सांख्यकारिका (टीका सहित) · श्लोक 71-73
तन्त्रम् इति व्याख्यायते । "तम एव खल्व् इदम् अग्र आसीत्"(मैत्र्युपनिषद् 5 ।2) । तस्मिंस् तमसि क्षेत्रज्ञो ऽभिवर्तते प्रथमम् । तम इति उच्यते प्रकृतिः, पुरुषः क्षेत्रज्ञः । षष्टिपदार्था यस्मिन् शास्त्रे तन्त्र्यन्ते तत् षष्टितन्त्रम् । षष्टितन्त्रं ज्ञात्वा कुशलः किलेश्वरकृष्णनामा । तेन ईश्वरकृष्णेन विस्तरग्रन्थग्रहणभीरुणा हितार्थं षष्टितन्त्रम् अतिसङ्क्षिप्तम् । तद् आह ---
शिष्यपरम्परयागतम् ईश्वरकृष्णेन चैतद् आर्याभिः ।
सङ्क्षिप्तम् आर्यमतिना सम्यग् विज्ञाय सिद्धान्तम्
शिष्यपरम्परयागतम् इति । कपिलाद् आसुरिणा प्राप्तम् इदं ज्ञानम् । ततः पञ्चशिखेन, तस्माद् भार्गवोलूकवाल्मीकिहारीतदेवलप्रभृतीन् आगतम् । ततस् तेभ्य ईश्वरकृष्णेन प्राप्तम् । तद् एव षष्टितन्त्रम् आर्याभिः सङ्क्षिप्तम् आर्यमतिना विस्तीर्णमतिना सम्यग् विज्ञाय सिद्धान्तम् कार्यकारणसिद्धस्य शरीरस्यान्तो ऽपुनर्भावो मोक्षस् तस्य तादात्म्यम् इत्य् अर्थः । ततिसिद्धस्य शरीरस्य सूक्ष्मस्य तान्मात्रिकस्य सर्गादिभवस्यान्तो मूर्तिनाश इति वा । एष षष्टितन्त्र इति तात्पर्यम्
सप्तत्यां किल यो ऽर्थास् ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश् चेति
(प्.62)
ये षष्टितन्त्रे पदार्था अभिहितास् ते सप्तत्यां व्याख्याताः कथिताः । षष्टित्भेदाः प्राग् व्याख्याताः । "भेदस् तमसो ऽष्टविध" इति आर्यायां "पञ्च विपर्ययभेदा" इत्य् अत्र चाभिहिता इत्य् एते पञ्चाशत् प्रत्ययाः इमे चान्ये दश मौलिकाः । तथा हि ---
अस्तित्वम् एकत्वम् अथार्थवत्त्वं पारार्थ्यम् अन्यत्वम् अथो निवृत्तिः ।
योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥
तत्र "भेदानां परिमाणात्" इत्य् एतैः पञ्चभिर् हेतुभिः प्रधानास्तित्वम् एकत्वम् अर्थवत्त्वं च सिद्धम् । "सङ्घातपरार्थत्वात्" इति परार्थत्वम् उक्तम् । "जन्ममरणकरणानाम्" इति पुरुषबहुत्वं सिद्धम् । "चक्रभ्रमवद् धृतशरीर" इति स्थितिः सिद्धा, एते दश, "पञ्च विपर्ययाः" अष्टाविंशतिधा अशक्तिः, नवधा तुष्टिः अष्टधा सिद्धिर् इति पञ्चाशत् । उभयं मिलित्वा षष्टिपदार्थाः षष्टितन्त्रे । तन्त्र्यन्ते व्युत्पाद्यन्ते पदार्था इति तन्त्रम् । षष्टिपदार्थानां तन्त्रम् इति सङ्गतिः । आख्यायिकाविरहिताः परवादविवर्जिताश् चेति । परेण सह वादः परवादः तेन वर्जिताश् च । इति परिसमाप्तम् इति
अत्राह --- कथम् एतद् अल्पग्रन्थं शास्त्रं कृत्स्नस्य वाचकं भविष्यति? अत्रोच्यते ---
तस्मात् समासदृष्टं शास्त्रम् इदं नार्थतश् च परिहीनम् ।
तन्त्रस्य च बृहन्मूर्तेर् दर्पणसङ्क्रान्तम् इव बिम्बम्
यस्मात् षष्टितन्त्रम् इति हेतुः । समासदृष्टं सङ्क्षेपतो ग्रन्थम् इत्य् अर्थः । शास्त्रम् इति । शास्यते येनोत्पथाद् इति शास्त्रम् । तीर्थोदकमहत्फलम् । कर्ता भोक्ता भोज्यं मोक्षश् चात्र चिन्त्यते । अथ दुःखानां शासनात् शास्त्रम् । इदम् --- इमां सप्ततिं दर्शयति । नार्थतश् च परिहीनम् । षष्टिपदार्थविचारणायाम्(प्.63) अहीनम् इत्य् अर्थः । तन्त्रस्येति । यथा स्वल्पे ऽपि दर्पणे महतो रूपस्य निरूपणं स्यात् । एवम् अल्पशास्त्रे षष्टितन्त्रस्य कृत्स्नस्यापि व्यक्तिर् अभिहितेत्य् अर्थः
मूल पाठ: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0