भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 61-70

61

निवृत्ता किं करोत्य् एतद् आह ---
प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति ।
या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य

61

प्रकृतिर् अपि प्रधानम् अपि कुरुते । यथेह स्नुषा व्रीडया स्वगृहान्तः प्रविशति अतो ब्रवीति इयं विशिष्टतरेति । एवम् इयं प्रकृतिः सुकुमारतरा । तस्मात् प्रकृतेः सुकुमारतरं नान्यद् अस्तीति । एवं पुरुषस्य परमात्मनो ऽपि मतिर् उत्पन्ना । नास्तीति मे मतिर् भवति । ममेति पुरुष आत्मानं ब्रवीति । तत्र सुकुमारतरत्वं वर्णयति ईश्वरः कारणम् इति केचिद् आचार्या ब्रवते । उक्तं च ---
"अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकम् एव वा" ॥
(महाभारत 3 ।31 ।27)(प्.55)
वेदवादिनः पुनर् इत्थं कारणम् आहुः । "पुरुष एवेदं सर्वम्"(श्वेताश्वतरोपनिषद् 3 ।15) इत्य् अतः पुरुषं कारणम् आहुः । अपरे स्वभावम् आहुः । स्वभावः कारणम् इति । तथा हि ---
"येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः ।
मयूराश् चित्रिता येन स नो वृत्तिं विधास्यति" ॥
(हितोपदेश 1 ।183)
अत्र साङ्ख्या वदन्ति । ईश्वरः कारणं न भवति । कस्मात्, निर्गुणत्वात् । इमाः सगुणाः प्रजाः । सत्त्वरजस्तमांसि त्रयो गुणाः, ते च प्रजासु सन्ति । तांश् च गुणान् दृष्ट्वा साधयामः । प्रकृतेर् इमाः समुत्पन्नाः प्रजाः । यद् ईश्वरः कारणं स्यात् ततो निर्गुणाद् ईश्वरान् निर्गुणा एव प्रजाः स्युः । न चैवम् । तस्माद् ईश्वरः कारणं न भवति । एवं पुरुषो ऽपि द्रष्टव्यः । स्वभावो नाम न कश्चित् पदार्थो ऽस्ति । यतः प्रजानाम् उत्पत्तिसङ्गतिः स्यात् । तस्माद् यो ब्रूते स्वभावः कारणम् इति तन् मिथ्या । केचित् कालं कारणतया वर्णयन्ति ---
"कालः सृजति भूतानि कालः संहरते प्रजाः ।
(महाभारत 3 ।13 ।70 ।57)
कालः सुप्तेषु जागर्ति तस्मात् कालस् तु कारणम्" ॥
तद् अपि साङ्ख्यो निराकुरुते । कालो नाम न कश्चित् पदार्थो ऽस्ति । व्यक्तम् अव्यक्तं पुरुष इति त्रय एव पदार्थाः । तत्र कालो ऽन्तर्भूतः । एवं प्रधानं हित्वा नास्त्य् अन्यत् कारणम् । तत्प्रधानावगमं प्रति यदा पुरुषस्य सम्यग्ज्ञानम् उत्पद्यते तदा तेन ज्ञानेन दृष्टा प्रकृतिः पुरुषसङ्गान् निवर्तते । स्वैरिणीव पुरुषेणोपलक्षिता । अये इयम् असाध्वी मां मोहयति, तस्मान् न ममानया कार्यम् इतिवत् । तस्यां च निवृत्तायां मोक्षं गच्छति । एवम् ईश्वरादीनि अकारणानि । सुकुमारतरम् इत्य् एतद् वाक्यशेषः कृतः । यस्मात् सुकुमारतरं प्रधानं तस्माद् उच्यते --- प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति । इति मे पुरुषस्य । अत्राह --- सा दृष्टा पुरुषेण कथं निवर्तते प्रकृतिः । अत्रोच्यते --- या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य । यथा काचित् कुलस्त्री साध्वी स्वगृहद्वारि स्थिता पुरुषेण सहसैवागतेन दृष्टा सहसैवं व्रीडमाना त्वरितं गृहं प्रविष्टा सा एवं मत्वा दृष्टाहम् अनेनेति न पुनर् दर्शनम् उपैति पुरुषस्य । एवं प्रकृतिः परमात्मना पुरुषेण ज्ञानचक्षुषा दृष्टा सव्रीडा कुलस्त्रीवन् न पुनर् दर्शनम् उपैति पुरुषस्य । तस्यां च निवृत्तायां पुरुषो मोक्षं गच्छति

62

(प्.56)
अत्राह --- लोके शिष्टा वदन्ति पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति । अत्रोच्यते ---
तस्मान् न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः

62

पुरुषो न बध्यते सर्वगतत्वात्, अविकारत्वात्, निष्क्रियत्वात्, अकर्तृत्वात् । यस्मान् न बध्यते तस्मान् न मुच्यते । मुक्त एव सः । अबद्धः कुतो मुच्यते । कस्याभुक्तेन विसूची भवति । न संसरति सर्वगतत्वात् । सर्वगतस्य बन्धमोक्षौ कुतः । अनधिगतप्रापणार्थं संसरणम् इत्य् उपदिश्यते । तेन च सुनिपुणं सर्वं प्राप्तम् । पुरुषं न विदन्ति ये त एवं वदन्ति । पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति । अत्राह --- यदि पुंसो बन्धमोक्षसंसरणानि न स्युः तर्हि कस्य भवन्ति । तद् उच्यते --- संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः । प्रकृतिर् आत्मानं बध्नाति, मोचयति, संसरति च । यत् तत् सर्गादौ सूक्ष्मं शरीरं तान्मात्रिकं प्राग् उक्तं त्रयोदशविधेन करणेन संयुक्तं त्रिविधेन बन्धेन बद्धं संसरति । स च बन्धस् त्रिविधः पूर्वम् आख्यातः । तद् एव सूक्ष्मशरीरम् उत्पन्ने ज्ञाने त्रिधा बन्धान् मुच्यते । तस्मान् मुच्यते बध्यते संसरति नानाश्रया प्रकृतिः । नानाश्रया देवमनुष्यतिर्यक्शरीरभूतेत्य् अर्थः । एवं यत् प्रधानं तत् सूक्ष्मं शरीरं तत् प्रधानं प्रकृतिर् इत्य् अनर्थान्तरम् । तत्र यः पुंसो बन्धमोक्षसंसरणानि ब्रूते स मूढः

63

अत्राह --- सा प्रकृतिः कैर् गुणैर् आत्मानं बन्धयति, कैर् वा मोचयतीति? अत्रोच्यते ---
रूपैः सप्तभिर् एवं बध्नात्य् आत्मानम् आत्मना प्रकृतिः ।
सैव च पुरुषस्यार्थं प्रति विमोचयत्य् एकरूपेण

63

सप्तभी रूपैर् इयम् एवं प्रकृतिर् धर्मादिभिर् विना ज्ञानम् आत्मनात्मानं बध्नाति । सैव च प्रकृतिः गुणपुरुषान्तरोपलब्धिरूपं प्रति, एकरूपेण ज्ञानेनात्मानं विमोचयति

64

(प्.57)
कथम् तज् ज्ञानम् उत्पद्यते ---
एवं तत्त्वाभ्यासान् नास्मि न मे नाहम् इत्य् अपरिशेषम् ।
अविपर्ययाद् विशुद्धं केवलम् उत्पद्यते ज्ञानम्

64

एवम् इति । यथा, एतानि पञ्चविंशतितत्त्वानि पुरुषाद्यानि भूतपर्यन्तानि तेषाम् अभ्यासस् तत्त्वाभ्यासः । अभ्यासेनैव तत्त्वदर्शनम् । तस्माद् अभ्यासात् पुरुषस्य बुद्धिर् उत्पद्यते । नास्मि तत्त्वानि, न मे तत्त्वानि, नाहं तत्त्वानाम्, किं तु प्राधानिकान्य् एतानि । तस्माज् ज्ञानम् उत्पद्यत एवमादि । अपरिशेषं निरवशेषम् इत्य् अर्थः । किं चान्यत् (ज्ञानं यस्माद् आह) --- अविपर्ययात् । विपर्ययः संशयस् तद्विपरीतो ऽविपर्ययस् तस्माद् अविपर्ययाद् असंशयाद् यथाभूतार्थदर्शनाद् विशुद्धम् निरवद्यम् अव्यामिश्रं केवलं ज्ञानम् उत्पद्यते प्रादुर्भवति । किं ज्ञानम्? गुणपुरुषान्तरोपलब्धिरूपम् इत्य् अर्थः

65

अत्राह --- तेन ज्ञानेन पुरुषः किं करोति । अत्रोच्यते ---
तेन निवृत्तप्रसवाम् अर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवद् अवस्थितः स्वस्थः

65

यथा कश्चित् प्रेक्षको रङ्गस्थितो गीतवादित्रनृत्यादिभिर् वर्तमानां नर्तकीं स्वस्थो निर्विकल्पः पश्यति । एवं पुरुष आत्मकृतेन ज्ञानेन तासु तास्व् अवस्थासु वर्तमानां प्रकृतिं पश्यति --- इयं सा प्रकृतिर् या सर्वपुराणम् आत्मानं बध्नाति । प्रेक्षकवत् प्रेक्षकेण तुल्यः स्वस्थः स्वस्मिन् भावे स्थितः । किंभूतां प्रकृतिम्? निवृत्तप्रसवाम् । निवृत्तबुद्ध्यहङ्कारकार्याम् । अर्थवशात् सप्तरूपविनिवृत्ताम् । निर्वर्त्तितोभयपुरुषप्रयोजनवशाद् यैः सप्तभी रूपैर् धर्मादिभिर् आत्मानं बध्नाति तेभ्यो रूपेभ्यो विनिवृत्ताम् । यावज् ज्ञानचक्षुषा दृष्टा प्रकृतिः पुरुषेण तथा च पुमान् दृष्टः

66

अत्राह --- ज्ञानचक्षुषा दृष्ट्वा प्रकृतिं पुरुषः किं करोति? अत्रोच्यते ---
दृष्टा मयेत्य् उपेक्षक एको दृष्टाहम् इत्य् उपरतान्या ।
(प्.58)
सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य

66

यथेमां रङ्गगतां नर्तकीं सर्वास्व् अवस्थासु वर्तमानां दृष्ट्वा विरमति रङ्गात् प्रेक्षकः दृष्टा मयेत्य् उपेक्षक एकः केवलः शुद्धः पुरुषः । तथा प्रकृतिर् अपि --- "अनेनाहं दृष्टा" इति निवृत्ता । एका त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिर् अस्ति । नर्तक्य् अपि --- "अहम् अनेन दृष्टा" इत्य् उपरमते नृत्यात्, एवं पुरुषो ऽपि "दृष्टा मयेयं ज्ञानचक्षुषा प्रकृतिः" इति प्रेक्षकवद् उपरमते मोक्षं गच्छतीत्य् अर्थः । तथा प्रकृतिर् अपि दृष्टाहम् अनेनेति स्वव्यापाराद् उपरमत्य् एव । अत्राह --- पुंप्रकृत्योः सर्वगतत्वात् सर्वनिषेधो न शक्यते वक्तुम् । तद् अस्य संसारसर्गस्य विनिवृत्तिर् एव । तत् कथम् इदं साधनं समीचीनम् इति । अत्रोच्यते --- सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्येति । यद्य् अपि प्रधानपुरुषयोः सर्वगतयोः संयोगो भवत्य् एव । तस्मिंश् च सति सर्गसम्भवस् तथापि नासौ सर्गः स्यात् प्रयोजनाभावात् । यस्मात् प्रधानस्य पुरुषार्था प्रवृत्तिः । स च पुरुषार्थो द्विविधः । शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्तश् च । ब्रह्मादिस्थावरान्तेषु पुरुषः शब्दादिभिर् विषयैर् योजयितव्यः । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षयितव्यः । एवं पुरुषदर्शनार्थं सम्प्रयोगः कृतः । एवं प्रकृतिपुरुषयोस् तयोः शरीरोत्पत्तिर् नास्ति पुनः ऋणिकधारिणकवद् यथेह लोके ऋणिकधारिणकौ उत्तमाधमर्णौ देवदत्तयज्ञदत्तौ यो ऽस्मिन् ऋणं धारयति स उत्तमर्णस् तेनाधमर्णाक्तः --- "ऋणं मे देही" इति । ततस् तेन तद्दत्तम् । ततस् तौ कृतप्रयोजनौ परस्परम् अर्थेन सन्त्यक्ताव् अथ तयोर् भूयः संयोगो भवति । तथापि नार्थकृत्यं प्रयोजनाभावात् । यथा वा वृद्धसंयोगाद् अपत्यं न भवति, प्रयोजनाभावात् । तथा प्रधानपुरुषयोः कृतप्रयोजनयोः प्रयोजनं नास्तीति सिद्धम्

67

किञ् चान्यत्, यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षस् तर्हि मम कस्मान् न भवति । अत उच्यते ---
सम्यग्ज्ञानाधिगमाद् धर्मादीनाम् अकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच् चक्रभ्रमवद् धृतशरीरः

67

यदा पुरुषेण पञ्चविंशतितत्त्वज्ञानम् अधिगतं भवति तदा धर्मादीन्य् अकारणानि प्राप्तानि पुनर्जन्मसमर्थानि न भवन्ति । को दृष्टान्तः --- यथेह (प्.89) लोके बीजान्य् अग्निदग्धानि न प्ररोहसमर्थानि भवन्ति । धर्मो येषाम् आदिस् तानि धर्मादीनि तेषाम् अकारणानां प्राप्तिर् अकारणप्राप्तिः । तथा सत्यां पुनर्जन्म न भवति । अत्राह --- यदि सम्यग्ज्ञानान् मोक्षो भवति तत्राचार्यस्योपदेष्टुः सम्यग्ज्ञानम् उत्पन्नं किमर्थं मोक्षं न गतो ऽस्ति, अथ वा त्वत्प्रसादात् तज्ज्ञानं ममापि सञ्जातं किम् अहं मोक्षं न गच्छामि । अत्रोच्यते --- तिष्ठति संस्कारवशात् । संस्कारो नाम धर्माधर्मौ निमित्तं कृत्वा शरीरोत्पत्तिर् भवति तिर्यङ्मनुष्यदेवादिषु । तस्य संस्कारेण ग्रहणम् । स च संस्कारः फलम् अदत्त्वा क्षयं न गच्छति, उत्पन्नज्ञानस्यापि तस्माद् इदं शरीरं विनाशं यास्यति । तन्निमित्ताभावाद् इदं शरीरं पतिष्यति । यथा च विद्वान् मोक्षं यास्यति । तस्मात् हेतोर् उत्पन्नज्ञानस्यापि धर्माधर्मवशात् तिष्ठति शरीरम् । को दृष्टान्तः? अत्रोच्यते --- चक्रभ्रमवद् धृतशरीरः । यथा कुलालश् चक्रं भ्रमयति घटं करिष्यामीति । स कुलालो घटं कृत्वा यथा स्वस्थो भवति, अवतिष्ठते । यस्मिंश् चावतिष्ठमाने चक्रं भ्रमत्य् एव । संस्कारवशात् --- कर्मवशाद् इत्य् अर्थः । एवम् एव पूर्वकृतयोर् धर्माधर्मयोर् बलवत्त्वाद् दुर्बलत्वाज् ज्ञानस्य, उत्पन्ने ऽपि ज्ञाने विद्वांस् तिष्ठति संस्कारवशाच् चक्रभ्रमवद् धृतशरीरः

68

अत्राह --- उत्पन्नज्ञानः फलनिरपेक्षं कर्म निर्बीजं कुर्वन् न देहम् आरभते, आरब्धफलं यावत् जन्मदायि "नाभुक्तं क्षीयते कर्म" "अवश्यम् एव भोक्तव्यं कृतम्" इति क्षपयन्, अनारब्धफलेषु "यथैधांसि समिद्धो ऽग्निः(भगवद्गीता 4 ।37)" इति परिहारेण भस्मीकरणम् । एवं कर्मणां ध्वंसे, उत्पन्ने ज्ञाने ऽपि कदा विद्वान् मोक्षं गच्छतीति? अत्रोच्यते ---
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोति

68

तद् एवं सति शरीरभेदे देहनाशे प्राप्त आयात इत्य् अर्थः । चरितार्थत्वात् । स चार्थो द्विविधः (शाब्दात्मिकः) पूर्वम् उक्तः । तस्यार्थस्य चरितार्थत्वात् कृत्वेत्य् अर्थः । प्रधानविनिवृत्तौ । यदा पूर्वकृतयोर् धर्माधर्मयोः क्षयो भवति तदा शरीरं भिद्यते । तस्मिंश् च शरीरे भिन्ने पूर्वोक्तेन ज्ञानेन शरीरं प्रधानाख्यं कारणम् अविशेषमयं तान्मात्रिकं सर्गादाव् उत्पन्नं तन् निवर्तते । इह शरीरे यत् पार्थिवं तत् प्र्थिवीं प्रविशति । एवम् अन्यद् अन्येषु प्रविशति । एवं स्थूलं शरीरं पञ्चधा भिद्यते । प्रधानं च कृतप्रयोजनं भूयो ऽन्यत्(प्.60) शरीरं द्वितीयं नारभते विदुषः । एवम् अयं विद्वान् तस्मिन् शरीरे भिन्ने --- ऐकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोति । ऐकान्तिकम् अवश्यम्भावित्वाद् आत्यन्तिकम् अपुनरावृत्तित्वात् सर्वथेत्य् अर्थः । न त्व् औषधादिवत् कादाचित्करोगनिवृत्तिवत् । न च निवृत्ते रोगे पुनः सम्भवेद् इत्य् उभयोदाहरणम् ऐकान्तिकात्यन्तिकयोः । इत्थम् एकान्तात्यन्तस् तापत्रयस्याभावाद् उपरमाद् अनुत्पत्तेः कैवल्यं मोक्ष इत्य् अर्थः । तम् आप्नोति

69

अत्राह --- किंप्रयोजनम् इदं ज्ञानम् उच्यते । अत्रोच्यते ---
पुरुषार्थज्ञानम् इदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश् चिन्त्यन्ते यत्र भूतानाम्

69

यश् चासौ पुरुषार्थो मोक्षस् तदर्थं पुरुषविमोक्षार्थं ज्ञानम् इदम् इति । यद् एतत् पूर्ववर्णितं ज्ञानं एतद् गुह्यं दुर्विज्ञेयम् इत्य् अर्थः । परमर्षिणा कपिलेन समाख्यातं कथितम् इत्य् अर्थः । अत्राह --- अस्मिन् ज्ञाने के ऽर्थाश् चिन्त्यन्ते । अत्रोच्यते --- स्थित्युत्पत्तिप्रलयाः तत्र देवादीनाम् अष्टौ स्थानानि भवन्ति । मानुष्यं चैकविधम्, भूलोके पञ्चविधं तैर्यग्योनम् । एषु स्थानेषु ब्रह्मादीनि तिर्यग्योनिपर्यन्तानि तिष्ठन्ति । एषा स्थितिः । उत्पत्तिं प्रादुर्भावं प्रधानान् महदहङ्कारतन्मात्रेन्द्रियमहाभूतानीत्य् उत्पत्तिः । एवं भूतोत्पत्तिर् भावोत्पत्तिश् च व्याख्याता । लयं वक्ष्यामः --- भूतानि तन्मात्रेषु लीयन्ते, तानीन्द्रियेषु, इन्द्रियाणि लीयन्ते चाहङ्कारे, स बुद्धौ, सा प्रधाने लयं गच्छति । प्रधानं तु क्वचिन् न लीयते ऽविकृतत्वात् । एवं प्रलयः

70

अत्राह --- यद् एतद् भगवता व्याख्यातं पञ्चविंशतितत्त्वज्ञानम्, तस्य कुत आगम इति? अत्रोच्यते ---
एतत् पवित्र्यम् अग्र्यं मुनिर् आसुरये ऽनुकम्पया प्रददौ ।
आसुरिर् अपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम्

70

(प्.61)
एतत् विज्ञानम् अधिकुरुते । एतत् पवित्रं, कथं पवित्रम्? । यस्मान् नरकप्रेततिर्यग्योनिषु पतनात् त्रायते तस्मात् पवित्रम् । अग्र्यं श्रैष्ठ्यात् । वेदपुराणभारतम् अन्वादिभ्यो ऽपि धर्मशास्त्रेभ्य एतत् पञ्चविंशतितत्त्वज्ञानम् उत्तमम् । कस्मात्? ऐकान्तिकत्वात्, आत्यन्तिकत्वाच् च । अतो दुःखाभावश् च । मुनिर् भगवान् कपिलः आसुरिसगोत्राय ब्राह्मणाय वर्षसहस्रयाजिने ऽधिकारिताम् अवगम्य (अस्मै) प्रददौ । तदनुकम्पया तद्विमोक्षार्थम् । अन्धे तमस्य् अज्ञाने ऽयं तपस्वी वर्तत इत्य् उत्पन्नयानुकम्पया । मुनिर् मननात् । भगवान् भूतानां गतिम् आगतिं च विदन्न् अनति चलतीति भगवान् कपिलः । प्रत्युपकारानपेक्षसर्वोपकारी सुहृद् इत्य् अर्थम् अवलम्ब्योवाच । तद् एव ज्ञानं भूय आसुरिसगोत्रो ऽनुकम्पया पञ्चशिखाय प्रोवाच । पञ्चशिखेन तेन बहुधाकृतं तन्त्रम् । बहूनां शिष्याणां प्रदत्तम्

मूल पाठ: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc