सांख्यकारिका (टीका सहित) · श्लोक 51-60
इदानीं सिद्धयो व्याख्यायन्ते ---
ऊहः शब्दो ऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः ।
दानं च सिद्धयो ऽष्टौ सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः
तत्र ऊहो नाम यथा कश्चिच् चिन्तयति, किं परं याथात्म्यम्, किं निःश्रेयसम्, किं कृत्वा सुखं प्राप्यते । एवम् अस्य चिन्तयतो ज्ञानम् उत्पद्यते स्वतः शास्त्रतो गुरुतो वा । यत् प्रधानबुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतान्य् अन्यानि, अहम् अन्य इति ततो मोक्षं गच्छति । एषा ऊहसिद्धिः प्रथमा । चौरसाधुतदनुगामिस्वामिपथिकसंयोगादिवत् । प्रकृतिपुरुषशिष्यगुरुक्रमज्ञानम् । तद् यथा ग्रामम् आच्छिद्य चौरा यान्ति । तत्सार्थमध्ये साधुर् एको गच्छति । तदनुगामी च स्वामी । चतुर्थः पथिकस् तदभिज्ञः । पथिकचौरमध्ये साधुर् अपि चौरगुणास्पृष्टो ऽपि तदनुगामिना चौरतया प्रतीतस् तादृग्गणनायां (प्रतीतः) तदभिज्ञेन पथिकेन स्वामी सम्बोधितो यद् अहं सर्वं जानामि, अमी चौरा अयं साधुर् एव तत्सार्थानुवर्तीति । एवं चौरस्थानीयो बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतसमवायः, साधुस्थानीयश् च पुरुषः, तदनुगामिस्थानीयः शिष्यो, भेदेन बोध्याः । पथिकस्थानीयो गुरुः । तस्माज् ज्ञानं प्रतीकत्रयेणैवावगम्यते --- गुरुतः शास्त्रतः, स्वत इत्य् ऊहसिद्धिः प्रथमोक्ता । शब्दो नाम यथा कस्यचित् पठतः (तम् अस्य जनं) शब्दं श्रुत्वान्यत् प्रधानम् अन्यो ऽहम् इति तन्मार्गप्रवृत्तिप्रबुद्धो मोक्षं गच्छति । एवम् एषा द्वितीया सिद्धिः शब्दत उत्पन्ना । कश्चिद् गुरूपासनया ततो ऽधीत्यावगम्य सकलं ज्ञानम् आप्नोति, तृतीयाध्ययनसिद्धिः साङ्ख्यज्ञानम् अधीत्य सञ्जाता । एवम् एतास् तिस्रः सिद्धयः । शेषा व्याख्यायन्ते । दुःखविघातत्रयम् इति । यथा कश्चिद् आदाव् अभिहिताध्यात्मिकादिदुःखत्रयेणाभिभूतो ऽस्य प्रतीकारायोहं शब्दम् अध्ययनं वा प्रतिपद्य ज्ञानम् अधिगम्य मोक्षं यातीति दुःखविघाताय यत्रोहादित्रयम् अधिकुरुते तद् अपि सिद्धित्रयम् । एवं षट् सिद्धयः । कश्चिद् दुर्मेधा गुरोः सकाशान् नावधारयति । तत् केनचित् प्रत्युपकारानपेक्षेण सुहृदा तस्मात् संसारकूपाद् उज्जिहीर्षुणा तदनुकूलतया कृपावता सुगमवचोभिर् वैराग्यपूर्वकं गुणपुरुषान्तरोपलब्धिरूपं साङ्ख्यज्ञानम् उपदिशता समुद्धृतम् आलोक्याह, (प्.50) भगवान् शास्त्रकारः --- सुहृत्प्राप्तिर् इति । ते हि सुहृदस् तथोपदिशन्ति सुहृत्तया यथा पाषाणो ऽप्य् अवबुध्यते । उक्तं च ---
"एषा आतुरचित्तानां मात्रास्पर्शेच्छया विभुः ।
भवसिन्धुप्लवो दृष्टो यद् आचार्यानुवर्तनम्" ॥
(भागवतपुराण 1 ।6 ।35)
एषा सप्तमी सिद्धिः । कश्चिद् आवाहनसंवाहनभिक्षापात्रवस्त्रच्छत्रकमण्डलुप्रभृतिदानेन गुरून् आराध्य साङ्ख्यम् अधिगम्य मोक्षं गच्छतीत्य् एषाष्टमी सिद्धिर् दानादिभिर् उपायैर् निष्पन्ना । आसाम् अष्टानां पूर्ववन्नामान्तराणि । तारं सुतारं तारतारं प्रमोदं प्रमुदितं मोहनं रम्यकं सदाप्रमुदितम् इति । विपरीता असिद्धयः । तद् यथा अतारम् इत्याद्याः । ततश् च एकादशेन्द्रियवधाः, नवानां तुष्टीनां विपर्ययाः प्रकृत्युपादानकालभाग्याख्यानां पञ्चविषयोपरमतुष्टीनां च । अष्टानां सिद्धीनां विपर्यया अनूहादयः । सप्तदश वधा बुद्धेर् एवम् एकादश सप्तदश चाष्टाविंशतिभेदा अशक्तेर् अभिधीयन्ते । एवं विपर्ययाशक्तितुष्टिसिद्धीनाम् उद्देशः कृत इति वाक्यशेषः । सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः । या ऊहाद्याष्टधा सिद्धिस् तस्या पूर्वो विपर्ययाशक्तितुष्टिरूपो ऽङ्कुशो नियामकः । त्रिविधस् त्रिप्रकार इत्य् अर्थः । यथाङ्कुशेन गृहीतो गजो वश्यो भवति । एवं विपर्ययाशक्तितुष्टिरूपं त्रिविधं प्रत्ययसर्गं हित्वा सिद्धिः संसेव्या, सिद्धेस् तत्त्वज्ञानं, तस्माच् च मोक्ष इति तात्पर्यम्
अत्राह --- भगवता उक्तं पूर्वस्याम् आर्यायां भावैर् अधिवासितं लिङ्गं संसरति । तत्र किं लिङ्गं पूर्वोत्पन्नम् आहोस्वित् भावा इत्य् अत्रोच्यते --- लिङ्गं तावत् सूक्ष्मं तान्मात्रिकं शरीरम् अनादिकालोत्पन्नं त्रयोदशविधेन करणेन संयुक्तं भावैर् अधिवासितं संसरति । करणानि बुद्ध्यहङ्कारमनोबुद्धिकर्माख्यानि त्रयोदश । एवं त्रयोदशविधकरणम् आश्रित्य सूक्ष्मशरीरं तान्मात्रिकं संसरति । शरीरं करणानि चैतल्लिङ्गम् इत्य् अत्रोच्यते । भावैर् अधिवासितम् इति भावा धर्मज्ञानवैराग्यैश्वर्याणि चत्वारः सात्त्विकाः । विपरीतास् तामसाः । एवम् अष्टौ भावाः । तत्र सन्देहः । किं लिङ्गं पूर्वोत्पन्नम्, उतस्विद् भावा इति । उच्यते ---
न विना भावैर् लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
(प्.51)
लिङ्गाख्यो भावाख्यस् तस्माद् भवति द्विधा सर्गः
लिङ्गेन विना भावो न भवति भावैश् च विना लिङ्गं न भवति । यथाग्निना विना नोष्णत्वम् उष्णत्वं विना नाग्निः । एवम् एतयोर् लिङ्गभावयोर् युगपदुत्पत्तिः, गोविषाणवत्, कुमारीस्तनवत् । यत्र लिङ्गं तत्र भावा यत्र भावास् तत्र लिङ्गम् । तस्माद् उच्यते --- लिङ्गाख्यो भावाख्यः । लिङ्गेन आख्यायते स लिङ्गाख्यः । भावैर् आख्यायत इति भावाख्यः । तस्माद् द्विधा सर्गो भवति जायते
अत्राह --- किं द्विविध एव सर्गः किं तस्माद् अन्यस् तृतीयो ऽप्य् अस्ति इति । अत्रोच्यते ---
अष्टविकल्पो दैवस् तैर्यग्योनश् च पञ्चधा भवति ।
मानुष्यश् चैकविधः समासतो भौतिकः सर्गः
अष्टविकल्पो दैव इति । तद् यथा --- ब्राह्मं प्राजापत्यम् ऐन्द्रं पैत्रं गान्धर्वं याक्षं राक्षसं पैशाचम् इत्य् एवम् अष्टविधो देवसर्गः । तैर्यग्योनश् च पञ्चधा भवति । अत्र तुल्यलिङ्गत्वाद् भवति पशुपक्षिमृगसरीसृपस्थावरान्तश् चेति । मानुष्य एकविधस् तुल्यलिङ्गत्वाद् ब्राह्मणाअदिचाण्डालान्तः । समासतः सङ्क्षेपेण त्रिविधो ऽयं भूतमयः सर्गः । एवं चतुर्दशविधः
अत्राह --- एतेषु त्रिषु स्थानेषु कतरो गुण उत्कटत्वेन वर्तते ---
ऊर्ध्वं सत्त्वविशालस् तमोविशालश् च मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः
ऊर्ध्वं सत्त्वविशाल इति । ब्रह्मादिपिशाचान्तो यो ऽष्टविधः सर्गः । असौ सत्त्वबहुलः । यस्मात् तेषु सत्त्वम् उत्कटत्वेन वर्तते । तत्रापि रजस्तमसी स्तः किं तु सत्त्वस्योद्रिक्तता । तस्मात् सुखप्राया देवाः । तमोविशालश् च मूलतः । पश्वादिषु तमस उद्रेकात् पश्वादिस्थावरपर्यन्तो यस्मात् तेषु तम उत्कटत्वेन वर्तते तत्रापि गौणतया सत्त्वरजसी स्तः । तस्मात् ते तमोबहुलाः । मध्ये रजोविशालः । तत्रापि सत्त्वतमसी स्तः । किं तु रज उत्कटत्वेन वर्तते । तस्मात् ते दुःखप्राया मनुष्याः । ब्रह्मादिस्तम्बपर्यन्तः । चतुर्विध एष स्वेदजाण्डजादिना भूतसर्गः
(प्.52)
अत्राह --- भूतसर्ग उत्पन्नो भावसर्गः सम्पन्नो लिङ्गसर्गः सम्पन्न इति यत्र सर्गाः प्राधानिका इति प्रधानकार्यं समाप्तम् इति । उत्पन्नास् त्रयो लोकाः प्रधानं चोपरतम् उत्पाद्य लोकान् इति तेषु देवमनुष्यतिर्यग्योनिगतेषु दुःखं को ऽनुभवति । किं चतुर्विंशतितमं प्रधानम्, आहोस्वित् महदादित्रयोविंशतिकम्, उतस्वित् पुरुष इति? अत्रोच्यते ---
अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेस् तस्माद् दुःखं समासेन
अत्र त्रिषु लोकेष्व् इति । देवलोके, मनुष्यलोके, तिर्यग्योनौ च जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । तत्र जराकृतं वलीपलितैर् अभिभूतः कासश्वासैः परिगृहीतो यष्टिविष्टम्भगामी पुत्रस्नुषाद्यभिभूतो यद् दुःखम् अनुभवति तज् जराकृतम् । मरणकृतम् इति । अष्टविधम् ऐश्वर्यम् अस्ति यत् प्राग् अभिहितम् अणिमादि, दश विषयाः सन्ति । देवानां पञ्चाविशेषाः केवलसुखरूपाः । मनुष्याणां सविशेषास् त एव शब्दादयः सुखदुःखमोहसम्पन्नाः । तन्मरणपातावस्थायां यद् दुःखम् उत्पद्यते तन् मरणकृतम् इत्य् एव । एवम् एतैर् दुःखैर् अन्तकाले च जनितदुःखानि सर्वाणि प्राप्नोति चेतनः पुरुष एव प्रधानादीनाम् अचेतनत्वात् । तस्मात् तस्यैव विज्ञानितया दुःखं न तु जडानां प्रधानादीनाम् । तर्हि कियन्तं कालं पुरुषो दुःखम् आप्नोति । अत्रोच्यते --- लिङ्गस्याविनिवृत्तेः । यावन् महदादिलिङ्गं न निवर्तते तावत् कालं पुरुषो दुःखभोक्ता । तस्माद् दुःखं समासेन --- सङ्क्षेपेण प्राप्नोति चेतनः पुरुषः । यदा तु तत् प्रतिनिवर्तते महदादिलिङ्गं ज्ञानोत्पत्त्या ततो मोक्षं प्राप्नोति । मोक्षं गतस्य दुःखं नास्ति । ज्ञानेन हि लिङ्गं निवर्तते । यदा प्रत्येकं प्रधानमहदहन्तन्मात्रेन्द्रियभूतान्य् अन्यानि अहम् अन्य इति ज्ञानं तदा लिङ्गाभावः
प्रकृतेः किं निमित्तम् आरभ्य इत्य् अत्रोच्यते ---
इत्य् एष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः
(प्.53)
इत्य् एष प्रकृतिकृत इति । एवमादिर् यः पूर्वम् उपवर्णितो लिङ्गसर्गो महदादिभूतपर्यन्तः, एष प्रकृतिकृत इति । अत्राह --- एवं लिङ्गसर्गः प्रधानेन किमर्थं कृत इति? अत्रोच्यते --- प्रतिपुरुषविमोक्षार्थम् । पुरुषं पुरुषं प्रति विमोक्षस् तदर्थं प्रतिपुरुषविमोक्षार्थम् । देवलोकगतानाम्, मनुष्यलोकगतानाम्, तिर्यग्योनिगतानां च मोक्षार्थम् इत्य् अर्थः । स्वार्थ इव परार्थ आरम्भः । स्वकीयो ऽर्थः स्वार्थः । इवोपमायाम् । यथा कश्चित् स्वार्थम् इव मित्रार्थं करोति तथा स्वार्थम् इव प्रधानं पुरुषार्थं करोति । स चार्थो द्विविधः । शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्तश् च । त्रिषु लोकेषु शब्दादिविषयैः पुरुषं योजयति । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षं कुरुते
अत्राह --- उक्तं भगवता प्रधानं स्वार्थम् इव परार्थम् आरभते । अथ च त्वया प्रधानम् अचेतनम् उक्तं तत् कथं प्रवर्तते । अचेतनानाम् अपि प्रवृत्तिर् दृष्टा, निवृत्तिश् च ।
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य
यथा तृणोदकं गवा भक्षितं पीतं च क्षीरभावेन परिणमति, वत्सवृद्धिं करोति, पुष्टे वत्से निवर्तते । एवं पुरुषविमोक्षनिमित्तं प्रधानस्याज्ञस्य प्रवृत्तिः
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वद् अव्यक्तम्
यथा लोक इष्टविषयौत्सुक्ये सति तस्य निवृत्त्यर्थं क्रियासु गमनागमनासु प्रवर्तते कृतकार्यो निवर्तते । तथाव्यक्तं पुरुषस्य विमोक्षार्थं शब्दादिभोगलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं द्विविधं पुरुषार्थं कृत्वा निवर्तते
किञ् चान्यत् ---
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः
यथा नर्तकी शृङ्गारादिरसैर् हावभावैश् च निबद्धगीतवादित्रनृत्यानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान् निवर्तते । एवं प्रकृतिर् महदहङ्कारतन्मात्रेन्द्रियभूतभावेन(प्.54) देवमानुषतिर्यग्रूपासु योनिषु सुखदुःखमोहाकृतिः शान्तघोरमूढविषया सती आत्मानं पुरुषस्य प्रकाश्य निवर्तते । तस्यां च निवृत्तायाम् असौ केवलः पुरुषो दुःखत्रयं नानुभवति । यथा जलवाहकस्य घटाभावे तदाधेयस्योदकस्याभावः । तथा दुःखाभावः । ततो ऽसौ मोक्षं गच्छति
अत्राह --- यथा नर्तकी नृत्यादिभिर् उपायैर् आत्मानं प्रकाश्य रङ्गाद् विनिवर्तते, एवं प्रकृतिः पुरुषस्य कैर् उपायैर् आत्मानं प्रकाश्य विनिवर्तते? अत्रोच्यते ---
नानाविधैर् उपायैर् उपकारिण्य् अनुपकारिणः पुंसः ।
गुणवत्य् अगुणस्य सतस् तस्यार्थम् अपार्थकं चरति
नानाविधैर् उपायैः । शब्दस्पर्शादिभिर् उपकर्तुं शीलम् अस्याः सा तथोक्ता । अनुपकारिणः पुंसः । निष्क्रियत्वाद् इति यावत् । तस्योपकारिणी प्रकृतिस् तस्योपकृत्याहम् अन्या त्वम् अन्य इति निवर्तते (प्रकृतिः) । किं चान्यत् --- गुणवती । सा सत्त्वरजस्तमोमयी । अगुणस्य सतः । पुंसः निष्क्रियोदासीनामूर्तादिलक्षणवत्त्वात् । एवम् अस्य पुंसो ऽगुणस्यापि सतः (नित्यस्य) सेयं गुणवती अर्थम् अपार्थकं चरति । करोति । यथा कश्चिद् अनुरक्तो मित्रसुहृत्त्वम् अवलम्ब्य मित्रार्थम् अनुक्तम् अपि प्रत्युपकारम् अनपेक्ष्य कुरुते । एवं प्रधानं पुरुषस्य द्विविधम् अपि विषयोपलब्धिमोक्षात्मकम् अर्थं कुरुते । पुमान् पुनः प्रधानस्य किम् अपि न प्रत्युपकरोति । तत् प्रधानपुंसोः शिखिपिच्छवदेकपक्षचित्रन्यायः
मूल पाठ: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0