भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 1-20

1

सांख्यसप्ततिटीका जयमङ्गला ॥
कारिका 1
अधिगततत्त्वालोकं लोकोत्तरवादिनं प्रणम्य मुनिम् ।
क्रियते सप्ततिकायाष्टीका जयमङ्गला नाम ॥
प्रेक्षावन्तो ऽनुक्ते प्रयोजने न क्वचित्प्रवर्तन्त इति प्रयोजनमुच्यते तत्त्वज्ञानान्मोक्षः तत्त्वानि पञ्चविंशतिः । तथा चोक्तम् -
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ इति ॥
तेषु च षष्टितन्त्रादिख्यातेष्विति । विस्तरत्वात् षष्टितन्त्रस्य संक्षिप्तरुचिसत्त्वानुग्रहार्थं सप्ततिकारम्भः । वक्ष्यति च ऽएतदार्याभिः संक्षिप्तम्ऽ; इति । मोक्षेण किं फलमिति चेद्दुःखनिवृत्तिः । अतत्त्वज्ञो दुःखैरभिहन्यमानस्संसरन्नास्ते । तत्त्वज्ञानात्तु कैवल्यमाप्नोति, न दुःखैरभिहन्यते । हन्यमानेन को हेतुर्जिज्ञासितव्य इत्यत्राह-
दुःखत्रयाभिघाताज्जिज्ञासा तदवघातके हेतौ ।
दृष्टे सापार्था चेन्नैकान्तात्यन्ततो ऽभावात्

2

ऽदुःखत्रयाभिघाताज्जिज्ञासाऽ; इत्यादि । दुःखानां त्रयं दुःखत्रयम् । आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकं चेति । आत्मन्यध्यात्मम्, तत्र यद्भवति तदाध्यात्मिकम् । शारीरं मानसं चेति । तत्र वातपित्तश्लेष्मणां वैषम्येण ज्वरादिदुःखम्, तच्छरीरे भवतीति शारीरम् । यत्कामक्रोधशोकादिभिः मनसि दुःखं तन्मानसम् । यन्मानुषपशुमृगपक्षिसरीसृपस्थावरान्यधिकृत्य भवति तदाधिभौतिकम् । यच्छरीरे ग्रहावेशादीनि दैवान्यधिकृत्य भवति तदाधिदैविकमिति । एतद्दुःखत्रयम् । तेनाभिघातात्पीडनाद्धेतोर्जिज्ञासा ज्ञातुमिच्छा भवति ॥
कस्मिन् विषय इत्याह- ऽतदवघातके हेतौऽ; इति । अवघातयत्यपनयतीत्यवघातकः । तस्य दुःखत्रयस्यावघातकस्तदवघातकः । तृजकाभ्यां षष्ठीसमासप्रतिषेधः, ऽतत्प्रयोजको हेतुश्चऽ; इति न भवति । केन खल्विमानि दुःखान्युत्पद्यन्त इति तदवघातको हेतुर्जिज्ञास्यो भवति । दुःखवानहमेतत्प्रतीकारमन्वेषयामीति प्रायोवादः । स च पञ्चविंशतितत्त्वज्ञानान्नान्य इति मनसि वर्तते ॥
ऽदृष्टे सा ऽपार्था चेत्ऽ; इति । स्यादेतत् यदि दृष्टस्तदवघातको हेतुर्न स्यात् । यावदाध्यात्मिकस्य शारीरदुःखस्यापनयने चिकित्साशास्त्रविहित एवोपायो ऽस्ति, मानसस्यापि संख्यानबलं रम्याश्च शब्दादयो विषयाः । आधिभौतिकाधिदैविकयोरपि, अवघातहेतुरनुष्ठीयमानो लोक एव दृश्यते, तयोः सत्प्रतिपक्षत्वात् । तत्राधिदैविकस्य सामदामभेददण्डोपायघटितारम्भाः । आधिभौतिकस्यापि निपातप्रतिपातसंवृतप्रदेशाश्रयणादयः ॥
ततश्च दृष्टे हेतौ सति जिज्ञासा ऽस्मिन् विषये निरर्थकेत्याशङ्क्याह- ऽनैकान्तात्यन्ततो ऽभावात्ऽ; इति । ना ऽपार्था, सार्थिकैव । कुतः- एकान्ततः एकान्तात्यन्ततो ऽभावादपि । एकान्तेनात्यन्तेन च दुःखाभावस्याभावादित्यर्थः । दृष्टे ह्युपाये क्रियमाणे ऽपि केषांचिद्दुःखत्रयं भवत्येवेति नैकान्तेनोपशमः । कथंचिदुपशमे पुनरुत्पादनात् नात्यन्तेनोपशमः । तस्मादैकान्तिकात्यन्तिकदुःखोपशमाय जिज्ञासा युक्तेति ॥ 1 ॥
कारिका 2
यद्येवमैकान्तिकात्यन्तिकदुःखोपशमहेतुर्ववेदविहितो ऽस्ति । तथा चाह-
अणम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
किमस्मान् कृणवदरातिः किमु धूर्त्तिरमृतमर्त्यस्य ॥ इति ॥
अस्यायमर्थः- इन्द्रो देवनामपण्डितानाह ऽदिव्याः किमन्यत्सुखमस्तिऽ; इति । ते तमाहुः ऽनास्तिऽ; इति । सोममपाम, सोमं पीतवन्तो वयम् । ततो ऽमृता अभूम, व्यपगतमृत्यवो जाताः । ऽअगन्म ज्योतिःऽ; इति । ज्योतिः स्वर्गो ऽयम्, तं प्राप्ता वयम् । ऽअविदाम देवान्ऽ; इति । इयन्तो देवा अस्मिन् स्वर्ग इति ज्ञातवन्तः ज्ञानमस्माकमुत्पन्नमित्यर्थः । ऽकिमस्मान् कृणवत्ऽ; इति । कृणवन्मृत्युरुच्यते । अस्मान् सोमपानान् किं मृत्युः करिष्यते । अरातिः व्याधिः सो ऽपि, धूरतिर्जरा सापि चास्माकं किं करिष्यति । ऽअमृतमर्त्यस्यऽ; इति । तस्मात् सोमपानाद्दुःखोपशमहेतुरस्तीत्यस्मिन् पूर्वपक्षे -
दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात्

3

ऽदृष्टवदानुश्रविकःऽ; इत्यादि । अनुश्रूयते पारम्पर्येणेत्यनुश्रवो वेदः श्रुवः ऽऋदोरप्ऽ; । तत्र भवो हेतुरानुश्रविकः । अध्यात्मादिः । दृष्टेन तुल्यो दृष्टवत् । तस्यापि दोषदर्शनात् ॥
यदाह - ऽस ह्यविशुद्धिक्षयातिशययुक्तःऽ; इति । यस्मादानुश्रविको हेतुरविशुद्ध्यादिभिस्त्रिभिर्दोषैर्युक्तः । तत्राग्निहोत्रादौ पशुव्यापादनात् सोमपानादविशुद्धियुक्तः । कर्मक्षयात् स्वर्गच्युतिरिति क्षययुक्तः । तथा चाहुः - ऽबहूनीन्द्रसहस्राणि व्यतीतानि युगे युगेऽ; इति । ऽस हि देवेष्वपि देवो दरिद्रातिऽ; इति । ऽईश्वरं दृष्ट्वा महद् दुःखमुत्पद्यतेऽ; इत्यतिशययुक्तः । तथाहि- यः क्रतुशतेन यजते तस्य महदैश्वर्यम्, यो द्वाभ्यां त्रिभिर्वा तस्याल्पमिति । तस्मादानुश्रविको ऽपि दृष्टवत्परित्याज्यः ॥
कस्तर्हि श्रेयानित्याह- ऽतद्विपरीतः श्रेयान्ऽ; इति । दृष्टानुश्रविकद्वारा यो विपरीतः तत्त्वज्ञानाख्यः स श्रेयान् । तस्य अकैवल्यप्रापकत्वात् । तत्रैकान्तात्यन्ततो ऽभावाद्दृष्टाच्छ्रेयान् । शरीरहानाद्धि शुद्धफलः, प्रकृतिहानादक्षयफलः, अनुत्तरत्वाच्च निरतिशयफल इत्यानुश्रविकाच्छ्रेयान् ॥
स कथं प्रोच्यत इत्यत्राह ऽव्यक्ताव्यक्तज्ञविज्ञानात्ऽ; इति । राशित्रयेण पञ्चविंशतितत्त्वानि कथ्यन्ते । तत्र महदादिभूतपर्यन्तं त्रयोविंशतिप्रकारं व्यक्तमुच्यते, तेन रूपेण प्रधानस्य व्यक्तत्वात् । अव्यक्तं प्रधानम्, केनचिद्रूपेणाव्यक्तत्वात् । जानातीति ज्ञः पुरुषः । तेषु यद्विज्ञानं स्वरूपपरिच्छेदः, तस्मात् प्राप्यत इत्यर्थः । तन्वादि हि परिच्छिद्य तदभ्यासादुत्तरकालं प्रकृतिपुरुषान्तरज्ञानमुत्पद्यते, ततश्च कैवल्यमिति । अस्या आर्याया वक्ष्यमाणा याः, सर्वा एवार्थेन भाष्यस्थानीया द्रष्टव्याः ॥ 2 ॥
कारिका 3
तत्रैषां व्यक्तादीनामुत्पादाभ्यां स्वरूपमाह-
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः

4

ऽमूलप्रकृतिःऽ; इत्यादि । प्रकृतिः प्रधानम् । प्रक्रियत उत्पद्यते प्रधानात् अस्या इति प्रकृतिः । मूलं च तत्प्रकृतिश्चेति मूलप्रकृतिः । सप्तानां प्रकृतीनां मूलमाद्यं कारणमित्यर्थः ॥
ऽअविकृतिःऽ; इति । न विक्रियत इत्यविकृतिः । न कुतश्चिदुत्पाद्यत इत्यर्थः । एतत्प्रथमं तत्त्वम् ॥
ऽमहदाद्याः प्रकृतिविकृतयः सप्तऽ; इति । महान् बुद्धिस्स आद्यो यासां प्रकृतीनां तास्तथोक्ताः । प्रकृतयश्च विकृतयश्चेति प्रकृतिविकृतयः । तत्र महानहङ्कारं जनयन् प्रकृतिः, महत उत्पद्यमानो विकृतिः । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाः पञ्च यथाक्रममाकाशवाय्वग्न्युदकपृथिव्याख्यानि भूतानि जनयन्तः प्रकृतयः, अहङ्कारादुत्पद्यमाना विकृतयः । इत्येतानि सप्त तत्त्वानि ॥
ऽषोडशकश्च विकारःऽ; इति । षोडश परिमाणमस्येति षोडशकः । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनश्चेत्येकादशेन्द्रियाणि, पञ्च महाभूतानीत्ययं षोडशको गणः । चकार एवकारार्थः । विकारो विकृतिरेव । (नास्मात् किञ्चिदुत्पद्यत इत्यर्थः । एतानि षोडश तत्त्वानि) ।
ऽन प्रकृतिर्न विकृतिः पुरुषःऽ; इति । पुरं शरीरं तस्मिन् वसतीति पुरुषः । नैरुक्तो ऽत्रविधिः । तस्मान्न किञ्चिदुत्पद्यत इति न प्रकृतिः, निष्क्रियत्वात् । नाप्ययं कुतश्चिदुत्पद्यत इति न विकृतिः, अनादित्वात् ॥ 3 ॥
कारिका 4
एषां व्यक्तादीनां सिद्धौ प्रमाणान्याह-
दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि

5

ऽदृष्टम्ऽ; इत्यादि । दृष्टं प्रत्यक्षम् । अनुमीयते येन तदनुमानम् । आप्तः क्षीणदोषस्तेन यदुच्यते तदाप्तवचनम् । आगमः । एतत् त्रिविधं प्रमाणमिष्टम् ॥
ननु चान्यान्यपि प्रतिभादीनि प्रमाणानि सन्ति तद्यथा-
प्रतिभौपम्यमैतिहासमभावस्सम्भवस्तथा ।
अर्थापत्तिरितीमानि प्रमाणान्यपरे जगुः ॥ इति ॥
अस्मिन् पूर्वपक्ष आह- ऽसर्वप्रमाणसिद्धत्वात्ऽ; इति । सर्वेषां प्रतिभादीनां प्रमाणानां सिद्धत्वात्, त्रिविध एवान्तर्भावादित्यर्थः । तत्र ग्रामे नगरे वा वर्तत इति प्रतिभोत्पन्ना । तत्र यदा क्षीणदोषस्य, तदाभिज्ञप्राप्तत्वात् प्रत्यक्षमेव । तस्याक्षीणदोषस्य वितथत्वादप्रमाणम् । याप्यर्थाविसंवादिनी कादाचित्का, सापि कादाचित्कादेव निमित्तादुत्पद्यमानानुमानमेव न प्रमाणान्तरम् । ऽगौरिव गवयःऽ; इत्यौपम्यम् । तत्र गवयमजानानः कश्चिदाप्तं पृच्छति ऽकीदृशो गवयःऽ, इति । स तमाह- ऽयादृशो गौस्तादृशो गवयःऽ; इति । तदेतदाप्तवचनमेव न प्रमाणान्तरम् । यदापि लब्धोपदेशो गवयं पश्यति, तदापि गवि दृष्टेनैव विषाणादिना लिङ्गेन गवयस्य व्यवहारं प्रवर्तयतीत्यनुमानमेव न प्रमाणान्तरम् । ऽइतिह वै वैश्रवणःऽ; इत्यैतिह्यम् । एतदाप्तवचनमेव न प्रमाणान्तरम् । ऽइतिहऽ; इति निपातसमुदाय उपदेशपारम्पर्ये वर्तेते । इतिह एवैतिह्यम् । स्वार्थे यञ् । ऽनास्तीह घटो ऽनुपलम्भात्ऽ; इत्यभावः । तत्र घटशून्यप्रदेश एव घटाभावः, स च प्रत्यक्षप्रमाणसिद्धत्वान्न प्रमाणान्तरम् । ऽमाषः प्रस्थ इत्युक्ते चत्वारः कुडपा इतीदमपि सम्भवतिऽ; इत्ययं सम्भवः । तत्र समुदायलिङ्गावयवलिङ्गिनः परिच्छेदादनुमानमेव । अवयवैस्समुदायस्यारब्धत्वात् कार्यकारणलक्षणः सम्बन्धः । ऽदेवदत्तो दिवा न भुङ्क्ते बलवांश्चेत्युक्त अर्थाद्रात्रौ भुङ्क्तेऽ; इत्यर्थापत्तिः । तत एव रात्रौ तस्य प्रतीतिरनुमानान्न भिद्यते । इदमेव चान्यथानुपपत्तिरित्युच्यते ॥
किं प्रमाणत्रयलक्षणे प्रयोजनमिति चेदाह- ऽप्रमेयसिद्धिः प्रमाणाद्धिऽ; इति । यस्मात् प्रमेयस्यार्थस्य सिद्धिः प्रमाणात्, अन्यथा कथं तत्प्राप्तिपरिहारौ स्याताम् ॥ 4 ॥
कारिका 5
दृष्टादिप्रमाणानां लक्षणमाह-
प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकम्, आप्तश्रुतिराप्तवचनं च

6

ऽप्रतिविषयाध्यवसायःऽ; इत्यादि । विषयं विषयं प्रतिविषयम्, प्रतिविषयमध्यवसायः प्रतिविषयाध्यवसायः । विषयाः शब्दादयः, अध्यवसायो बुद्धिः । शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणेन्द्रियद्वारेण विशेषावधारणप्रधाना या बुद्धिरुत्पद्यते तद् दृष्टम्, शुद्धत्वात्प्रमाणमशुद्धत्वादप्रमाणम् । तच्चतुर्विधम्- सव्यपदेशम्, सविकल्पम्, अर्थव्यतिरेकीन्द्रियव्यतिरेकी चेति । तत्र दूरात् क्वचिदागच्छन्तं दृष्ट्वा देवदत्तसारूप्यं व्यपदिशति देवदत्तो ऽयमिति या बुद्धिरुत्पद्यते तत्सविकल्पम्, संशयितत्वादप्रमाणम् । तैमिरिकस्य द्विचन्द्रदर्शनं तदर्थव्यतिरेकि, द्वितीयचन्द्राभावात् । यत्स्वप्नदर्शनं तदिन्द्रियव्यतिरेकि, निद्रोपप्लुतत्वादिन्द्रियाणाम् ॥
ऽत्रिविधमनुमानमाख्यातम्ऽ; इति । षष्टितन्त्रे व्याख्यातम्- पूर्ववत्, शेषवत्, सामान्यतोदृष्टमिति । अतीतानागतवर्त्तमानास्त्रयः पदार्थाः । तत्र भविष्यदर्थसाधनाय पूर्ववदनुमानम् । पूर्वं लिङ्गमस्यास्तीति पूर्ववत् । यथोन्नतजलधरं दृष्ट्वा वृष्टिर्भविष्यतीत्यनुमीयते । अतीतार्थसाधनाय शेषवत्- शेषं लिङ्गमस्यास्तीति । यथास्या नद्या उपरि वृष्टिर्भूता, यस्याः कलुषोदकं शेषं लिङ्गमिति । वर्त्तमानार्थसाधनाय सामान्यतोदृष्टम्- सामान्येन लिङ्गलिङ्गिदृष्टत्वात् । यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिर्दृष्टा, तथा सूर्यादीनां सामान्येन देशान्तरप्राप्त्या गतिरनुमीयते ॥
ऽतल्लिङ्गलिङ्गिपूर्वकम्ऽ; इति । त्रिविधमनुमानम् । कदाचिल्लिङ्गपूर्वकं कदाचिल्लिङ्गिपूर्वकं लोके दृश्यते । तद्यथा- श्राव्येण विरुतेन कदाचित्कोकिलो ऽनुमीयते, कदाचित्कोकिलं लिङ्गिनं दृष्ट्वा श्राव्येणापि विरुतेनास्य भवितव्यमिति तयोर्गम्यगमकत्वं सति सम्बन्धे । सम्बन्धाश्च सप्त- तत्र स्वस्वामिभावसम्बन्धो यथा राजपुरुषयोः कदाचित्पुरुषेण राजा राज्ञा वा पुरुषः । एवं प्रकृतिविकारसम्बन्धो यथा यवसक्तोः । कार्यकारणसम्बन्धो यथा धेनुवत्सयोः । पात्रपात्रिकसम्बन्धो यथा परिवृट्त्रिविष्टब्धयोः । साहचर्यसम्बन्धो यथा चक्रवाकयोः । प्रतिद्वन्द्विसम्बन्धो यथा शीतोष्णयोः । तत्रैकस्य भावे ऽन्याभावः प्रतीयते । निमित्तनैमित्तिकसम्बन्धो यथा भोज्यभोजकयोरिति । एभिस्सम्बन्धैस्त्रिविधमनुमानं प्रमाणन्न लुप्यते ॥
ऽआप्तश्रुतिराप्तवचनं चऽ; इति । आप्तः क्षीणदोषः । यच्चाहुः-
स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः ।
निर्वैरः पूजितः सद्भिराप्तो ज्ञेयः स तादृशः ॥ इति ॥
आप्तेभ्यो या श्रुतिपरम्परया श्रुतिरागता आप्तवचनम्, तैर्दृष्टो ऽनुमितो वार्थः, परत्र स्वबोधसदृशबोधान्तरोत्पत्तये शब्देनोपदिश्यते । यदन्यवचनं सो न प्लवते (?) । चशब्दो ऽनुमानेन तुल्यकक्ष्यत्वख्यापनार्थः । यथा त्रिकालमविषयमन्मानं तथाप्तवननमपीति ॥ 5 ॥
कारिका 6
एषां त्रयाणां कः कस्य विषय इत्यत आह-
सामान्यतस्तु दृष्टादतीन्द्रियाणाम्प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्

7

ऽसामान्यतस्तुऽ; इत्यादि । त्रिविधं प्रमेयम्- प्रत्यक्ष्म्, परोक्षम्, अत्यन्तपरोक्षं चेति । तत्र यत्सामान्यतोदृष्टमनुमानं तस्मादतीन्द्रियाणां परोक्षाणां प्रसिद्धिरस्ति । तन्निश्चयः, तेषां प्रत्यक्षविषयत्वात् । पूर्ववच्छेषवतोस्त्वमनुमानयोर्भविष्यद्भूतार्थवृत्तित्वाद्वर्त्तमानेष्वतीन्द्रियेषु च प्रवृत्त्यसम्भवः ॥
ऽतस्मादपि चासिद्धम्ऽ; इति । सामान्यतोदृष्टादनुमानाद्यदसिद्धं परोक्षम्, तदत्यन्तपरोक्षत्वादागमात्सिद्धम् । यथा स्वर्गापवर्गाविति । प्रत्यक्षे तु प्रमेये दृष्टमेव व्याप्रियत इत्यर्थादुक्तम् ॥ 6 ॥
कारिका 7
ननु च ऽव्यक्ताव्यक्तज्ञविज्ञानात्ऽ, व्यक्तं तावत् प्रत्यक्षानुमानाभ्यां सिद्धम्, प्रधानपुरुषयोस्तु सर्वदानुपलम्भात् कथं सिद्धिर्नस्तयोरिति नानुपलब्धिमात्रेणासत्त्वम् । यतश्चतुर्भिः प्रकारैः सतामपि पदार्थानामुपलब्धिर्भवति । देशदोषादिन्द्रियदोषाद्विषयदोषादर्थान्तरदोषाच्च । तानेव भेदेन दर्शयन्नाह-
अतिदूरात्सामीप्यादिन्द्रियघातान्मनो ऽनवस्थानात् ।
सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च

8

ऽअतिदूरात्ऽ; इत्यादि । यथा दूरमुत्पतितस्य पक्षिणो नोपलब्धिः ॥
ऽसामीप्यात्ऽ; इति । अतिशब्दो ऽत्रापि योजनीयः । अतिसामीप्यादिति । यथा चक्षुःस्थस्याञ्जनस्य । उभयत्रापि देशदोषकृतानुपलब्धिः ॥
ऽइन्द्रियघातात्ऽ; इति । श्रोत्रादीनां बुद्धीन्द्रियाणां दोषाद्योग्यदेशावस्थितानामपि शब्दादीनामनुपलब्धिः ॥
ऽमनो ऽनवस्थानात्ऽ; इति । मनसो ऽनवस्थानमसमाहितता, विषयान्तरप्रवृत्तत्वात् । ततश्चानुपहतेन्द्रिये ऽपि सन्निहितं विषयं नोपलभते । उभयत्रापीन्द्रियदोषादनुपलब्धिः । मनसो ऽपीन्द्रियत्वाद् भेदेनोपादानं तु मनसः प्राधान्यार्थम् ॥
ऽसौक्ष्म्यात्ऽ; इति । विषयदोषात् । विषय एव परमाण्वादिस्तथा, येनाव्यग्रमनसा ऽप्यनुपहतेन्द्रियेण नोपलभ्यते ॥
ऽव्यवधानात्ऽ; इति । यवनिकादिभिस्तिरोधानात् स्थूला अप्यविकृष्टा घटादयो नोपलभ्यन्ते ॥
ऽअभिभवात्ऽ; इति । आदित्यप्रभाभिभूतत्वात् दिवा तारका नोपलभ्यन्ते ॥
ऽसमानाभिहाराच्चऽ; इति । सदृशानां राशीकरणात् धान्यराशौ ह्येको धान्यगुडकः प्रक्षिप्तो न दृश्यते । त्रिष्वप्यर्थान्तरदोषादनुपलब्धिः । नत्वेत अनुपलभ्यमाना न सन्ति ॥ 7 ॥
कारिका 8
यद्येवं केन प्रकारेण सतोरपि प्रधानपुरुषयोरनुपलब्धिरित्याह-
सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च

9

ऽसौक्ष्म्यात्तदनुपलब्धिःऽ; इत्यादि । प्रकारान्तराभावात् सूक्ष्मत्वात्सतोरपि तयोरनुपलब्धिः । नन्वभावादेव कस्मादनुपलब्धिर्न भवति । यथा घटस्योत्पत्तेः प्राक् मृत् शरादिषु.... तस्य प्रध्वंसाभावात्, गवि वाश्वत्वस्याश्वत्वे वा गोत्वस्येतरेतराभावात्, वन्ध्यासुतस्य वात्यन्ताभावादित्याह- ऽनाभावात्ऽ; इति । चतुर्विधादित्यर्थः ॥
यद्येवं कथं तौ स्त इति गम्यत इत्याह- ऽकार्यतस्तदुपलब्धेःऽ; इति । यद्यप्यत्रोभयं प्रक्रान्तं तथापि तच्छब्देन प्रधानं निर्दिश्यते । प्रधानस्यास्तित्वप्रतिपत्तिः कार्यादित्यर्थः । पुरुषस्यास्तित्वप्रतिपत्तौ हेतुं वक्ष्यति ॥
किं तत्कार्यमित्याह- ऽमहदादि तच्च कार्यम्ऽ; इति । महान् बुद्धिः स आदिर्यस्य तन्महदादिभूतपर्यन्तं कार्यमस्ति । तत् प्रधानम्, यस्येदं महदादिकार्यं व्यक्तम्, अकारणस्य कार्यस्यानुत्पादात् ॥
ऽप्रकृतिसरूपं विरूपं चऽ; इति । तद्व्यक्तं प्रकृतेः प्रधानस्य सदृशमसदृशं चेत्यर्थः । एतदुत्तरत्र योजयिष्यते ॥ 8 ॥
कारिका 9
तत्कार्यं कारणादुत्पद्यमानं सदुत्पद्यते, किमसत्, किं वा सदसदिति? तत्र विरुद्धधर्माध्यासितत्वात्सदसन्नोपपद्यते । असदिति वैशेषिकाः । अत्र दूषणमाह-
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
श्क्तस्य शक्यकरणात्, कारणभावाच्च सत्कार्यम्

10

ऽअसदकरणात्ऽ; इत्यादि । इह लोके असतः करणं नास्ति, यथा शशविषाणादीनाम् । यदेव सत् घटादिद्रव्यं तदेव मृत्पिण्डादिना कारणविशेषेण क्रियते, नासत् ॥
ऽउपादानग्रहणात्ऽ; इति । इह यदर्थं यदुपादीयते तस्य तदुपादानं कारणम्, यथा तैलस्य तिलाः, दध्नः क्षीरम् । अत्र तैलं दधि च यदि न स्यात् कथं तस्योपादानस्य ग्रहणं तदर्थिभिः क्रियते । तस्मादुपादानसंग्रहात् सदेव कार्यम् । अन्यथा सिकतासलिलयोरपि ग्रहणं स्यात् ॥
ऽसर्वसम्भवाभावात्ऽ; इति । यद्यसत्कार्यं भवेत् तदा सर्वस्य सर्वत्र सम्भवः स्यात् । न चैवम् । तस्मात्सदेव कार्यम् ॥
ऽशक्तस्य शक्यकरणात्ऽ; इति शक्तं कारणं नाशक्तमित्येवमप्यवगन्तव्यम् । अन्यथोपहतशक्तर्बीजाङ्कुरोत्पत्तिप्रसङ्गः । शक्तश्च को भवितुमर्हति, यः शक्तिमान् । तस्य शक्तिमतः शक्यस्य करणात्, शकनीयस्य कार्यस्योत्पादनादित्यर्थः । एवं च तच्छकनीयं यदि कारणे शक्तिरूपेणावस्थितं स्यात् । तस्मात्सदेवोत्पद्यते नासत् ॥
ऽकारणभावाच्चऽ; इति । कारणस्य सत्त्वादित्यर्थः । यद्यसत्कार्यमुत्पद्यते किमिति कारणभावेन कार्यस्य भावो भवति । भवति च । तस्माच्छक्तिरूपेणावस्थितमिति गम्यते । अथवा- कारणभावादिति कारणस्वभावात् । यत्स्वभावं कारणं तत्स्वभावं कार्यम्, यथा स्निग्धस्वभावस्तिलेभ्यः स्निग्धमेव तैलम्, मृतो मृत्स्वभावो घटः । यद्यसत्कार्यं स्यात्, असत्स्वभावेभ्यो ह्युत्पाद्येतेत्येवं सांख्यानां सदेवोत्पद्यत इति सिद्धान्तः ॥ 9 ॥
कारिका 10
एवं महदादिकार्यं सदेवोत्पद्यत इति व्यवस्थाप्य प्रकृतेविरूपं सरूपं च दर्शयति । तत्र प्रकृतेर्विरूपमधिकृत्याह-
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम्

11

ऽहेतुमत्ऽ; इत्यादि । व्यक्तं महदादिभूतपर्यन्तम् । अव्यक्तं प्रधानं तत्र व्यक्तं हेतुमत्, यथास्वं कारणेभ्य उत्पद्यमानत्वात् । तत्र प्रधानादुत्पद्यमानो महान् हेतुमान्, महतो ऽहङ्कारो हेतुमान्, अहङ्कारात्तन्मात्राण्येकादशेन्द्रियाण्युत्पद्यमानानि हेतुमन्ति च, तन्मात्रेभ्यश्च महाभूतानि हेतुमन्ति । विपरीतमव्यक्तमहेतुमदित्यर्थः, तस्यान्यतः कुतश्चिदनुत्पादात् । नहि प्रधानाकिंचिदपरमस्ति यतस्तदुत्पद्यते ॥
अनित्यं व्यक्तम्, कारणेभ्य उत्पन्नत्वात् घटादिवत् । कारणानि च प्रागुक्तान्येव । विपरीतमव्यक्तं नित्यमित्यर्थः, कुतश्चिदनुत्पन्नत्वात् ॥
अव्यापि व्यक्तं प्रादेशिकमित्यर्थः । दैवं मानुषं तैर्यग्योनं च, तदानीमन्यत्रावर्तमानत्वात् । सर्वगतं विपरीतमव्यक्तं व्यापीत्यर्थः, देवादिषु त्रिषु लोकेषु सर्वदा वर्तमानत्वात् ।
ऽसक्रियम्ऽ; इति । क्रियाशब्देनात्र संसरणमभिप्रेतम्, न क्रियामात्रम् । महदादिसूक्ष्मपर्यन्तं व्यक्तं देवादि संसरतीत्यर्थः । विपरीतमव्यक्तम्, असंसारि । त्रिषु लोकेषु स्थितत्वान्न संसरति । न पुनः क्रियैव नास्तीति निष्क्रियम्, तस्य जगत्कर्तृत्वात् ॥
अनेकं व्यक्तम्, महदादिभूतपर्यन्ततायास्त्रयोविंशतिप्रकारत्वात् । विपरीतं व्यक्तम्, त्रयाणां लोकानां तस्यैकस्य कारणत्वात् ॥
ऽआश्रितम्ऽ; इति । यद्यस्मादुत्पन्नं महदादि व्यक्तं तदेव तदाश्रितं नान्यत् । उत्पन्नमन्यदाश्रितमिति दर्शनार्थं वचनम्, अन्यथा हेतुमदित्यनेनैवाश्रितं सिद्धमेव । विपरीतमव्यक्तम्, अनाश्रितम् । ततो ऽन्यस्य कारणस्याभावात् ॥
ऽलिङ्गम्ऽ; इति । लिङ्ग्यते ऽनेनाव्यक्तमिति लिङ्गम् । विपरीतमव्यक्तम्, न लिङ्ग्यते किञ्चिदनेनेति । अथवा लयं गच्छतीति लिङ्गम् ।
प्रलयकाले ह्याकाशादयः पञ्च यथाक्रमं शब्दादितन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो महति, महान्प्रधान इति । विपरीतमव्यक्तम्, न कुत्रचिदिदं लीयते, अहेतुत्वात् ॥
ऽसावयवम्ऽ; इति । शब्दादयो ऽवयवा उच्यन्ते । तैराध्यात्मिकं बाह्यं च व्यक्तं युक्तम् । विपरीतमव्यक्तम्, तैरयुक्तत्वात् ॥
परतन्त्रम् । न स्वतन्त्रम् । यदस्मादुत्पद्यते तदेवानुरुद्ध्य स्वकार्यं जनयति न तद्व्यतिरेकेणेति दर्शनार्थम् । अन्यथा हेतुमदित्यनेनैव परतन्त्रत्वं प्रसिद्धमेव । विपरीतमव्यक्तम्, स्वतन्त्रं न किंचिदपेक्षते ॥ 10 ॥
कारिका 11
सारूप्यमधिकृत्याह-
त्रिगुणमविवेकि विषयः सामान्यमचेतनम्प्रसवधर्मि ।
व्यक्तं, तथा प्रधानम्, तद्विपरीतस्तथा च पुमान्

12

ऽत्रिगुणम्ऽ; इत्यादि । त्रयस्सत्त्वादयो गुणा यस्य तत्त्रिगुणं व्यक्तम् । तथा प्रधानमपि त्रिगुणं तत्स्वभावत्वात् ॥
ऽअविवेकिऽ; इति । अविवेचनशीलं व्यक्तम्, अचेतनत्वात् । यद्वा गुणेभ्यस्तस्य पृथक्त्वाभावादविवेकि । तथा प्रधानमपि ॥
सामान्यं व्यक्तम्, सर्वपुरुषोपभोग्यत्वान्मल्लदासीवत् । तथा प्रधानमपि ॥
अचेतनं व्यक्तम्, सुखदुःखमोहान्न वेदयतीत्यर्थः । तथा प्रधानमपि ॥
ऽप्रसवधर्मिऽ; इति । प्रसवो धर्मो ऽस्यास्तीति प्रसवधर्मि व्यक्तम् । तथा प्रधानमपि । द्वयोरपि प्रसवधर्मित्वम् ॥
तथा च प्रधानान्महान्, महतो ऽङ्कार इत्यादिना स्वकार्योत्पादनधर्मत्वाद्यथा व्यक्ताव्यक्तयोर्वैरूप्यं सारूप्यं च, तथा किं पुरुषस्य वापीत्याह- ऽतद्विपरीतस्तथा च पुमान्ऽ; इति । व्यक्ताव्यक्ताभ्यां कैश्चिद्धर्मैर्विलक्षण इत्यर्थः ॥
अत्र पूर्वस्या आर्याया अर्थो योज्यते । हेतुमद्व्यक्तम्, अहेतुमदव्यक्तम् । पुरुषो ऽप्यहेतुमान्, तस्य कुतश्चिदनुत्पादात् ॥
अनित्यं व्यक्तम्, नित्यमव्यक्तम् । पुरुषो नित्यः, कुतश्चिदनुत्पन्नत्वात् ॥
अव्यापि व्यक्तम्, व्याप्यव्यक्तम् । पुरुषो ऽपि व्यापी यदा प्रकृत्या मुक्तः । युक्तश्चेत्, व्यक्तेन सदृशो न प्रधानेन । हि सर्वदा देवादिषु प्रवर्तते ॥
सक्रियं व्यक्तम्, निष्क्रियमव्यक्तम्, असंसारित्वात् । पुरुषो ऽपि निष्क्रियः, कर्तृत्वाभावात् ॥
अनेकं व्यक्तम्, एकमव्यक्तम् । पुरुषो ऽनेको बहुत्वात् । तस्य बहुत्वं प्रतिपादयिष्यति । प्रधानेनात्र वैसादृश्यं तस्यैकत्वात् ॥
आश्रितं व्यक्तम्, अनाश्रितमव्यक्तम् । पुरुषो ऽप्यनाश्रितः कुतश्चिदनुत्पन्नत्वात् ॥
लिङ्गं व्यक्तम्, अलिङ्गमव्यक्तम् । पुरुषो ऽप्यलिङ्गः । न किंचिदनेन लिङ्ग्यते न वायं कदाचिल्लीयते ऽनुत्पन्नत्वात् ॥
सावयवं व्यक्तम्, निरवयवमव्यक्तम् । पुरुषो ऽपि निरवयवः शब्दादिभिरयुक्तत्वात् ।
परतन्त्रं व्यक्तम्, स्वतन्त्रमव्यक्तम् । पुरुषो ऽपि स्वतन्त्रः, कुतश्चिदनुत्पन्नत्वात् ॥
द्वितीयस्या आर्याया अर्थो योज्यते-
त्रिगुणं व्यक्तमव्यक्तं च । निर्गुणः पुरुषः, गुणानां तत्राभावात् ॥
अविवेकि व्यक्तमव्यक्तं च । विवेकी पुरुषश्चेतनत्वात् । विविक्तो वा निर्गुणत्वात् ॥
विषयो व्यक्तमव्यक्तं च । पुरुषो निर्विषयः, भोक्तृत्वात्, न भोग्यः ॥
सामान्यं व्यक्तमव्यक्तं च । पुरुषो ऽसामान्यः, अविषयत्वात् ॥
अचेतनं व्यक्तमव्यक्तं च । चेतनः पुरुषः सुखादिवेदनत्वात् ॥
प्रसवधर्मि व्यक्तमव्यक्तं च । पुरुषो ऽप्रसवधर्मी, अकर्तृत्वात् । इत्युक्तम् ॥ 11 ॥
कारिका 12
त्रयाणामपि वैरूप्यं सारूप्यं चेति त्रिगुणमित्युक्ते, के के त्रयो गुणाः किमात्मका इत्याह-
प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः

13

ऽप्रीत्यप्रीतिविषादात्मकाःऽ; इत्यादि । प्रीत्यादय आत्मानो येषां गुणानां ते तथोक्ताः सत्त्वरजस्तमांसि त्रयो गुणाः । तत्र प्रीत्यात्मकं सुखात्मकं सत्त्वम्, अप्रीत्यात्मकं दुःखात्मकं रजः, विषादात्मकं मोहात्मकं तमः । गुणा ह्यतीन्द्रियत्वात्परिणत्या सुखादिनानुमीयमानास्तदात्मका इति व्यपदिश्यन्ते ॥
किं पुनरेषां प्रयोजनमित्याह- ऽप्रकाशप्रवृत्तिनियमार्थाःऽ; इति । प्रकाशार्थं सत्त्वं प्रकाशकत्वात्, प्रवृत्त्यर्थं रजश्चलत्वात्, नियमार्थं तमः स्तिमितत्वात् ॥
किमिति ते गुणाः परस्परसव्यपेक्षाः किं वा नेत्याह- ऽअन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाःऽ; इति । अन्यो ऽन्यशब्दः प्रत्येकमभिसम्बद्ध्यते । अभिभवतीत्यभिभवः । पचाद्यच् । अन्यो ऽन्यस्याभिभवा अन्यो ऽन्याभिभवाः । तद्यथा देवेषु सत्त्वमुद्रिक्तं रजस्तमसी अभिभवति, मनुष्येषु रजः सत्त्वतमसी, तिर्यक्षु (तमः सत्त्वरजसी) । आश्रीयन्त इत्याश्रयाः । कर्मण्यण् । अन्यो ऽन्यस्याश्रयाः, त्रिदण्डवत् । नाश्रयान्तरमेषाम्, अनाश्रयाश्च कर्तारः । जनयन्तीति जननाः । ऽकृत्यल्युटो बहुलम्ऽ; इति कर्तरि ल्युट् । अनेकार्थत्वात् च धातूनां बोधनार्था द्रष्टव्याः । अन्यो ऽन्यस्य प्रबोधका इत्यर्थः । सर्वं हि व्यक्तमुत्पद्यमानं त्रिगुणात्मकमुत्पद्यते । तत्र यदा सत्त्वमुत्कटं तदा रजस्तमसी न्यक्कृतशक्तिके । प्रबोध्यायस्कान्तो लोहवदुक्तम् (?) । सत्वन्यत्कृतेन गुणेन व्यक्तं जनयति (?) एवं रजस्तमश्च योज्यम् । यदा गुणद्वयमुद्भूतशक्ति तदा द्वयमपीतरदभिभवति, प्रबोधयतीत्यर्थः । अन्यो ऽन्यमिथुना इति । अन्यो ऽन्यस्य सहाया इत्यर्थः । तथा चोक्तं विष्णुगीतायाम्-
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।
उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥
एकस्यां व्यक्तौ त्रयाणामभिभवप्रबोधनानुक्तौ व्यक्तम्, इतरे तु तौ एव प्रवृत्तिं जनयन्त इति दर्शयन्नाह- अन्यो ऽन्यवृत्तय इति । वृत्तिः सुखादिरूपेण परिणतिः । वृतिहेतुत्वाद् वृत्तय उच्यन्ते । अन्योन्यवृत्तिहेतव इत्यर्थः । तद्यथा काचिद्योषिद्रूपशीलदत्यन्तगुणा (!) सितत्वात्सात्त्विकी सा भर्त्तुः सुखमुत्पादयति सपत्नीनां कासांचिद्दुःखं कासांचिद्विषादमित्यत्र सत्त्वमात्मनो द्वयोश्च वृत्तिहेतुः । कस्यचित्प्रभोरत्यन्तशूरत्वाद् भृत्या राजसाः, परेषां युध्यमानानां प्रहारैर्दुःखं जनयन्ति, पलायमानानां विषादम्, स्वामिनश्च तुष्टिमित्यत्र रज आत्मनो द्वयोस्च वृत्तिहेतुः । मेघांश्चाम्बुगु.....वानिषान्धकारीकृत्योन्नतत्वात् (?) तामसाः, ते वर्षन्तः प्रोषितभर्तृकाणां विषादं जनयन्ति, पथिकानां दुःखम् कृषीवलानां तुष्टिमित्यत्र तम आत्मनो द्वयोश्च वृत्तिहेतुः ॥ 12 ॥
कारिका 13
एषां दुर्लक्षणानां लक्षणान्तरमाह-
सत्त्वं लघु प्रकाशकमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः

14

ऽसत्त्वम्ऽ; इत्यादि । इष्टं सांख्याचार्याणां सत्त्वं लघुस्वभावं प्रकाशं च । यस्योद्रेकाच्छरीरें ऽशानि लघूनि भवन्ति, विषयप्रकाशनसमर्थानि चेन्द्रियाणि । बाह्यानि च द्रव्याणि लघूनि प्रकाशात्मकानि निर्मलानि भवन्ति ॥
ऽउपष्टम्भकं चलं च रजःऽ; इति । उपष्टम्भयतीत्युपष्टम्भकम् । यस्योद्रेकाद् देवदत्तो व्यवस्यति, चलचित्तश्च भवति । बाह्यानि चलानि भवन्तीति ॥
ऽगुरु वरणकमेव तमःऽ; इति । वृणोति पिधत्त इति । ऽकृत्यल्युटो बहुलम्ऽ; इति कर्तरि ल्युट्, करणे वा । पश्चात् स्वार्थे कन् । यस्योद्रेकाद् गुरूण्यङ्गानि भवन्ति, इन्द्रियाणि च तमसैवात्तानि भवन्ति । बाह्यानि च गुरूण्यनिर्मलानि च भवन्ति ॥
उदाहरणदिगियमन्यान्यपि विज्ञेयानि भवन्ति । तथा चाहुः- प्रीतिप्रीति(?)स्वाभिषङ्गलाघवानि प्रसादहर्षौ च, स्तम्भौद्धत्यद्वेषचलनशोषणतापभेदाश्च, वरणापध्वंसनसादनगौरवदैन्यभीतयश्चैतानि सत्त्वरजस्तमसां क्रमेण ज्ञातव्यानि लिङ्गानि ॥
ननु चैते परस्परविलक्षणा गुणा विरुद्धत्वात् कथं सम्भूयैकत्र वर्तन्त इत्याह- ऽप्रदीपवच्चार्थतो वृत्तिःऽ; इति । प्रदीपस्येव प्रदीपवत् । तैलवर्त्त्यग्निसमुदायः प्रदीपः । यदा समुदायात्म.....परस्परविलक्षणानामपि प्रदीपभा...प्रवृतिः, तमसि स्थिता घटादयो देवदत्तस्य प्रकाशयितव्या इति, तथा सत्त्वरजस्तमसां पुरुषार्थहेतुना प्रवृत्तिः, पुरुषार्थशब्दोपलब्धिश्चेति ॥ 13 ॥
कारिका 14
ननु च ऽत्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि व्यक्तम्ऽ, तत्र सुखदुःकमोहोपलब्धेस्त्रैगुण्यं व्यक्तं सिद्धम्, अविवेक्यादयो धर्माः प्रसवपर्यन्ताः कथं सिद्ध्यन्तीत्याह-
अविवेक्यादिस्सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम्

15

ऽअविवेक्यादिः सिद्धःऽ; इत्यादि । गुणिद्वारेण गुणाभिधानम् । अविवेक्यादिगुणस्सिद्धः । व्यक्त इति वाक्यशेषः ॥
कुतः? त्रैगुण्यात् । कथं? यस्माद्गुणा एवाविवेकिनो भोग्यास्सामान्या अचेतना प्रसवधर्मिणश्च, ते च व्यक्ते सिद्धा इति सिद्धो गुणः ॥
ऽतद्विपर्ययाभावात्ऽ; इति । (त्रैगुण्यस्याभावादिति) । त्रैगुण्यस्याभावे ऽविवेक्यादयोरभावात् । न हि निर्गुणस्य पुरुषस्याविवेक्यादिः सम्भवति । तस्मात्त्रैगुण्यादेवाविवेक्यादिस्सिद्धः ॥
एवं च सति, प्रधानमपि त्रैगुण्यात्तथाविधं सिद्धम् । यदाह- ऽकारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम्ऽ; इति । कारणस्य यो गुणः स आत्मा स्वभावो यस्य तत्तथोक्तम् । तस्य स्वभावस्तत्त्वम् । तस्मादिह लोके कारणगुणकं कार्यं दृष्टम् । शुक्लैः कृष्णैर्वा तन्तुभिरारब्धः पटः शुक्लः कृष्णो वा भवति । यद्यव्यक्तं तथाविधं न स्यात्, कथं व्यक्तं तथाविधं भवेत् ॥ 14 ॥
कारिका 15
ननु च सति धर्मिणि धर्माश्चिन्त्यन्ते, प्रधानस्यैव धर्मिणो ऽलब्धसिद्धित्वात् कथमविवेक्यादीत्याह-
भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य

16

ऽभेदानाम्ऽ; इत्यादि । कार्यतस्तदुपलब्धेर्महदादि तच्च कार्यमित्यनेनैव साधिते ऽस्मिन् यथावदधिगते पुनर्दार्ढ्यार्थं समनन्तरोपादानम् । भिद्यन्त इति भेदाः कार्यविशेषास्तेषां (एकस्संसर्गी दृष्टः) परिमाणाच्च । भेदानां परिमितत्वादित्यर्थः । येन च परिमितास्तेषामेकः संसर्गी दृष्टः । यथा मूलाङ्कुरपत्रकाण्डप्रसवपुष्पतण्डुलकणानां भेदानां व्रीहिः तविबाह्याध्यात्मिकभेदाः । परिमितबाह्या ब्रह्मादिस्तम्बपर्यन्ताश्चतुर्दश । आध्यात्मिकाश्च महदहङ्कारतन्मात्रेन्द्रियभूताख्यास्त्रयोविंशतिः । तस्मादेतेषामेकेन संसर्गिणा भवितव्यम् । यत्रैषां संसर्गस्तदव्यक्तं कारणमस्तीति सामान्यतोदृष्टमनुमानम् ॥
ऽसमन्वयात्ऽ; भेदानामिति वर्तते । समन्वयो ऽनुगमः । एकजात्यनुगमादित्यर्थः । य एकजात्यनुगता भेदास्तेषामेकमेव तथाभूतं कारणं दृष्टम् । यथा कटककेयूरादीनां सुवर्णपिण्डः, यथा वा शरावादीनां मृत्पिण्डः । एवमेषामपि बाह्याध्यात्मिकानां सुखदुःखमोहानुगतत्वादेकेन तथाविधेन भवितव्यम् । य एषां समुदायस्तत्प्रधानमिति सामान्यतोदृष्टम् ।
ऽशक्तितः प्रवृत्तेश्चऽ; इति । इह कुलालादिशक्तिपूर्विका घटादीनां प्रवृत्तिर्दृष्टा नाशक्तिपूर्विका । एषामपि बाह्याध्यात्मिकानां प्रवृत्तिर्दृश्यते । ततश्च प्राक् च प्रवृत्तेर्जनितया शक्त्या भवितव्यम् । यासौ शक्तिः सैवाव्यक्तभावमापद्यत इति सामान्यतोदृष्टम् ॥
ऽकारणकार्यविभागात्ऽ; इति । कारणस्य पूर्वभावित्वात् पूर्वनिपातः । अल्पाच्तरस्य पूर्वनिपातस्यानित्यत्वम् । यत उत्पद्यते तत्कारणम्, यच्चोत्पद्यते तत्कार्यम् । यथा मृत्पिण्डघटयोर्जन्यजनकत्वेन पृथगर्थक्रियाकरणाच्च विभागो दृष्टः । अन्यथा घटास्योदकाहरणक्रिया या न सा मृत्पिण्डस्य, या मृत्पिण्डस्य न सा घटस्य । एवं व्यक्तस्य महदादेः कार्यत्वात्पृथगर्थक्रियाकरणाच्च विभागः । तस्मादस्य कारणेन भवितव्यम् । तच्चाव्यक्तात्किमन्यत् स्यादिति ॥
अस्मिन् व्याख्याने ऽकार्यतस्तदुपलब्धेर्महदादि तच्च कार्यम्ऽ; इत्यनेनैव सिद्धत्वादन्यैरन्यथा व्याख्यायते । यदुपकरोति तक्तारणम्, यदुपक्रियते तत्कार्यं तयोर्विभागात्, उपकार्योपकारकभावादित्यर्थः । तत्र कार्य...व्यादीनि शरीरस्थानि स्थानसाधना...वभोगैः कारणान्युपकुर्वन्ति । कारणानि च वृद्धिक्षतसंरोहणपालनैः कार्याणि । बाह्यानि च कारणानि पृथिव्या धृतिसङ्ग्रहपत्तिव्यूहनावकाशदानैः परस्परमुपकुर्वन्ति । तथा दैवमानुषतैर्यग्योनानि परस्परोपकारीणि । तत्र दैवम्, यथाकालं शीतोष्णवर्षागमः, मानुषतैर्यग्योनान्युपकरोति । मानुषमिज्यायागस्तुतिभिर्दैवं रक्षति, पोषणभेषज्यैशअह तैर्यग्योनमुपकरोति । यथाध्यात्मिकानां बाह्यानां चोपकार्योपकारकभावो बुद्धिकृत इव दृश्यते तदस्य कश्चिद्व्यवस्थापिता स्यात्, कुतो ऽयं विभाग इत्यन्यथानुपपत्तेः ॥
ऽअविभागाद्वैश्वरूप्यस्यऽ; इति । न विद्यते विभागो ऽस्येत्यविभागः । अविभक्तादित्यर्थः । तस्माद्वैश्वरूप्यस्योपलब्धेरिति शेषः । इह लोके ऽविभक्तादेकस्मादिक्षुद्रव्याद्रसफाणितगुडखण्डशर्करादिवैश्वरूप्यं नानात्वं दृश्यते, तथैकस्माद्दुग्धाद्दधिमस्तुनवनीतघृतादिवैश्वरूप्यमुपलभ्यते । एवमाध्यात्मिकानां बाह्यानां च वैश्वरूप्यम् । तस्मादेषामविभक्तेनैव भवितव्यमिति सामान्यतोदृष्टम् ॥
अन्यस्त्वाह- ऽअविभागे वैश्वरूप्यस्यऽ; इति । अविभागो लयः, वैश्वरूप्यं जगत् नानारूपत्वात् । प्रलयकाले वैश्वरूप्यं क्व लीयते स्थित्युत्पत्तिप्रलयाज्जगत इति । न चेश्वरे लयनं सम्भवति, तस्य निर्गुणत्वेनाभ्युपगमात् । तस्मादन्यथानुपपत्त्यास्ति तदेकमिति । तथा चाहुः-
प्रधानादानुपूर्व्येण सृष्टिर्लोकस्य संसरः ।
प्र....प्रातिलोम्येन पुनस्तत्रैव सञ्चरः ॥ इति ॥ 15 ॥
कारिका 16
एषां हेतूनां प्रवर्तनार्थमाह-
कारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्, प्रतिप्रतिगुणाश्रयविशेषात्

17

ऽकारणमस्तिऽ; इत्यादि ॥
यदि कारणमस्त्यव्यक्तं तत्कथं प्रवर्तत इत्याह- ऽत्रिगुणतस्समुदयाच्चऽ; इति । यदा प्रकृतिस्था गुणास्साम्येन प्रवर्तन्ते तदा (त्रीनेवाधिकृत्य प्रवरन्ते नैकैकमित्यर्थः । यदा वैषम्येण प्रवर्तन्ते तदा) कार्यं कारणारब्धत्वात् समुदयात् प्रवर्तते । समन्तादुदयो यस्य गुणस्य तमधिकृत्येत्यर्थः, शेषन्यक्कृतशक्तिकत्वात् । यदि समुदयादव्यक्तं प्रवर्तते तस्मादुत्पन्नं तदव्य...स्मान्न भवति ॥
शुक्लेभ्यः कृष्णेभ्यो वा तन्तुभ्यः शुक्लः कृष्णो वा पटो भवतीत्याह-
ऽपरिणामतःऽ; इत्यादि । पूर्वस्यामवस्थायामवस्थान्तरं परिणामः, तस्माद्धेतोः प्रवर्तते । यथा कणिकायाः सूक्ष्माया मूलकः शाखाप्रशाखादिप्रवृद्धो महान्वनस्पतिर्व्यक्तो भवति, एवमव्यक्ताद्व्यक्तं परिणमति ॥
यद्येवमेकरूपादुत्पन्नस्य त्रैलोक्यस्य कथमनेकरूपत्वमित्याह- ऽसलिलवत्प्रतिप्रतिगुणाश्रयविशेषात्ऽ; इति । सलिलेन तुल्यं वर्तत इति सलिलवत् । एकैकं प्रति गुणाः प्रतिप्रतिगुणाः । त एवाश्रयास्तेषां यो विशेषस्तस्माद्धेतोः प्रवर्तन्ते । यथा सलिलमन्तरिक्षादेकरसमपि तदेकस्य कट्वम्लादेर्गुणस्याश्रयभूतस्य विशेषान्नानारसं वर्तते एवमव्यक्तमपीति गुणात्मकत्वादेकैकगुणाश्रयविशेषान्नानारूपं प्रवर्तते । तत्र सत्त्वस्य कृतेराश्रयस्य विशेषाद्देवभावेन वर्तनम्, रजस आश्रयस्य विशेषान्मानुषभावेन, तमस आश्रयस्य विशेषात्तिर्यग्योनिभावेनेति ॥ 16 ॥
कारिका 17
एवमव्यक्तस्यास्तित्वं प्रवृत्तिं च प्रसाध्य पुरुषास्तित्वं प्रसाधयितुमाह-
संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषो ऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च

18

ऽसंघातपरार्थत्वात्ऽ; इत्यादि । संहन्यत इति संघातः । संघातश्चासौ परार्थश्चेति संघातपरार्थः । संघातत्वं हेतुः परार्थत्वं साध्यम् । इह लोके संघातबाह्याः शयनासनादयो ये ते परार्था दृष्टाः । ते हि देवदत्तस्य परस्यार्थं कुर्वन्ति न स्वार्थम् । एते ऽप्याध्यात्मिका महदादयः शरीरसंज्ञकाः संघाताः, तैः परार्थैर्भवितव्यम् । न च पुरुषव्यतिरिक्तो ऽन्यः परो ऽस्ति, पुरुष एव पर इ....न्यतोदृष्टम् ॥
ननु महदादिभूतपर्यन्तं शरीरमेव पुरुषो नान्यः कश्चिदित्यत्राह- ऽत्रिगुणादिविपर्ययात्ऽ; इति । आदिशब्देनाविवेक्यादयः पञ्च धर्मा दृश्यन्ते । तथा हि तद्विपरीतः पुमानित्युक्तम् । ततश्च तद्विपरीतत्वात्पुंसः कथं महदादिमात्रमेव पुरुषः । तस्माद्व्यतिरिक्तः पुरुषो यस्यार्थका इमे संघाताः ॥
ऽअधिष्ठानात्ऽ; इति । अधितिष्ठत्यस्मिन्नित्यधिष्ठानम् । महदादिभूतपर्यन्तं शरीरमिह लोके यदधिष्ठानं तत्पराधिष्ठितं दृष्टम्, यथा रथादि । दृश्यते चाधिष्ठानं शरीरम् । तस्मादस्याधिष्ठात्रा भवितव्यम् । यो ऽसावधिष्ठाता स पुरुषः, नान्तःकरणमधिष्ठातृ, तस्याचेतनत्वादिति सामान्यतोदृष्टम् ॥
ऽभोक्तृभावात्ऽ; इति । भोक्तृत्वादित्यर्थः । इह लोके भोग्यं दृष्ट्वा भोक्तानुमीयते । दृश्यते महदादिपर्यन्तं भोग्यम्, तस्मादस्यापि भोक्त्रा भवितव्यमिति सामान्यतोदृष्टम् । न चान्तःकरणं भोक्तृ, तस्याचेतनत्वाद्भोग्यत्वाच्च । यश्च भोक्ता स एव पुरुषः सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् । अस्मिन् देधे यो ऽयमात्मा समानजातीयानेकवस्त्वन्तरसहायः, प्रतिनियतैर्जन्मादिभिर्युज्यमानत्वात् मनोवत् ॥
ऽकैवल्यार्थं प्रवृत्तेश्चऽ; इति । कैवल्यं मोक्षः । तदन्यार्थप्रधानस्यैषा प्रवृत्तिः । तथाहि- प्रधानं बुद्ध्यात्मना परिणमति । बुद्धेश्चाष्टादशानि । तेषु च ज्ञानं कैवल्यम् । तत्र यदि पुरुषो न स्यात्तदा तदर्था प्रवृत्तिर्न भवेत् । तस्मादन्यथानुपपत्त्या पुरुषो ऽस्ति ॥
तत्र सिद्धे पुंसि विवादाः । एक एवायं पुरुषः सर्वशरीरेषु स्थित इत्येके । सर्वे काय उपनतानेकात्मानस्सात्मकत्वात्, योगिशरीरवृंद.. प्रतिशरीरमनेकः पुरुष इत्यपरे । एक एव पुराणः पुरुषः, तस्मादग्नेस..विष्फुलिङ्गाः प्रतिशरीरं पुरुषा आबिर्भूता इति वेदान्तवादिनः ॥ 17 ॥
कारिका 18
अत्राह-
जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव

19

ऽजननमरणकरणानाम्ऽ; इत्यादि । करणं चक्षुरादीन्द्रियम् देहेन्द्रियादेरधिष्ठानस्योत्पत्तिविनाशौ । तद्योगात्पुरुषः जननमरणे ऽपि व्यवस्थाप्येते । स्वतः पुरुषस्य ते न सम्भवतः । कुतः ? - नित्यतात् तत्र यद्येकः पुरुषः स्यात्तदैकस्मिन् जायमाने म्रियमाणे वा सर्वेषां जननमरणे स्याताम् । तथैकस्मिंश्चक्षुष्मति श्रोत्रवति वा सर्वे ऽन्धा (बधिरा वा, पश्येयुः श्रुणुयुर्वा । एकस्मिन्नन्धे) बधिरे वा तथा स्युः । न चैवम्, जननादीनां प्रतिनियमात् । तस्मादन्यथानुपपत्त्या पुरुषबहुत्वं सिद्धम् ॥
ऽअयुगपत्प्रवृत्तेश्चऽ; इति । यद्येकः पुरुषः स्यात्तदैकेनाधिष्ठात्रा तिष्ठति देहे, धर्माधर्मयोरर्थानर्थयोः सुखदुःखयोर्वा प्रवृत्ते, सर्व एव युगपत्प्रवर्त्तेरन् । न चैवमित्यन्यथानुपपत्तिः ॥
ऽत्रैगुण्यविपर्ययाच्चऽ; इति । त्रय एव गुणास्त्रैगुण्यम् । तद् विपर्ययो ऽन्यथात्वम् । अधिष्ठानस्य त्रिगुणात्मकत्वात्तद्योगात्पुरुषो ऽपि त्रिगुणात्मक इत्युच्यते । तत्र यद्येकः पुरुषः स्यात्तदैकस्मिन् सात्त्विके राजसे तामसे वा, सर्व एव तथाविधाः स्युः । न चैवम्, गुणानं विपर्ययदर्शनदित्यन्यथानुपपत्तिः ॥
पुराणपुरुषादग्नेरिव विष्फुलिङ्गाः प्रतिशरीरं पुरुषा इत्यस्मिन्नपि दर्शने पुरुषबहुत्वमस्त्येव । तेषां परस्परविलक्षणत्वात् ते पुराणपुरुषादभिन्ना भिन्ना वेति दर्शनद्वयम् । तदन्यत्र विवारितत्वादिह ग्रन्थगौरवभयान्नोपन्यस्तमस्माभिरिति ॥ 18 ॥
कारिका 19
एवं पुरुषबहुत्वं प्रसाद्ध्य तद्धर्मान् कथयितुमाह-
तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यम्माध्यस्थं द्रष्टृत्वमकर्तृभावश्च

20

ऽतस्माच्च विपर्यासात्ऽ; इत्यादि । यः प्रागुक्तो विपर्ययः- त्रिगुणमविवेकि विषयः - इत्यादिना, तस्मात्साक्षित्वादयो धर्माः पुरुषस्य सिद्धाः । तत्र निर्गुणस्य पुरुषस्याप्रसवधर्मित्वादकर्तृत्वम् । यश्चाकर्ता स भवत्युदासीनः । सप्तविधं चास्यौदासीन्यम् । तथा चोक्तम् -
पश्यति शृणोति सर्वम करोति स्थितिं प्रसङ्गं च नापि ।
स्वतो न परतो...नोभयतश्चाप्युदासीनः ॥ इति ॥
यश्चोदासीनः स साक्ष्यपि भवति प्रधानसम्बन्धिनः क्रियाकलापस्य निर्गुणत्वात् ॥
कैवल्यं केवलभावात् चेतनत्वाच्च द्रष्टृत्वमिति ॥
ननु च यद्यकर्ता तत्कथं- भोक्तृभावादस्ति पुरुषः- ? तथा चाहुः-
बालहुताशनतरवः स्वयमकृतानां यथा हि भोक्तारः ।
पुरुषो ऽपि विषयफलानां स्वयमकृतानां तथापि भोक्ता ॥ इति ॥
इत्युक्तमकर्तुरपि भोक्तृत्वमस्येति ॥ 19 ॥
कारिका 20
ननु च यद्यचेतनमव्यक्तं कथं देहेन्द्रियसंज्ञमधिष्ठानं धर्माधर्मादिषु प्रवर्त्तते, तस्याचेतनत्वादित्याह-
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्युदासीनः

मूल पाठ: Sāṃkhyakārikā with Śaṃkara's Jayamaṅgalā commentary · Edition: H. Sarma: Jayamaṅgalā nāma Sāṃkhyasaptatiṭīkā, Calcutta 1926 (Calcutta Oriental Series, 19) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc