृत्तां च नर्त्तकीं पश्यति, तथा पुरुषो ऽपि प्रवर्तितसर्गामुपसंहृतसर्गां चेति ॥
ऽस्वस्थःऽ; इति । आत्मनि स्थितो न प्रकृतिस्थः, ततः प्रकृतेर्निवृत्तत्वात् ॥ 65 ॥
कारिका 66
ननु च यदि प्रकृतिर्गर्भभूःपुरुषं प्रति निवृत्तप्रसवा, तस्याश्च प्रकृतेस्तदानीं सर्वगतत्वादस्त्येव संयोगस्तत्किमिति पुनः शरीरोत्पत्तिर्न भवतीत्याह -
दृष्टा मयेत्युपेक्षक एको दृष्टा ऽहमित्युपरमत्यन्या ।
सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य

67

ऽदृष्टा मयाऽ; इत्यादि । तयोर्द्वयोरेकः पुरुष उपेक्षकः, सर्वथा...त्वात् । यथा प्रेक्षको नटीमुपेक्षते निवृत्ताभिलाषत्वात् ॥
ऽदृष्टा ऽहमित्युपरता ऽन्याऽ; इति । अपरा प्रकृतिरुपरता निवृत्तप्रसवा । सर्वथा ऽहमनेन दृष्टेति ॥
ततश्च संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य । विषयोपभोगार्थः सर्गः । तस्मिन्नेव चरितार्थत्वात् न पुनः सर्गमारभते । नहि नटी रङ्गे प्रेक्षकैर्निराकांक्षितं पुनर्नृत्तमारभते ॥ 66 ॥
कारिका 67
यद्यात्मज्ञानात् कैवल्यप्राप्तिः, तदनन्तरमेव शरीरं कस्मान्न निवर्तत इत्याह-
सम्यग्ज्ञानाधिगमात् धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशात्, चक्रभ्रमवद्धृतशरीरः

68

ऽसम्यक् ज्ञानाधिगमात्ऽ; इत्यादि । सम्यक् ज्ञानमात्मज्ञानम् । तस्याधिगमादात्मज्ञानप्राप्तेरित्यर्थः ॥
ऽधर्मादीनामकारणप्राप्तौऽ; इति । न कारणमकारणम्, तस्यामकारणप्राप्तावेव तदुक्तं भवति । सम्यक् ज्ञानाधिगमात्तेषां धर्मादीनामग्निदग्धबीजवदशक्तत्वात् ॥
जन्मान्तरसंस्कारवशाद्धृतशरीरः पुमांस्तिष्ठति । कथम्- चक्रभ्रमवत् । यथा कुलालव्यापारे निवृत्ते ऽपि वेगवशात् कियन्तमपि कालं चक्रभ्रमस्तिष्ठति तथा शरीरमपीत्यर्थः ॥ 67 ॥
कारिका 68
कदा स मोक्षो भवतीत्यत्र-
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति

69

ऽप्राप्ते शरीरभेदेऽ; इत्यादि । लिङ्गभौतिकशरीरे पृथग्भूते यथा संभूते लयं गति तेष्वित्यर्थः (?) ॥
ऽचरितार्थत्वात् प्रधानविनिवृत्तौऽ; इति । प्रधानं लिङ्गात्मना परिणतं निवर्तते । निवृत्तावुभयं कैवल्यमाप्नोति ॥
ऽऐकान्तिकमात्यन्तिकं चऽ; इति । तत्रात्मज्ञानोत्पादादवश्यंभावि कैवल्यमित्यैकान्तिकम् । सत्यपि तयोः संयोगे प्रयोजनाभावान्न पुनः सर्ग इत्यात्यन्तिकमिति ॥ 68 ॥
कारिका 69
सप्तत्यां विशुद्धिं दर्शयन्नाह-
पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्

70

ऽपुरुषार्थज्ञानम्ऽ; इत्यादि । पुरुषार्थं ज्ञानं चेति पुरुषार्थज्ञानम् । यदिदं पञ्चविंशतितत्त्वज्ञानं तत्प्रधानम्, पुरुषार्थमोक्षो ऽनेन प्राप्यत इति कृत्वा । गुह्यमिदमप्रकाश्यम् । साधुजनादन्यस्मै न देयमित्यर्थः ॥
ऽपरमर्षिणा समाख्यातम्ऽ; इति । कपिलमुनिना प्रकाशितम् ॥
ऽस्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्ऽ; इति । यत्र ज्ञाने भूतानां ब्रह्मादिस्तम्बपर्यन्तानां स्थित्यादयो व्यवस्थाप्यन्ते । तत्रोत्पन्नानां प्रबन्धेनावस्थानं स्थितिः । सा च त्रिषु स्थानेषु दैवमानुषतैर्यग्योनेषु उत्पत्तिः सृष्टप्रधानात् यावत् तन्मात्रेभ्यः पञ्चमहाभूतानि । सृष्ट्युपसंहारे महाप्रलयः, सर्वो ऽप्युत्क्रमेण । तद्यथा पृथिव्यादयस्तन्मात्रादिषु लीयन्ते यावत्प्रधानमिति । तेन पञ्चविंशतितत्त्वव्यतिरिक्तं नास्तीत्येतदुक्तम् ॥ 69 ॥
कारिका 70
मुनिना समाख्यातमिति कुतो ज्ञायत इत्याह-
एतत् पवित्रमग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय, तेन च बहुधा कृतं तन्त्रम्

71

ऽएतत्ऽ; इत्यादि । ऽपवित्रम्ऽ; इति । दुःखत्रयमेतत् पुनातीति कृत्वा । सर्वभेदानामग्रेभवत्वादग्र्यम् ॥
ऽमुनिरासुरये ऽनुकम्पया प्रददौऽ; इति । कपिलस्य महामुनेः सहोत्पन्नाश्चत्वारो धर्मादयः । तत्र ज्ञानाख्येन भावेनान्धे तमसि वर्तमानं जगत् दृष्टवतो मुनेः करुणोत्पन्ना । तया च प्रेर्यमाण आसुरिं सगोत्रब्राह्मणं वर्षसहस्रयातिनमागत्योवाच । ऽआसुरे रमसे त्वं गृहस्थधर्मेणऽ; इति । स तमाह- ऽभगवन् न रमे ऽहम्ऽ; इति । पुनर्वर्षसहस्रे पूर्णे तं गत्वा तथोवाच । सो ऽपि ऽभगवन् न रमे ऽहम्ऽ; इत्युवाच । ततो मुनिना ऽयदि विरक्तस्त्वम्, एहि ब्रह्मचर्यं चरऽ; इत्यसावुक्तः । स तु प्रदिपद्य गृहस्थधर्मं त्यक्त्वा प्रव्रजितः । तस्मै शिष्यायानुकम्पया संक्षिप्य दत्तवान् । ऽतम एव खल्विदमासीत्ऽ; । तस्मिंस्तमसि क्षेत्रज्ञ एव प्रथमः । तमः प्रधानम्, क्षेत्रज्ञः पुरुष उच्यते । आसुरिरपि तदेव संक्षिप्तं पञ्चशिखाय स्वशिष्यायानुकम्पया प्रददौ ॥
ऽतेनऽ; इति । पञ्चशिखेन मुनिना बहुधा कृतं तन्त्रम् । षष्टितन्त्राख्यं षष्टिखण्डं कृतमिति । तत्रैव हि षष्टिरर्था व्याख्याताः ॥ 70 ॥
कारिका 71
ननु च षष्टितन्त्रमेवास्तु किं सप्तत्येति स्वशास्त्रकरणप्रयोजनमाह-
शिष्यपरम्परया ऽ; ऽगतमीश्वरकृष्णेन चैतदार्याभिः ।
संक्षिप्यार्यमतिना सम्यग्विज्ञाय सिद्धान्तम्

72

ऽशिष्यपरम्परयाऽ; इत्यादि । मुनेरासुरेः पञ्चशिखस्तथा गर्गगौतमप्रभृतिर्णरामतंग्रम्या (?) ईश्वरकृष्णनामानं परिव्राजकमित्यनया शिष्यपरम्परया । इति ज्ञानमयरूपेणागतं सिद्धान्तं षष्टितन्त्रम् । सम्यग्विज्ञाय संक्षिप्तं षष्टितन्त्रम्, पञ्चविंशतितत्त्वाख्यं ज्ञानमित्यर्थः ॥
आर्यमतिः, अधिगततत्त्वज्ञानतयार्यमतिः ॥
ऽआर्याभिःऽ; इति । सप्तत्येत्यर्थः । ऽदुःखत्रयाभिघातात्ऽ; ऽएतत् पवित्रम्ऽ; इति सप्तत्याभिहितम् ॥ 71 ॥
कारिका 72
अत्र षष्टितन्त्रे बहवो ऽर्थाः, ते ऽत्र नोक्ता इत्याह-
सप्तत्यां किल ये ऽरथास्ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि

मूल पाठ: Sāṃkhyakārikā with Śaṃkara's Jayamaṅgalā commentary · Edition: H. Sarma: Jayamaṅgalā nāma Sāṃkhyasaptatiṭīkā, Calcutta 1926 (Calcutta Oriental Series, 19) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc