सांख्यकारिका (टीका सहित) · श्लोक 41-50
अत्राह --- सूक्ष्मशरीरेण नास्ति प्रयोजनम् । तर्हि त्रयोदशविधं करणम् एव कथं संसरतीति? अत्रोच्यते ---
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।
तद्वद् विनाविशेषैस् तिष्ठति न निराश्रयं लिङ्गम्
इहाश्रयाश्रयिणोः सम्बन्धो दृष्टः । न ह्य् आश्रयं विनाश्रयी तिष्ठति । कुड्यापटाश्रयं कृत्वा चित्रम् अवतिष्ठते । तद् इदं सूक्ष्मशरीरं कुड्यपटस्थानीयं चित्रसंस्थानीयं त्रयोदशविधं करणम् । तद् एवं सति यद् उक्तं भवता त्रयोदशविधं करणम् एव संसरतीति तन् मिथ्या । किं चान्यत् --- स्थाण्वादिभ्यो विना यथा छाया इति । स्थाणुपुरुषादिभिर् विना यथा छाया न भवति । छायां विना ते च न भवन्ति । यथाग्निना विना प्रकाशो न भवति । तद्वद् विनाविशेषैस् तिष्ठति न निराश्रयं लिङ्गम् इति । अविशेषा इति तन्मात्राणि स्वाभाविकक्षीरजलवच् शान्तघोरमूढत्वरहितत्वात् । तैर् आरब्धं सूक्ष्मशरीरम् । तेन सूक्ष्मशरीरेण सर्गादिप्रारब्धेन विना निराश्रयं त्रयोदशकरणाख्यं लिङ्गं न तिष्ठति । अतो यद् उक्तं भवता "किम् अविशेषैर् आरब्धसूक्ष्मशरीरकल्पनया प्रयोजनं त्रयोदशविधं करणम् एअ संसरति" इति, तन् मिथ्या
अत्राह --- सूक्ष्मशरीरं त्रयोदशविधकरणसम्पन्नं केन हेतुना संसरतीति? अत्रोच्यते ---
पुरुषार्थहेतुकम् इदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर् विभुत्वयोगान् नटवद् व्यवतिष्ठते लिङ्गम्
पुरुषार्थः कर्तव्य इति प्रधानस्य तावत् प्रवृत्तिः । स चार्थो द्विविधः । शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश् च । शब्दाद्युपलब्धिर् ब्रह्मलोकादिषु भोगावाप्तिर् गुणपुरुषान्तरोपलब्धिर् मोक्ष इति । तस्माद् उक्तम् --- पुरुषार्थहेतुकम् इदं सूक्ष्मशरीरम् इति । किं चान्यत् --- निमित्तनैमित्तिकप्रसङ्गेन(प्.43) । तत्र निमित्तं धर्माद्यष्टविधम् । तत् पुरस्तात् वक्ष्यामः "धर्मेण गमनम् ऊर्ध्वम्" इत्यादि । प्रकृतिः प्रधानम् । विभुत्वं प्रभुत्वं तस्य योगात्(तद्विभुत्वयोगात्) । यथा कश्चिद् राजा प्रभुत्वयोगेन स्वराष्ट्रे यद् यद् इच्छति तत् तत् करोति । एवं प्रधानम् अपि प्रभुत्वयोगेन मानुष्यं वा दैवं वा तैर्यग्योन्यं वा कुरुते । एवं सूक्ष्मशरीरं त्रयोदशविधेन करणेन संयुक्तं हस्तिन्या उदर प्रविश्य हस्ती भवति । स्त्रीशरीरं प्रविश्य मनुष्यो भवति । पशुर् भवति । तस्मात् नटवद् व्यवतिष्ठते लिङ्गम्
अत्राह --- उक्त पुरा भावैर् अधिवासितं लिङ्गं सूक्ष्मशरीरं संसरति । तत् के भावा इति? अत्रोच्यते ---
सांसिद्धिकाश् च भावाः प्राकृतिका वैकृताश् च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश् च कललाद्याः
त्रिविधा भावाश् चिन्त्यन्ते । तत्र केचित् सांसिद्धिकाः, केचित् प्राकृतिकाः, केचिद् वैकृताः । तत्र सांसिद्धिकास् तावत् --- यथा कपिलस्य भगवतः परमर्षेर् आदिसर्गे उत्पन्नस्येमे चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञानं वैराग्यम् ऐश्वर्यम् इति । एते सांसिद्धिका उच्यन्ते । प्राकृतिका नाम ब्रह्मणः पुत्राः किल सनकादयो बभूवुः । तेषाम् उत्पन्नकार्यकारणानां शरीरवतां षोडशवर्षाणाम् एवैते चत्वारो भावा अकस्माद् एवोत्पन्ना निधिदर्शनवत् । एते च प्राकृतिका भावा उच्यन्ते । वैकृतिका यथा --- आचार्यादिमूर्तिम् अधिकृत्य उत्पन्ना वैकृतिका इत्य् उच्यन्ते । आचार्यं निमित्तं कृत्वा ज्ञानम् उत्पद्यते । ज्ञानाद् वैराग्यं, वैराग्याद् धर्मो, धर्माद् ऐश्वर्यम् । एवम् एते चत्वारो भावा अस्मदादिष्व् अपि वर्तन्ते । तद् एव वैकृता इत्य् उच्यन्ते । एवम् एते त्रिधा भावा व्याख्याता यैर् अधिवासितं महदादि लिङ्गं संसरति । अत्राह --- धर्मो, ज्ञानम्, वैराग्यम् ऐश्वर्यम्, अधर्मो ऽज्ञानम् अवैराग्यम् अनैश्वर्यम् । एवम् एते ऽष्टौ भावाः क्व वर्तन्ते? पूर्वर्षिभिः दृष्टाः करणाश्रयिणः । करणान्य्(प्.44) उच्यन्ते बुद्धिकर्मान्तःकरणभेदात् त्रयोदश । तान्य् आश्रित्याष्टौ भावाः प्रवर्तन्ते । उक्तं हि "अध्यवसायो बुद्धिर् धर्मो ज्ञानं विराग ऐश्वर्यम्" इत्य् एवमादि । किं चान्यत् --- कार्याश्रयिणश् च कललाद्याः । यथा सूक्ष्मशरीरम् उत्पत्तिकाले मातुर् उदरं प्रविशति । मातुः रुधिरं पितुः शुक्रं तस्य सूक्ष्मशरीरस्योपचय कुरुते । कललबुद्बुदघनमांसपेशीगर्भकुमारयौवनस्थाविरादयो ऽन्नपानरसनिमित्ता उत्पद्यन्ते । तत्र उच्यते --- "कार्याश्रयिणश् च कललाद्या" इति । कललग्रहणं विरागनिमित्तम्
उक्तं पूर्वस्याम् आर्यायां "निमित्तनैमित्तिकप्रसङ्गेन" "नटवद् व्यवतिष्ठते लिङ्गम्" इति । तत्र किं निमित्तं किं च नैमित्तिकम् इति? अत्रोच्यते ---
धर्मेण गमनम् ऊर्ध्वं गमनम् अधस्ताद् भवत्य् अधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययाद् इष्यते बन्धः
तत्र धर्मो निमित्तम् । इह लोके धर्मं यः कुरुते तन् निमित्तं कृत्वा सूक्ष्मशरीरम् ऊर्ध्वं गच्छति । ऊर्ध्वम् इत्य् अष्टानां देवयोनीनां ग्रहणम् । तत्र आद्यं ब्राह्मम् । प्राजापत्यम्, ऐन्द्रं, पित्र्यं, गान्धर्वं, याक्षं, राक्षसं, पैशाचम् इत्य् एतान्य् अष्टौ स्थानानि सूक्ष्मशरीरं गच्छति । तत्र धर्मो निमित्तम्, ऊर्ध्वगमनं नैमित्तिकम् । किं चान्यत् --- गमनम् अधस्ताद् भवत्य् अधर्मेण । इह लोके यमनियमलक्षणो धर्मस् तद्विपरीतो ह्य् अधर्मः, तेनाधर्मेण सूक्ष्मशरीरम् अधस्ताद् गच्छति पश्वादि । पशुमृगपक्षिसरीसृपस्थावरम् इति पञ्चधा तिर्यक् स्थावरान्तम् । अत्राधर्मो निमित्तम्, अधोगमनं नैमित्तिकम् । किं चान्यत् --- ज्ञानेन चापवर्गः । यत् पञ्चविंशतितत्त्वज्ञानं तेन ज्ञानेन तत्सूक्ष्मशरीरं निवर्तते । परमात्मापवर्गं प्राप्नोति मोक्षं गच्छतीत्य् अर्थः । अतो ज्ञानं निमित्तम् अपवर्गो नैमित्तिकः । अन्यच् च विपर्ययाद् इष्यते बन्धः । कस्य विपर्ययात् । ज्ञानस्य विपर्ययो ऽज्ञानं, तेनाज्ञानेनाहं दर्शनीयः सुभगो ऽहं भोक्ताहम् इति मन्यते । तेनाज्ञानेन मनुष्यतिर्यग्देवेष्व् आत्मानं निबध्नाति । न मोक्षं गच्छतीत्य् अर्थः । अतो ऽज्ञानं निमित्तं बन्धो नैमित्तिकाः । स च बन्धस् त्रिविधः । प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश् चेति । तत्र प्रकृतिबन्धो नामाष्टासु प्रकृतिषु परत्वेनाभिमानः । वैकारिकबन्धो नाम ब्रह्मादिस्थानेषु श्रेयोबुद्धिः । दक्षिणाबन्धो नाम गवादिदानेज्यानिमित्तः । एवं चतुर्विधं निमित्तनैमित्तिकं व्याख्यातम्
(प्.45)
अन्यद् अप्य् एवंविधम् उच्यते चतुर्धा ---
वैराग्यात् प्रकृतिलयः संसारो राजसाद् भवति रागात् ।
ऐश्वर्याद् अविघातो विपर्ययात् तद्विपर्यासः
यथा कस्यचिद् वैराग्यम् अस्ति । (जितेन्द्रियो विषयेभ्यो विरक्तो न यमनियमपरः केवलम्) न तु ज्ञानम् अस्ति गुणपुरुषान्तराख्यम् । तेनाज्ञानेन वैराग्यपूर्वेण नास्ति मोक्षः । केवलम् अष्टासु प्रकृतिषु लयो भवति प्रधानबुद्ध्यहङ्कारतन्मात्रेषु । तत्र लीनम् आत्मानं मुक्तम् इत्य् अवगच्छति भूयः संसरणकाले संसरति त्रिषु लोकेषु शरीरोत्पत्तिर् भवति । तत्र वैराग्यं निमित्तं प्रकृतिलयो नैमित्तिकः । किं चान्यत् --- संसारो राजसाद् भवति रागात् । यो ऽयं राजसो रागो ऽवैराग्यं यज्ञं करोति, दानं ददाति, अमुनामुष्मिन् लोके सुखं मे भावीति । तेन रागेण संसारो भवति । ब्रह्मादिस्थानेषु जन्म भवति । तत्र रागो निमित्तं संसारो नैमित्तिकः । किं चान्यत् --- ऐश्वर्याद् अविघातः यत् पूर्वम् ऐश्वर्यम् अणिमादिकम् अष्टविधं निर्दिष्टं तस्माद् ऐश्वर्यात् प्रार्थितानाम् अविघातो भवति न मुक्तिः । अविघातो ऽस्खलनम् । विपर्ययात् तद्विपर्यासः । विपर्ययाद् अनैश्वर्यात् तद्विपर्यासः प्रार्थितानाम् अप्राप्तिर् इत्य् अर्थः । तत्रानैश्वर्यं निमित्तम् । प्रार्थितस्याप्राप्तिलक्षणो विपर्यासो नैमित्तिकः । एवं षोडशको नित्यनैमित्तिकप्रसङ्गो व्याख्यातः । प्रकृतिलयः प्रकृतिबन्ध इत्य् उच्यते । यज्ञादिभिर् दक्षिणाबन्ध इत्य् उच्यते । ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्य् उच्यते
ननु निमित्तनैमित्तिकप्रसङ्गः किमात्मक इति? अत्रोच्यते ---
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्देन तस्य भेदास् तु पञ्चाशत्
एष इति । आर्याद्वयेन षोडशविधो नैमित्तिकः सर्ग उक्तः । प्रत्ययसर्ग उच्यते । प्रत्ययाद् बुद्धेर् उत्पन्नो यस्मात् तस्मात् प्रत्ययसर्ग इत्य् उच्यते । उक्तं हि पुरस्तात् "अध्यवसायो बुद्धिः" इत्यादि । सो ऽयं प्रत्ययसर्गो भूयश् चतुर्धा भिद्यते । यस्माद् आह --- विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । संशयबुद्धिर् विपर्ययः स्थाणुर् अयं पुरुषो वेति । भूयो ऽपि स्थाणुं प्रसमीक्ष्य न शक्नोत्य् अन्तरं गन्तुम् एवम् अस्याशक्तिर् उत्पन्ना । ततस् तृतीयः तम् एव स्थाणुं(प्.46) ज्ञातुं संशयितुं वा नेच्छति किम् अनेनास्माकम् इत्य् एषा तुष्टिः । भूयश् चतुर्थो (दृष्टे यस् तस्मिन्) स्थाण्वादिरूढां वल्लीं पश्यति शकुनिं वा । ततो ऽस्य निश्चय उत्पद्यते स्थाणुर् अयम् इत्य् एषा सिद्धिः । एवम् एष प्रत्ययसर्गो भिन्नश् चतुर्धा विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । तस्य चतुर्विधप्रत्ययसर्गस्य गुणवैषम्यविमर्देन पञ्चाशत् भेदा भवन्ति । सत्त्वरजस्तमांसि त्रयो गुणास् तेषां वैषम्यं तद्विमर्देन । यदा सत्त्वम् उद्रिक्तं तदा रजस्तमसी गौणे । यथादित्योदयान् नक्षत्रतेजसो गौणत्वम् । एवं यदा रजसा सत्त्वतमसी, तमसा सत्त्वरजसी गौणे तदा तद्विमर्दो भवति । तेन विमर्देन तस्य चतुर्विधस्य प्रत्ययसर्गस्य पञ्चाशद् भेदा भवन्ति
तान् आह ---
पञ्च विपर्ययभेदा भवन्त्य् अशक्तेश् च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर् नवधाष्टधा सिद्धिः
सुगमम्
विपर्ययस्य च तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति पञ्च भेदाः । तेषां भेदान्तराण्य् आह ---
भेदस् तमसो ऽष्टविधो मोहस्य च दशविधो महामोहः ।
तामिस्रो ऽष्टादशधा तथा भवत्य् अन्धतामिस्रः
तमसस् तqअवद् अष्टविधा प्रकृतिः । तद्वस्तु मलयतीति तमः । तस्य परम् अष्टासु प्रकृतिषु लयो भवति । तद् यथा प्रधानं बुद्धिर् अहङ्कारः पञ्चतन्मात्राणीत्य् एतेषु । तत्र लीनम् आत्मानं मुक्तो ऽहम् इति मन्यते । स च तस्य विपर्ययः । एवं तमसो ऽष्टधा भेदः । मोहस्य च अष्टविध एवेत्य् अर्थः । यत्तदणिमाद्यष्टविधम् ऐश्वर्यम् उक्तं तस्मिन् सक्ता ब्रह्मादयो देवता न मोक्षपदम् इच्छन्ति । तस्यैश्वर्यस्य शुभकर्मणोपात्तस्य क्षये पुनः संसरन्ति । अयम् अष्टविधो मोहस्यापि भेदः । महामोहस्य दशविधो भेदः । देवानां शब्दादयः पञ्चतन्मात्राख्या विषया अविशेषाः केवलानन्दरूपा निरुपाधिदुग्धवच् छान्तादिसञ्जातसुखादिविरहिता ये भवन्ति स्वर्गप्राप्तौ । एवं मनुष्याणां भौतिकशरीरतया सुखदुःखमोहसम्पन्नाः शान्तघोरमूढा भवन्तीत्य् एष दशविधो महामोहः । तद् एतेषु दशसु ब्रह्मेन्द्रादयो देवा मनुष्याश्(प्.47) च तिर्यग्योन्यासक्ताश् च दृश्यन्ते । तेन हि विषयेभ्यः परम् अस्तीति मूढविज्ञानास् तदासक्त्या गुणपुरुषान्तरोपलब्धिरूपं नित्यनिरतिशयसुखाभिव्यक्तये ज्ञानावबोधं न कुर्वन्तीत्य् एष महामोहः । तेनामी ते मुक्तिं न भजन्ते । तामिस्रो ऽष्टादशधेति । देवमनुष्याणां दश विषयाः प्राग् अभिहिता अविशेषसविशेषतया । अणिमाद्यैश्वर्यं चाष्टगुणम् एवम् अष्टादशधा भवति । तेभ्यः केनचिद् वैगुण्येनाप्राप्त्याभिहितस्य यः क्रोधः स तामिस्र इत्य् उच्यते । तथा अष्टादशधा चेत्य् अर्थः । अन्धतामिस्रो ऽपि भवति तत्सङ्ख्य एव । तथा एवम् अष्टादशधात्रापि । तेषु च मरणत्रासाद् दुःखम् उत्पद्यते । ऐश्वर्ये विद्यमान ऐश्वर्यं परित्यज्य मृत्युना ह्रियमाणस्य गच्छामीति सङ्कल्पयतो यस् त्रासः सो ऽन्धतामिस्र इत्य् उच्यते दश विषयानैश्वर्यं प्राप्यापि भोक्तुं न लभते ऽन्तराले ऽपि म्रियत इति यावत् । एवम् अमी विपर्ययस्य तमःप्रभृतयः पञ्च भेदा विभिद्यमाना द्विषष्टिभेदाः सञ्जाताः । अत ऊर्ध्वम् अशक्तेर् अष्टाविंशतिभेदान् वक्ष्यामः
एकादशेन्द्रियवधाः सह बुद्धिवधैर् अशक्तिर् उद्दिष्टा ।
सप्तदश वधा बुद्धेर् विपर्ययात् तुष्टिसिद्धीनाम्
एकादशेन्द्रियवधाः आन्ध्यबाधिर्यघ्रानपाकजडत्वकुष्ठत्वमूकत्वकुणित्वपङ्गुत्वगुदावर्तक्लैब्योन्मादा इत्य् एकादशेन्द्रियवधाः । इन्द्रियाणां स्वविषयग्रहणासामर्थ्यं वध इव वधः । यथेह लोके कश्चिद् देवदत्तो यज्ञदत्तम् आहूय अब्रवीत् --- भो दुःखितो ऽस्मि किं करवाणीति । स तेनोक्तः साङ्ख्यज्ञानाधिगमं कुरुष्व दुःखान्तमोक्षं प्राप्स्यसीति । एवम् उक्तो ऽसाव् आह --- नाहम् एतद् अभ्यासं कर्तुम् अलम् । बाधिर्यात् गुरुवचनं न शृणोमि, शुश्रूषायाम् असमर्थो ऽस्मि । आन्ध्यकुणित्वपङ्गुत्वादिदोषाश्रयत्वात् कुतो मम ज्ञानाधिगम इति । एवम् एवान्ध्यमूकत्वोन्मादाद इन्द्रियोपघाता विद्याग्रहणे असमर्था बोद्धव्याः । एवम् एते एकादशेन्द्रियवधा अशक्तिर् उच्यन्ते । किञ् च --- सह बुद्धिवधैर् इति । बुद्धेर् वधा बुद्धिवधास् तैः सह । के ते बुद्धिवधाः? सप्तदशसङ्ख्याः । ते च सप्तदशापि --- नव तुष्टिभेदा अष्टौ सिद्धयः । तन्निरूपणप्रस्तावे व्याख्यास्यामः
(प्.48)
तत्र नवधा तुष्टिम् आह ---
आध्यात्मिक्यश् चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्च नव च तुष्टयो ऽभिहिताः
आत्मन्य् अधिकृत्य प्रवर्तन्ते ताश् चतस्रस् तुष्टयः । प्रकृतितुष्टिर् उपादानतुष्टिः कालतुष्टिः भाग्यतुष्टिश् चेति । यथा कश्चित् प्रकृतिमात्रं वेत्ति, न तु जानीते सगुणागुणत्वनित्यानित्यत्वचेतनाचेतनत्वसर्वगतत्वधर्मान् अस्याः केवलं प्रकृत्यस्तित्वमात्रज्ञानेनाहं जानामीति तुष्टः प्रव्रजितस् तस्य नास्ति मोक्षः । एषा प्रकृतितुष्टिः । कश्चित् त्रिदण्डकुण्डिकाक्षमालाकृष्णाजिनोपादानमात्रेणैवाहं मुक्त इत्य् अभिमानी ब्रूते । तेन मम मोक्षो भावीति । एतावन्मात्रेण तुष्टो ज्ञानाधिगमे न प्रवर्तते । तस्यापि न मोक्ष इत्य् एषा उपादानतुष्टिः । कश्चिद् एवं ब्रूते कालेन स्वयं मोक्षो भावी किं तत्त्वविज्ञानेनेति । ज्ञाने प्रवृत्त्यैव तुष्टः । तस्यापि न मोक्ष इति कालतुष्टिः । कश्चिद् एव महाभाग्येनैव मुक्तो भवति । तस्माज् ज्ञानम् असाधकं मुक्तेः स्याद् इति तावता तुष्टः तस्य न मोक्ष एषा भाग्यतुष्टिः । एवम् एता आत्मन्य् अधिकृत्य जायन्ते इत्य् आध्यात्मिक्यश् चतस्रस् तुष्टयः । बाह्यास् तु पञ्च तुष्टयः । पञ्चानां विषयाणाम् उपरमाद् भवन्ति, अर्जनरक्षणक्षयातृप्तिहिंसादोषान् भावयतः पञ्च । एवम् उभयत्र नव तुष्टयः । तत्रार्जनं नाम विषयाणां तदर्थं कृषिपाशुपाल्यादिव्यवसायदुःखम् अवधार्य तेभ्य एवोपरतस् तुष्टिं लभते । एषा पञ्चमी तुष्टिः । अर्जितानाम् अपि राजचौरादिभ्यो दुःखं विषयाणां रक्षणं कर्तुं तस्मान् न विषयैः कार्यम् इत्य् उपरतस् तुष्टिं लभते, सा षष्ठी तुष्टिः । रक्षणे ऽपि कृत उपभुज्यमानास् ते क्षीयन्त इति न तैः कार्यम् इत्य् उपरतस् तुष्टिं लभते, एषा सप्तमी । तथार्जनक्षयादिप्रतीकारैर् अपि कृतैर् नास्तीतीन्द्रियाणां वैतृष्ण्यम्, तस्मान् न तैः कार्यम् इत्य् उपरतस्याष्टमी तुष्टिः । प्रोक्तानां प्रतीकारे कृते ऽप्य् अर्जनादिप्रवृत्तेन हिंसाम् अन्तरेण भूतोपरोधं विनामी न प्राप्यन्ते तस्मान् न तैः कार्यम् इत्य् उपरतः तुष्टिं लभते । एषा नवामी तुष्टिः । एवम् एताः पञ्च बाह्यास् तुष्टयः । उभयं नव भवन्ति । (एवम् एताभिस् तुष्टिभिर् ज्ञानं विना मोक्षो ऽस्तीति केवलेन वैराग्येण तुष्टः ।) आसां नवानाम् अपि तुष्टीनां ग्रन्थान्तरे संज्ञान्तराणि । तद् यथा --- (प्.49) अम्भः सलिलम् ओघो वृष्टिः तारं सुतारं सुनेत्रं सुमरीचम् उत्तमाम्भसिकम् इति । आसां विपरीता अतुष्टयो ऽनम्भ इत्याद्याः । एवं तुष्ट्यतुष्टयो व्याख्याताः
मूल पाठ: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0