सांख्यकारिका (टीका सहित) · श्लोक 21-40
ऽतस्मात्तत्संयोगात्ऽ; इत्यादि । तेन पुरुषेण यः संयोगस्तस्मादचेतनं चेतनावदिव भवति । यथाग्निसंयोगाल्लोहमणिरित्युच्यते । लिङ्गं महदादिसूक्ष्मपर्यन्तं वक्ष्यति ॥
यदि तदेव त्रिगुणात्मकं कर्तृ न पुमान्, कथं पुरुषो गच्छतीत्युच्यत इत्याह- ऽगुणकर्तृत्वे ऽपि तथा कर्तेव भवत्युदासीनःऽ; इति । गुणानां कर्तृत्वं न पुरुषस्य । यथा पुरुषसंयोगादचेतनं लिङ्गं चेतनावदिव भवति, तथा गुणात्मकलिङ्गसंयोगादकर्तापि सन् कर्तेव भवति । उदासीनः । यथा स्वामी स्वयमयोद्धापि यौधभृत्यसंयोगाद् योद्धेति व्यपदिश्यते, तथा पुरुषो ऽप्युपचारेण कर्तेति ।
तथा चोक्तम् -
प्रवर्त्तमानान् प्रकृतेरिमान् गुणांस्तमो ऽभिभूतो विपरीतदर्शनः ।
अहं करोमीत्यबुधो ऽभिमन्यते तृणस्य कुब्जीकरणे ऽप्यनीश्वरः ॥ इति ॥ 20 ॥
कारिका 21
ननु प्रधानपुरुषयोः किं (कर्तृत्वं) चैतन्यार्थमेव संयोगः, किं वान्यार्थमपीत्याह-
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पंग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः
ऽपुरुषस्यऽ; इत्यादि । पुरुषस्यार्थो द्विविधः, विषयोपभोगः कैवल्यं च । तदुभयं प्रधानेन सम्पाद्यम् । विषयोपभोगश्च प्रधानविभूतिमन्तरेण न सम्भवति, इति दर्शनार्थं पुरुषः प्रधानेन संयुज्यते । मानं स्वां विभूतिं दर्शयितुमसमर्थात्पुरुषेण संयुज्यते (?) । दृष्ट्वा स सर्वां विभूतिमनुभूय विरसत्वाद् विरक्तः पुरुषः प्रधानेन त्यज्यते । त्यक्तस्य कैवल्यमित्यतो दर्शनार्थं कैवल्यार्थं च द्वयोरपि संयोगो मत्स्योदकवदुदुम्बरमशकश्च ॥
ऽपंग्वन्धवत्ऽ; इति । दृष्टान्तः । पङ्गुः सचक्षुः पश्यति पन्थानं न संचरति, अन्धो ऽपि संचरति न पश्यति पन्थानम् । तयोः स्वार्थभ्रष्टयोर्ग्रामप्राप्त्यर्थः सम्बन्धो भूतः । तत्र पङ्गुरन्धस्कन्धमारुह्य गतिमान्, अन्धो ऽपि द्रष्ट्रधिष्ठानाद्दृष्टिमान् जातः । ग्रामप्राप्तयोश्च तयोर्वियोगः । एवं पुरुषो निष्क्रियः प्रधानेन संयुज्य तद्विभूतिदर्शनाय देवादिषु संचरति । प्रधानं निश्चेतनमपि पुरुषाधिष्ठानाच्चेतनावदिव द्वयमपि सम्पादयति । तस्मात्पंग्वन्धवदुभयोरपि संयोगः ॥
ननु च संयोगमात्रेण कथं दर्शनं कैवल्यं चेत्याह- ऽतत्कृतः सर्गःऽ; इति । संयोगकृतो महदादिग्रामोत्पाद इत्यर्थः ॥ 21 ॥
कारिका 22
तमेव दर्शयन्नाह-
प्रकृतेर्महांस्ततो ऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि
ऽप्रकृतेर्महान्ऽ; इत्यादि । प्रकृतिः प्रधानं कारणमव्यक्तं गुणसाम्यं तमोबहुलमव्याकृतमिति प्रकृतिपर्यायाः । ततो महानुत्पद्यते स तु तमोबहुलः । महान् बुद्धिर्मतिः प्रत्यय उपलब्धिरिति बुद्धिपर्यायाः । ततो ऽहङ्कार उत्पद्यते । स तु रजस्तमोबहुलः । अहङ्कारः सुपर्णपणि(!)स्तत्पुरुष इत्यहङ्कारपर्यायाः ॥
ऽतस्माद्गणश्च षोडशकःऽ; इति । तस्मादहङ्कारात् षोडशको गण उत्पद्यते । एकादशेन्द्रियाणि पञ्च तन्मात्राणीत्यर्थः । तानि हृषीकाणीन्द्रियाणीति पर्यायाः । सूक्ष्मा अतिशया अणवः (विषा) इति तन्मात्रपर्यायाः ॥
ऽतस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानिऽ; इति । षोडशाद् गणाद्यानि पञ्च तन्मात्राणि तेभ्य एकोत्तरवृद्ध्या पञ्च महाभूतानि भवन्ति । तत्र शब्दतन्मात्रादाकाशमेकगुणम् । शब्दतन्मात्रप्रतिसंहितात् स्पर्शतन्मात्राद्द्विगुणो वायुः । ताभ्यां प्रतिसंहिताद्रूपतन्मात्रात् त्रिगुणं तेजः । तैः प्रतिसंहिताद्रसतन्मात्रात् चतुर्गुणा आपः । चतुर्भिः प्रतिसंहिताद्गन्धतन्मात्रात् पञ्चगुणा पृथिवीति । एतैरेकादशादयः स्थूला विशेषा उच्यन्ते, येष्ववसितानि चतुर्विंशतितत्त्वानि ॥ 22 ॥
कारिका 23
बुद्धेर्लक्षणमाह-
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्
ऽअध्यवसायःऽ; इत्यादि । शब्दादिषु विषये ऽध्यवसायशब्दो ऽयं यावत् गन्धो ऽयमिति सुबुद्धेर्लक्षणम् (?) । तस्याश्चाष्टौ रूपाणि ॥
ऽधर्मो ज्ञानं विराग ऐश्वर्यम्ऽ; इति । तत्र यो ऽयमनिविषयमनुष्ठानात्मको ऽधवसायस्स धर्मः । यमाः पञ्च नियमाश्च । यथोक्तं सांख्यप्रवचने ऽअहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाःऽ; । ऽशौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाःऽ; इति । तत्र सन्तोषस्सनिहितसाधनाभ्याशादधिकस्यानुपादित्सा । तपो जिघत्सापिपासाशीतोष्णस्थानसाधनाजयः काष्ठमौनाकारमौने, व्रतानि च कृच्छ्रचान्द्रायणादीनि । स्वाध्यायो मोक्षशास्त्राध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं विशिष्टदेवताराधनम् । असंसारिभिस्तुल्यवृत्तित्वादिति । तद्विपरीतानुष्ठानमधर्मः । पञ्चविंशतितत्त्वानां स्वसंज्ञालाक्षण्यकत्वप्रयोजनावधारणं ज्ञानम्, गुणपुरुषान्तरज्ञानम् । शेषमज्ञानम् । विषयशरीरेन्द्रियेभ्यो दोषदर्शनाद्वैमुख्यं विरागः । तेष्वभिलाषो रागः । ऐश्वर्यमष्टगुणम्- अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वं, वशित्वम्, यत्रकामावसायित्वं चेति । तत्राणिमाणुत्वम्, येन गुणेन सूक्ष्मो भूत्वा विचरति । कार्ये कारणोपचारादणिमेत्युच्यते । उत्तरत्राप्येवं योज्यम् । लघिमा लघुत्वम्, येन वायुवल्लघुतरो भवति । महिमा महत्त्वम्, येन भुवनेषु धर्मादिप्राप्तिः, येन गुणेनेषितस्य प्रापणम् । प्राकाम्यं प्रचुरकामिता येनैकमनेकं प्राकाम्यते ऽनेकं चैकम् । ईशित्वं प्रभुता (येन स्थावरादीनि भूतानि सन्देशकारीणि भवन्ति । वशित्वं वशिता) येन स्वतन्त्रश्चरति । यत्रकामावशायित्वं (कामेनेच्छयावशेतुं शीलं यस्य स यत्रकामावशायी । तस्य भावः यत्रकामावशायित्वम्) । अनेकार्थत्वाद्धातूनां ऽशीऽ; तिष्ठतौ वर्त्तते । येन गुणेन दिव्यन्तरिक्षे भूमौ वावस्थायित्वमित्यर्थः ।
ऽसात्त्विकमेतद्रूपम्ऽ; इति । सत्त्वतमोबहुलत्वात् । बुद्धेर्यदा सत्त्वमुत्कटं भवति तदैतच्चतुष्टयं भवतीत्यर्थः ।
ऽतामसमस्माद्विपर्यस्तम्ऽ; इति । उत्कटलक्षणात् धर्मादिचतुष्टयाद्विपरीतं तमस्युद्रिक्ते भवतीत्यर्थः । अधर्मो ऽज्ञानमवैराग्यमनैश्वर्यं चेति ॥ 23 ॥
कारिका 24
अहङ्कारलक्षणमाह-
अभिमानो ऽहङ्कारः, तस्माद्द्विविधः प्रवर्त्तते सर्गः ।
एकादशश्च गणस्तन्मात्रपञ्चकश्चैव
ऽअभिमानःऽ; इत्यादि । अभिमतिरभिमानः । रूपादिषु विषयेष्वभिमानो रूपवानहम्, ममैते विषयाः, इत्यह्यङ्कारलक्षणम् ॥
तस्मादभिमानलक्षणादहङ्कारात् ऽद्विविधः प्रवर्त्तते सर्गःऽ; इति । सृज्यत इति सर्गः ॥
तमेव द्विविधं दर्शयितुमाह- ऽएकादशकश्च गणःऽ; इति । एकादश परिमाणमस्येत्येकादशः श्रोत्रादिर्गणः ॥
ऽतन्मात्रापञ्चकं चऽ; इति । तन्मात्रशब्दादिस्वरूपमात्र इत्यर्थः । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाः । मात्राग्रहणं भूतसंश्लेषनिवृत्त्यर्थम् । भूतेष्वपि शब्दादिसम्भवात् ॥ 24 ॥
कारिका 25
स चाहङ्कारस्त्रिविध इति दर्शयन्नाह-
सात्त्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम्
ऽसात्त्विकःऽ; इत्यादि । यदा सत्त्वमुद्रिक्तं तदाहङ्कारो वैकृताभिमानो भवति, रजश्चोद्रिक्तं तैजसः, तमश्चोद्रिक्तं भूतादिरिति । तत्र वैकृतादेकादशको गणः प्रवर्त्तते । स च सात्त्विकः सत्त्वबहुलः, स्वविषयग्रहणत्वात् ॥
भूतादेस्तामसादहङ्कारात्तन्मात्रः स तामसः, तमोबहुलत्वात् । ततस्तामसात्तन्मात्रात् गणात् तामसो भूतगणः प्रवर्त्तते ॥
(ऽतैजसादुभयम्ऽ; इति । एतदाशयः- पञ्चकञ्चैतदुभयमपि प्रवर्त्तते) । आदिकाल उभयत्राप्यस्य सहायत्वात् । वैकृतभूतादि द्वावपि प्रकाशस्थितिशीलत्वात् न क्रियाशीले । ततस्तैजसमहङ्कारं क्रियाशीलं सहायमपेक्ष्यैकादशकं पञ्चकं च मलाजनयत (?) इति ॥ 25 ॥
कारिका 26
कः पुनरेकादश इत्याह-
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः
ऽबुद्धीन्द्रियाणिऽ; इत्यादि । द्विविधमिन्द्रियम् । तत्र चक्षुर्येन दृश्यते । श्रोत्रं येन श्रूयते । त्वग्यया स्पृश्यते । रसनं येन रस्यते । नासिका यया घ्रायते । ता आख्या येषामिन्द्रियाणामिति शब्दप्रधानो निर्देशः । तानि चक्षुःश्रोत्रत्वग्रसनानासिकाख्यानि पञ्च । बुद्धिपूर्वकपर्यालोचनमिति बुद्धीन्द्रियाण्याहुः सांख्याचार्याः । शब्दवशादत्राक्रमः कृतः । क्रमस्तु श्रोत्रत्वक्चक्षुरिति ॥
ऽवाक्पाणिपादपायूपस्थान्ऽ; इति । कर्मेन्द्रियाणि कर्माभिनिर्वर्तनात् । अस्मादेव प्रयोगादुपस्थशब्दः पुंलिङ्गो ऽप्यस्तीति ज्ञायते । स च स्त्रैणः पौरुषेयश्च । तत्र वागिन्द्रियं कण्ठस्थम् । अन्यानि प्रसिद्धान्येव ॥ 26 ॥
कारिका 27
एकादशकमिन्द्रियं दर्शयन्नाह-
उभयात्मकमत्र मनः, सङ्कल्पकमिन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च
ऽउभयात्मकमत्र मनःऽ; इत्यादि । अत्रेत्यस्मिन्निन्द्रियवशे मन उभयात्मकमुभयस्वभावम् । बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च स्वस्वविषयग्रहणकाले बुद्धीन्द्रियं कर्मेन्द्रियं चेत्यर्थः । उभयत्राप्यस्य व्यापारादिति लक्षणं तदित्याह- सङ्कल्पयतीति सङ्कल्पकम्, इदं नेदमिति ॥
कथमिन्द्रियमित्याह- ऽइन्द्रियं च साधर्म्यात्ऽ; इत्यादि । इन्द्रियैस्तुल्यत्वादित्यर्थः । यथान्यदिन्द्रलिङ्गं तथा मनो ऽपीत्यर्थः ॥
तत्रैकस्मादहङ्कारादुत्पन्नानां कथं स्वरूपभेदः ? । यच्छ्रोत्रादिबुद्धीन्द्रियम्, तत् प्रतिनियतविषयं नेतरविषयमपि । यद्यागादि कर्मेन्द्रियं तत् प्रतिनियतकर्म, नेतरकर्मापि । मनश्चोभयात्मकम्, नैकात्मकमित्याह- ऽगुणपरिणामविशेषान्नानात्वम्ऽ; इति । अहङ्कारस्था ये गुणाः सत्त्वादयस्तेषामन्यो ऽन्याभिभवाश्रया (द्विद्वारेण यः परिणामविशेषस्तत एवैषां नानात्वम् । त एव हि गुणाः परि)णामविशिष्टा इन्द्रियव्यपदेशभाजो नानाविषया भवन्ति । कथं देशनियमो वृत्तिनियमश्च ? तत्र त्वगिन्द्रियं सर्वशरीरस्थितबाह्याभ्यन्तरवृत्ति, चक्षुःश्रोत्रघ्राणरसनानि शिरसि बहिः पृथक् पृथगवस्थितानि बाह्यवृत्तीनि । वागास्ये स्थिता । पाण्यादयश्च बाहोरधस्तात् पृथक् पृथगवस्थिता बहिःकर्मविषयाः ॥
इत्यताह- ऽबाह्यभेदाश्चऽ; इति । ये चान्ये विषयभेदा देशनियमवृतिनियमाभ्यां ते ऽपि गुणपरिणामविशेषादेव । नात्रान्तरा कारणमस्ति ॥ 27 ॥
कारिका 28
एषामिन्द्रियाणां कस्य का वृत्तिरित्याह-
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्
ऽशब्दादिषुऽ; इत्यादि । आदिशब्देन शब्दस्पर्शरूपरसगन्धाः । तेषु यथाक्रमं पञ्चानां श्रोत्रादीनां बुद्धीन्द्रियाणामालोचनमात्रं वृत्तिरिष्यते सांख्याचार्यैः । श्रोत्रादीनि हि विषयस्य प्रकाशनमात्रं कुर्वन्ति, निश्चयं तु बुद्धिः । तथा हि बुद्ध्यवसितमर्थं पुरुषः चेतयत इति सिद्धान्तः । कर्मेन्द्रियाणामपि वागादीनां यथाक्रमं वसनादानादीनि वृत्तयः कर्माणि । तत्र वागिन्द्रियस्य नानाविधवर्णोच्चारणं कर्म, आदेयस्यादानं पाण्योः, विहरणं देशान्तरगमनं पादयोः, उत्सर्ग आहारमलस्योत्सर्जनं पायोः, आनन्दनमानदो ह्लादः शुक्रविसृष्टिसंसृष्टिसुखं तदुपस्थेन्द्रियवृत्तिः ॥ 28 ॥
कारिका 29
बुद्ध्यहङ्कारमनसां का वृत्तिरित्याह-
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृतिः प्राणाद्या वायवः पञ्च
ऽस्वालक्षण्यं वृत्तिःऽ; इत्यादि । स्वात्मीयं लक्षणं यस्य तत् स्वलक्षणम् । तस्य भावः स्वालक्षण्यम् । तदेव वृत्तिः ॥
ऽत्रयस्यऽ; इति । बुद्ध्यहङ्कारमनसामित्यर्थः । अध्यवसायो बुद्धेः, अभिमानो ऽहङ्कारस्य, सङ्कल्पो मनसः । त एवाध्यवसायाभिमानसङ्कल्पास्त्रयस्य वृत्तिः । एषां च बुद्ध्यादीनां त्रयोदशानां चतुर्विधा वृत्तिः, असामान्यायुगपत्क्रमश्चेति (?) ॥
तत्र सामान्यां दर्शयितुमाह- ऽसैषाऽ; इति । येयमुक्ता वृत्तिः सैषा भवत्यसामान्या । या यस्य सा तस्यैव नान्येषामपीत्यर्थः । श्रोत्रस्य यच्छब्दप्रकाशनं तच्छ्रोत्रस्यैव, नान्येषां त्वगादीनां द्वादशानाम् । एवं सर्वत्र योज्यम् ॥
सामान्यामाह- ऽसामान्यकरणवृत्तिःऽ; इति सामान्या चासौ करणवृत्तिश्चेति सामान्यकरणवृत्तिः ॥
ऽप्राणाद्या वायवः पञ्चऽ; इति । प्राणा आद्या येषां वायूनां ते प्राणाद्याः । प्राणापानव्यानोदानसमाना इति पञ्च वायवः । तत्र प्राणो यो मुखनासिकाभ्यां निर्गच्छति । यो नाभेरधः स्थितः सो ऽपानः । येन काये ऽग्निर्दीपित आहारं च पचति स समानः । यो नाभिदेशादुद्यतशिरोगतिर्नादं जनयति स उदानः । यः सर्वशरीरं व्याप्य स्थितं स व्यानः । एते त्रयोदशानामपि करणानां सामान्यवृत्तिः ॥ 29 ॥
कारिका 30
करणप्रभाविकत्वाद्वायूनां युगपत्क्रमशो वृत्तिमाह-
युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः
ऽयुगपत्ऽ; इत्यादि । ऽचतुष्टयस्य तुऽ; इति । तुशब्दो विशेषणार्थः । बुद्धिरहङ्कारो मनश्चक्षुरित्येतस्य चतुष्टयस्यैकस्मिन् रूपे युगपद्वृत्तिः । यथान्धकारे विद्युत्संपाते कृष्णसर्पसन्दर्शने युगपदालोचनाध्यवसायाभिमानसङ्कल्पनानि भवन्ति । तथा हि चक्षुषालोचितं बुद्ध्याध्यवसितमहङ्कारेणात्मीकृतं मनसा सङ्कल्पितमिति ॥
ऽक्रमशश्च तस्यऽ; इति । चतुष्टस्यस्य क्रमेण कदाचिद्वृत्तिरिष्टा । मन्दप्रकाशे स्थाणुपुरुषोचितामूर्ध्वतां दृष्टवतः किं स्थाणुः पुरुष इति विकल्पः । तत्राकुञ्चपनप्रसारणात् पुरुष इत्यध्यवसायः । तत आत्मीकरणादभिमान इति ॥
येय(मुभय)थावृत्तिः सा कस्मिन् विषय इत्याह - ऽदृष्टेऽ; इति । अदृष्टे तर्ह नास्तीत्याह - ऽतथाप्यदृष्टेऽ; इति । तथा...ष्टे दृष्टे ऽपि वृत्तिः ॥
किन्तु न चतुष्टयस्य तर्हीत्याह- ऽत्रयस्यऽ; इति । बुद्ध्यहङ्कारमनसामित्यर्थः । तत्रापि तत्पूर्विका श्रोत्रादिपूर्विकेत्यर्थः । यथा स्मर्तव्यमनुस्मरतः सङ्कल्पाभिमानाध्यवसाया भवन्ति ॥ 30 ॥
कारिका 31
अथ यदेतच्चतुष्टयं तत्किं युगपत् परस्परसव्यपेक्षं स्वां स्वां वृतिं प्रतिपद्यते किं वा निरपेक्षमित्याह-
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहैतुकीं वृत्तिम् ।
पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्
ऽस्वां स्वाम्ऽ; इत्यादि । आत्मीयात्मीयां वृत्तिम् ॥
ऽपरस्पराकूतहैतुकीम्ऽ; इति । परस्परस्य यदाकूतं स्ववृत्तिभोगस्तदेव हेतुः । तत्र भूतां परस्पराकूतहैतुकीं वृत्तिं चत्वारि करणानि प्रतिपद्यन्ते । तत्र चक्षुर्बुद्ध्यादित्रयस्याकूतं ज्ञात्वा प्रकाशनं प्रतिपद्यते । एवं बुद्धिरहङ्कारो मनश्च त्रयाणामाकूतं ज्ञात्वा ऽध्यवसायमभिमानं सङ्कल्पनं च प्रतिपद्यन्ते । क्रमशश्च परस्पराकूतहैतुकीम् । किन्तु पूर्वपूर्वहैतुकी द्रष्टव्या । यथा कस्यचिदुपनिमन्त्रणं श्रुतवतः श्रोत्रवृत्तिं ज्ञात्वा, बुद्धिर्गमनायाध्यवसिता । तद्वृत्तिं ज्ञात्वा ऽहङ्कारो मोदकानहं भक्षयिष्यामीति मन्यते । तद्वृत्तिं ज्ञात्वा मनः, प्रचुरं घृतं प्रापयिष्यामीति किं स्तोकमिति, सङ्कल्पयतीति । एवं बाह्यान्यपि करणानि स्वां स्वां वृत्तिं परस्पराकूतहैतुकीं प्रतिपद्यन्ते ॥
एतानि किमात्मार्थं स्वां स्वां वृत्तिं प्रतिपद्यन्ते, किमन्यार्थमित्याह- ऽपुरुषार्थ एव हेतुःऽ; इति । पुरुषस्यार्थो विषयोपभोगः कैवल्यं च, स वृत्तिहेतुः ॥
नन्वीश्वरः कर्ता जगतः, स एव बुद्ध्यादिकलापं सृष्टवान् येन पुरुषस्यार्थः सम्पद्यते । तथा चोक्तम्-
ऽईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वाऽ; । इति
तत्राह - ऽन केनचित्कार्यते करणम्ऽ; इति । प्रधानव्यतिरेकेण न कश्चिद्बुद्ध्यादिकरणं स्वां स्वां वृत्तिं कारयतीत्यर्थः । यदि कर्ता स्यात्, किमिति प्रकृतिमपेक्षते । नापि सेश्वरवादिना प्रकृतिरभ्युपगतैव, निश्चेतनत्वात् प्रकृतेः सचेतनो ऽधिष्ठाता कर्ता ऽपरो गवेष्यत इति चेत्, पुरुष एवाधिष्ठाता । अचेतना प्रकृतिः । एतदुक्तमेव प्राक् ॥ 31 ॥
कारिका 32
कतिविधमन्तःकरणमित्याह-
करणं त्रयोदशविधम्, तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधा, हार्यं धार्यं प्रकाश्यं च
ऽकरणं त्रयोदशविधम्ऽ; इत्यादि । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, बुद्ध्यहङ्कारमनांसि च त्रीणि । एतत् त्रयोदशविधम् । करणं करोतीति । ऽकृत्यल्युटो बहुलम्ऽ; इति कर्तरि ल्युट् ॥
तत्र कस्य का क्रिया यदपेक्षया करणमित्याह- ऽतदाहरणधारणप्रकाशकरम्ऽ; । इति तत्करणमाहरणादीनि करोतीति । तत्र कर्मेन्द्रियाण्याहरणं कुर्वन्ति, बुद्ध्यहङ्कारमनांसि धारणम्, बुद्धीन्द्रियाणि प्रकाशमिति ॥
किं तत्कार्यं यस्याहरणं कुर्वन्तीत्याह- ऽकार्यम्ऽ; इति । तस्य करणस्य दशविधं कार्यम् । तत्र शब्दस्पर्शरूपरसगन्धाः पञ्च वचनादानविहरणोत्सर्गानन्दाः पञ्चेति दशधा । पूर्वे द्विविधाः- सूक्ष्मास्तन्मात्रलक्षणाः सुखैकस्वभावत्वाद्दिव्याः, स्थूला आकाशादयः सुखदुःखमोहत्मकत्वाददिव्या इति । एतत्कार्यं बुद्धीन्द्रियाणां प्रकाश्यम् । वागादीनामुक्त्यादानादिकर्मकर्तृत्वात् कार्यम् (?) । तत्र वाचा शब्दस्य, पाणिभ्यामादेयस्याह्रियमाणत्वादुभयमप्याहार्यम् ॥ विहार्यं विहरणस्थानम्, पूर्वावयवन्यासेनोत्तरावयवाक्रमणेन च पादाभ्यामाह्रियमाणत्वादाहार्यम् । अन्यथा कथमुत्सर्गानन्दौ स्याताम् । उभयमपि कर्मेन्द्रियाविषयम् । बुद्ध्यहङ्कारमनसां धार्यम्, तैरन्तः स्ववृत्त्यावधार्यमाणत्वात् ॥ 32 ॥
कारिका 33
तदेव त्रयोदशविधं करणं बाह्यान्तरभेदाद्द्विविधमिति दर्शयन्नाह-
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्
ऽअन्तःकरणम्ऽ; इत्यादि । करणं द्विविधम्- बाह्यमाभ्यन्तरं च । तत्र शरीरस्यान्तःस्थितत्वादन्तःकरणं त्रिविधम्- बुद्धिरहङ्कारोमनश्चेति ॥
ऽदशधा बाह्यम्ऽ; इति । दशप्रकारम् । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्दियाणि । तद्बुद्धिर्भवति ॥
तद्बाह्यं ऽत्रयस्य विषयाख्यम्ऽ; इति । त्र्यवयवस्यान्तःकरणस्य बाह्यं विषय इत्याख्यायते, तद्द्वारेण विषयावगाहनात् । तेनान्तःकरणस्य द्विविधो विषयः- द्वारं भोग्यं चेति । चतुष्टयस्य दृष्टेर्वर्तमाने त्रयस्यादृष्टे वृत्तिरुक्ता ॥
तत्रातीतानागतयोरपि विषययोः किं वृत्तिरस्ति, नेत्याह- ऽसाम्प्रतकालं बाह्यम्ऽ; इति । कल्यत इति कालः विषय एवातीतो ऽनागतो वर्तमानोश्चोच्यते । न तद्व्यतिरेकेण कालो ऽस्ति । मा भूत् षड्विंशतितत्त्वप्रसङ्ग इति । तत्र साम्प्रतो वर्तमानः कालो यस्य बाह्यस्य तद्धि बाह्यम् । श्रोत्रादि वर्तमानमेव शब्दादिकं प्रकाशयति, नातीतानागते । वागादि च वर्तमानमेवोक्त्यादानविहरणोत्सर्गानन्दान् करोति, नातीतानागतान् ॥
ऽत्रिकालमाभ्यन्तरम्ऽ; इति । त्रयः काला यस्य तत् त्रिकालम् । यथा बुद्धिर्वर्तमानमध्यवस्यति । तथातीतानागतावपि । मान्धातासीत् कल्की राजा भविष्यतीति । यथाहङ्कारो वर्तमानमभिमन्यते तथातीतानागतावपि । ममैवमासीत्, ममैवं भविष्यतीति । यथा च मनो वर्तमानं सङ्कल्पयतीति तथातीतानागतावपि । तत्र किमिदं भूतं स्यात्, न ममेति । किमिदं भविष्यति, नेतीति ॥ 33 ॥
कारिका 34
ननु च यदि स्थूलाः पृथिव्यादयस्ते विशेषाः । बाह्यं बाह्यकरणं स्वविषयं प्रतिपद्यते । पृथिव्यादयस्तर्हि भेदेन प्रतिपत्तव्या इत्याह-
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयीणि ।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयीणि
ऽबुद्धीन्द्रियाणिऽ; इत्यादि । तेषामपि त्रयोदशानां करणानां यानि पञ्च बुद्धीन्द्रियाणि, तानि विशेषाविशेषविषयीणि । शब्दादयः पञ्च विषया द्विविधाः - विशेषा अविशेषाश्च । तत्र ये सूक्ष्मास्तन्मात्रलक्षणास्ते ऽविशेषाः । ये स्थूलाः पृथिव्यादयस्ते विशेषाः । विशेषाश्चाविशेषाश्चेति द्वंद्वः । त एव विषया विद्यन्ते येषामिति मत्वर्थोपः । विशिष्टानविशिष्टांश्च विषयान् गृह्यन्तीत्यर्थः । तत्र श्रोत्रं स्थूलान् नानाशब्दानविकलान् गृह्णाति, शब्दतन्मात्रं च । नासिका स्थूलान् सुरभ्यादिगन्धान्, तन्मात्रं च गृह्णातीति ॥
ऽवाग्भवतिऽ; । केवलः शब्दो विषयो यस्याः, न विषयान्तरमित्यर्थः ॥ शेषाणि पाण्यादीनि चत्वारि, पञ्च विषयीणि । पञ्च विषया एषामिति । तत्र पाणिः शब्दस्पर्शरूपरसवन्तं घटादिकमादत्ते । पादौ शब्दादिमत्यां भूमौ विहरतः । पायुरुपस्थश्च शब्दादिमदेव मलं शुक्रं च विसृजति । अनेन द्वारेण तु सर्वं बाह्यं करणं पञ्चविषयमेव द्रष्टव्यम् । यं हि यदेवमाश्रित्य (?) स्फीतं तस्य शब्दस्पर्शरूपरसगन्धवत्त्वात्, ऽबाह्यं त्रयस्य विषयाख्यम्ऽ; इत्युक्तम् ॥ 34 ॥
कारिका 35
तत्कथं तस्य विषय इत्याह-
सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि
ऽसान्तःकरणाऽ; इत्यादि । बुद्धेरुपात्तत्वाच्छेषमहङ्कारो मनश्चान्तःकरणम् । ताभ्यां युक्ता बुद्धिः ॥
ऽसर्वम्ऽ; इति । त्रिष्वपि कालेषु व्यवस्थितं विषयमवगाहते गृह्णाति यस्मात् , तस्मात् त्रिविधमन्तःकरणं बुद्ध्यादि द्वारि भवति । द्वाराण्यस्य सन्तीति कृत्वा । शेषाणि तु बुद्धीयकर्मेन्द्रियाणि (?) द्वाराणि । एभिर्द्वारभूतैरन्तःकरणं विषयान् गृह्णाति ॥ 35 ॥
कारिका 36
ननु च यद्यन्तःकरणं बाह्यकरणद्वारेण सर्वं विषयमवगाहते, तस्मिन् किं लक्षणमित्याह-
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति
ऽएतेऽ; इत्यादि । श्रोत्रादयो वागादयो बुद्ध्यादयश्चेत्येते त्रयोदश गुणविशेषाः, त्रय एव गुणा अन्यो ऽन्याभिभवद्वारेण परिणताः श्रोत्रादिव्यपदेशभाज इत्यर्थः । प्रदीपकल्पाः, स्ववृत्त्या विषयस्य प्रकाशकत्वात् । परस्परविलक्षणाः । एकस्य या वृत्तिः स्वरूपं च, न तदितरेषामपि यदि स्यादेतेनैव विषयावगाहनं सिद्धं किमन्येन ॥
ऽकृत्स्नम्ऽ; इति । त्रैलोक्यगतं पुरुषस्यार्थं सूक्ष्मस्थूलविषयलक्षणं प्रकाश्याभिव्यक्तिं नीत्वा पश्चादहङ्कारादयो द्वादश बुद्धौ प्रयच्छन्ति, स्थापयन्तीत्यर्थः । अवगाहनफलमेतत् । तस्यां च विषयोपधानोपरक्त्यां बुद्धौ पुरुष उपलभते । तत्रेदमुच्यते - बुद्ध्याध्यवसितमर्थं पुरुष...त इति ॥ 36 ॥
कारिका 37
ननु च तुल्ये करणत्वे किमित्यहङ्कारादयो बुद्धौ प्रयच्छन्ति । प्राधान्यात्तदेव दर्शयन्नाह -
सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम्
ऽसर्वम्ऽ; इत्यादि । उपभोगमुपभोगं प्रति प्रत्युपभोगम् । देवमनुष्यतिर्यग्योनिशु यो विषयस्योपभोगस्तं प्रति सर्वं त्रैलोक्यगतविषयं पुरुषस्य साधयति, सम्पादयति । यस्माद्बुद्धिः प्रधानभूता सती नान्यः कश्चित्, तस्मात् तानि करणानि बुद्धौ प्रयच्छन्ति । (यथा ग्रामे हिरण्यादिप्रत्ययं कुटुम्बिनः प्रधानाय प्रयच्छन्ति) । प्रधानो ऽप्यासन्नवर्त्तित्वाद्भोगपतय इति ॥
ऽसैव च विशिनष्टिऽ; इति । यदा तमस्वती बुद्धिर्भवति तदा सर्वमुपनीतं सम्पादयति । यदा सत्त्वाधिका बुद्धिर्भवति, तदा ज्ञानसङ्गता प्रधानपुरुषान्तरं विशिनष्टि । प्रधानपुरुषयोर्विभागं करोतीत्यर्थः । अन्यत् प्रधानमन्यः पुरुष इति ॥
ऽसूक्ष्मम्ऽ; । सांसारिकज्ञानस्याविषयत्वात् ॥ 37 ॥
कारिका 38
विशेषाविशेषविषयिणीत्युक्तम्, तत्र के विशेषाः के ऽविशेषाश्चेत्यत्राह-
तन्मात्राण्यविशेषाः, तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः, शान्ता घोराश्च मूढाश्च
ऽतन्मात्राणिऽ; इत्यादि । सूक्ष्मविषयास्तन्मात्राणीत्युच्यन्ते । तैर्न कश्चिद्विशिष्यत इत्यविशेषाः । यथा सूक्ष्मतृणाग्रावस्थितं तेजो न लक्ष्यते, न च किञ्चित् प्रकाशयति, तद्वत् ते ऽप्यविशेषाः ॥
ऽतेभ्यो भूतानि पञ्च पञ्चभ्यःऽ; इति । तन्मात्रेभ्यः पञ्च महाभूतान्युत्पद्यन्ते ॥
ऽएते स्मृता विशेषाःऽ; इति । शब्दतन्मात्रादेकगुणमाकाशमुत्पद्यते । एवं स्पर्शादितन्मात्राद् द्वित्रिचतुःपञ्चगुणा वाय्वादय उत्पद्यन्ते । तैश्च तन्मात्राणि । विशिष्यन्त इति विशेषाः ॥
ते च किंस्वरूपा इत्याह- ऽशान्ता घोराश्च मूढाश्चऽ; इति । शान्ताः सुखप्रदाह घोरा दुःखप्रदाः, मूढा मोहप्रदा इति ॥ 38 ॥
कारिका 39
किमेतावन्त एव विषेषा उतान्ये ऽपीत्याह-
सूक्ष्मा मातापितृजाः, सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता, मातापितृजा निवर्तन्ते
ऽसूक्ष्माःऽ; इत्यादि । ये सूक्ष्मास्तन्मात्रलक्षणाः संसारिणः शरीरस्याश्रयतां गतास्ते ऽपि विशेषाः, सूक्ष्मशरीरस्यारब्धत्वात् ॥
ऽमातापितृजाःऽ; इति । मातापितृजाः षट् । तत्र मातृतो लोमलोहितमांसानि पितृतः स्नाय्वस्थिमज्जानः । ते ऽपि विशेषाः, तैः स्थूलशरीरस्य षट्कोशिकस्यारब्धत्वात् । एते द्विविधा विशेषा आध्यात्मिकाः ॥
ऽसहप्रभूतैःऽ; इति । यानि महाभूतानि बाह्यानि शान्तघोरमूढान्युक्तानि तानि स्थूलशरीरस्यावकाशव्यूहनपत्तिक्लेदनधारणकर्तृत्वेन प्रकृष्टभूतान्युच्य्न्ते । तैः सह त्रयो विशेषाः ॥
ऽसूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्तेऽ; इति । सूक्ष्मशरीरनियतं ज्ञानप्राप्तेः प्राक्, तस्य सांसरिकत्वात् । स्थूलशरीरनियतं तु निवर्तते, तस्य प्रतिमरणं पतितस्य रसभस्मनिष्ठान्तत्वात् ॥ 39 ॥
कारिका 40
यदेतत् सूक्ष्मशरीरं तत्कथमुत्पन्नमित्याह-
पूर्वोत्पन्नमसक्तं नियतम्महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्
मूल पाठ: Sāṃkhyakārikā with Śaṃkara's Jayamaṅgalā commentary · Edition: H. Sarma: Jayamaṅgalā nāma Sāṃkhyasaptatiṭīkā, Calcutta 1926 (Calcutta Oriental Series, 19) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0