भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 31-41

31

अत्राह --- अचेतनानीन्द्रियाणि बुद्ध्यहङ्कारौ मनश् चेति केन हेतुना स्वां स्वां वृत्तिं प्रतिपद्यन्ते इत्य् अत्राह ---
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव हेतुर् न केनचित् कार्यते करणम्

31

स्वां स्वाम् इति वीप्साम् इच्छन्ति । (इति त्रयोदशविधस्य करणस्य ग्रहणं कृतं भवति) । प्रतिपद्यन्ते गृह्णन्तीत्य् अर्थआः । किं चान्यत् --- परस्पराकूतहेतुकां वृत्तिम् । बुद्धेर् आकूतं ज्ञात्वा अहङ्कारो ऽभिमानयति, मनः सङ्कल्पयति, इन्द्रियाणि स्वां स्वां वृत्तिं प्रतिपद्यन्ते । आकूतं नामाभिप्रायः । यथा किल चौरसेना ग्रामं हन्तुं गच्छति तत्र चौरसेनापतिना सङ्केतः(प्.35) कृतो ऽस्ति यदाहं हा हेति ब्रवीमि तदा सर्वैः समवायेन प्रवेष्टव्यम् । यदा पुनर् अहम् अहा हेति ब्रवीमि तदा निर्गन्तव्यम् । एतां चौरसेनापतेर् आज्ञाम् आकूतं ज्ञात्वा चौराः प्रविशन्ति निर्गच्छन्ति च । तथेह चौरसेनापतिस्थानीया बुद्धिः चौरस्थानीयानीन्द्रियाणि । किं स्वार्थं विषयं प्रतिपद्यन्ते आहोस्वित् परार्थम् इत्य् अत्रोच्यते । परार्थं गम्यते । यस्माद् आह --- पुरुषार्थ एव हेतुः पुरुषार्थः कर्तव्य एव इति गुणानां प्रवृत्तिः । तस्माद् एतत् त्रयोदशविधं करणं पुरुषार्थः प्रवर्तयति । यद् अप्य् उक्तम् --- अचेतनानि करणानि कथं प्रवर्तन्त इति । अत्र ब्रूमः --- न केनचित् कार्यते करणम् । नेश्वरेण नापि पुरुषेण । स्वभावो नाम कश्चित् पदार्थो (ना)स्ति । यस्मात् स्वयम् एव च त्रयोदशविधं करणं स्वे स्वे विषये प्रवर्तत इति

32

अत्राह --- उक्तं च भगवता न केनचित् कार्यते करणम् इति ।
तत् कतिविधं करणम् इति? अत्रोच्यते ---
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च

32

यद् अत्र करणम् इत्य् उक्तं तत् त्रयोदशविधम् इति बोद्ध्यम् । पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि, बुद्ध्यहङ्कारौ मन इति एतत् त्रयोदशविधं करणम् इति । अत्राह --- आहारकं धारकं प्रकाशकं च तद् इति । तत्राहारकम् इन्द्रियलक्षणम् । धारकम् अभिमानलक्षणम् । प्रकाशकं बुद्धिलक्षणम् । अत्राह --- किं तद् अस्ति यस्याहरणं धारणं प्रकाशनं च क्रियते । अत्रोच्यते --- कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च । कार्यम् इति शब्दस्पर्शरसरूपगन्धाः पञ्च, वचनादानविहरणोत्सर्गानन्दाः पञ्च । एते दश विषयाः कार्यम् इत्य् उच्यते । तं दशविधं विषयं बुद्धीन्द्रियैः प्रकाशितम् अर्थं कर्मेन्द्रियाण्य् आहरन्ति धारयन्ति च । तद् यथा तमसि स्थितं प्रदीपेन प्रकाशितं घटं हस्त आदत्ते धारयति च । तद् एवं यथा घटं तथा शेषाण्य् अपि

33

अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालम् आभ्यन्तरं करणम्

33

अन्तःकरणं त्रिविधम् इति बुद्ध्यहङ्कारमनसां ग्रहणम् । एतत् त्रिविधम् अन्तःकरणसंज्ञितम् । दशधा बाह्यं बुद्धिकर्मेन्द्रियभेदात् । किं चान्यत् । त्रयस्य विषयाख्यं बुद्ध्यहङ्कारमनसां त्रयाणाम् अन्तःकरणानां बाह्यं दशविधं(प्.36) करणं विषयाख्यं विषय(?) उपभोग्यम् इति । आभ्यन्तरं त्रिकं स्वामिभूतं बाह्यं दशविधं भृत्यभूतम् इत्य् अर्थः । किं चान्यत् --- साम्प्रतकालं बाह्यम् । यद् एतद् बाह्यं दशविधं करणम् उक्तं तत् साम्प्रतकालं वर्तमानविषयग्राहकं भवति । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि वर्तमानान्य् एव शब्दादीनि गृह्णन्ति । नातीतानि न च भावीनि । एवं वाक्पाणिपादपायूपस्थानि वर्तमानेषु वचनादेयभूमिमलोत्सर्गानन्देषु प्रवर्तन्ते नातीताभविष्यतोः । किञ् चान्यत् --- त्रिकालम् आभ्यन्तरं मनोऽहङ्कारबुद्धिरूपं करणं प्रवर्तते । बुद्धिर् वर्तमानं घटं बुद्ध्यते अतीतं भविष्यन्तं च स्मरति । तद् यथा --- युधिष्ठिरभीमसेनाव् आस्ताम् अतीतविषयग्राहिणी बुद्धिः । कल्की भविष्यति भाविवस्तुग्राहिणी । एवम् अहङ्कारो ऽपि त्रिकालवान् । यथाहम् अस्मिन् गृहे स्वामी आसं, भविष्यामि चेति । एवं मनो ऽप्य् अतीतं सङ्कल्पयति वर्तमानं भावि च । यत एवं तस्माद् उच्यते "त्रिकालम् आभ्यन्तरं करणम्" इति

34

अत्राह --- कानि इन्द्रियाणि सविशेषं विषयं गृह्णन्ति, कानि निर्विशेषम् । अत्रोच्यते ---
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
वाग् भवति शब्दविषया शेषान्य् अपि पञ्चविषयाणि

34

तेषाम् करणानां मध्ये येषाम् अयम् अधिकारो वर्तते तेषां यानि बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च तानि सविशेषं गृह्णन्ति अविशेषम् अपि विषयं गृह्णन्ति । अत्राह --- कस्य सविशेषं विषयं गृह्णन्ति कस्य निर्विशेषम् इति । अत्रोच्यते शब्दस्पर्शरसरूपगन्धाः पज्ञ देवानां तन्मात्रसंज्ञिता निर्विशेषाः केवलसुखलक्षणत्वात् । यस्मात् तत्र दुःखमोहौ न स्तस् तस्मान् निर्विशेषास् ते इति । तथा हि । विशिष्यन्ते शान्तघोरमूढत्वादिनेति विशेषास् तैः सह सविशेषाः, केवला निर्विशेषा इति तात्पर्यम् । एवं शब्दादयो मनुष्याणां सविशेषाः सुखदुःखमोहयुक्ता इत्य् अर्थः । देवानां तु बुद्धीन्द्रियाणि निर्विशेषं सुखात्मकं प्रकाशयन्ति । उक्तानि बुद्धीन्द्रियाणि देवानां मानुषाणां च । कर्मेन्द्रियाणि वक्ष्यामः । वाग् भवति शब्दविषया शेषान्य् अपि पञ्च विषयाणि । तत्र देवानां वाक् पादं पादार्धं श्लोकम् उच्चारयति । अस्माकम् अपि तथैव । अतो देवानाम् अस्माकं च वागिन्द्रियं तुल्यम् इत्य् अर्थः । किं चान्यत् --- शेषाण्य् अपि पञ्च विषयाणि इति । तेषां(प्.37) चतुर्णाम् एकैकं पञ्चविषयम् । पाणिस् तावत् शब्दस्पर्शरसरूपगन्धयुक्तः । एवं पञ्चलक्षणम् एव पाणीन्द्रियं सन्निकृष्टं पञ्चलक्षणं घटं गृह्णाति । (यस्मात् पञ्चलक्षणं हस्तं हस्तेन्द्रियं च) एवं शब्दादिपञ्चलक्षणः पादः पञ्चात्मिकायाम् एव भुवि विहरति । एवं पञ्चलक्षणे पायूपस्थे अपि पञ्चलक्षणाव् उत्सर्गानन्दौ कुरुतः । तस्मात् युक्तम् अभिहितम् --- "शेषाण्य् अपि पञ्च विषयाणि" इति

35

इदानीं बुद्धिविषयख्यापनायेदम् उच्यते ---
सान्तःकरणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि

35

सान्तःकरणा अन्तःकरणे अहंमनसी ताभ्यां सह वर्तते या बुद्धिः सा तथोक्ता । सा बुद्धिः सर्वं विषयं निरवशेषं त्रिष्व् अपि कालेषु यस्माद् अवगाहते व्याप्नोति गृह्णाति शब्दाद्यं पञ्चविधं तस्माद् एव तन्मनोबुद्ध्यहङ्कारलक्षणं त्रिविधम् एव करणं साधनं, क्रियते ऽनेनेतिकृत्वा । शेषाणि पुनः द्वारि बाह्ये यानि बुद्धिकर्मेन्द्रियतया प्रतीतानि श्रोत्रवाक्प्रभृतीनि दश तानि तस्या एव मनोऽहङ्कारयुक्ताया बुद्धेर् विषयग्रहणाय द्वाराणि प्रतीकान्य् एव न तु करणतया सान्वयानि । तथा एतैर् दशभिर् द्वारैः सान्तःकरणा बुद्धिर् एव विषयान् गृह्णातीति त्रिविधम् एव करणम् इत्य् अर्थः

36

किञ् चान्यत् ---
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति

36

एते इति बुद्धिकर्मान्तःकरणभेदास् त्रयोदेश प्रदीपकल्पाः प्रदीपतुल्याः । किं चान्यत् । परस्परविलक्षणाः । भिन्नलक्षणा विसदृशा इत्य् अर्थः । श्रोत्रं हि शब्दं गृह्णाति, न स्पर्शादीन् । एवम् इतरत्र । वाग् वक्त्य् एव न गृह्णाति गच्छति विहरत्य् आनन्दति । एवं पाण्यादिषु । मनः सङ्कल्पयति नाहङ्कुरुते । अहङ्कारश् चाभिमनुते न सङ्कल्पयति । एवं द्वादशापि स्वं स्वम् अर्थं पुरुषभोग्यतया प्रकाश्य बुद्धौ प्रयच्छन्ति निक्षिपन्ति । तद् बुद्धिस्थं विषयं सुखदुःखाद्यं पुरुष उपलभते

37

किञ् चान्यत् ---
सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम्

37

(प्.38)
निर्विशेषं त्रिष्व् अपि कालेषु यो यो विषयं प्रति उपभोगो देवतिर्यग्योनिषु तं तं पुरुषस्य यस्माद् हेतोर् बुद्धिर् एव साधयति निष्पादयति । राजामात्यवत् । यथा सर्वेषां भृत्यानां मन्त्री उपलब्धिं विधाय राजनि निवेदयति । एवं कर्मेन्द्रियाणि प्रकाश्य बुद्धौ प्रयच्छन्ति । बुद्धिर् अपि पुरुषाय प्रयच्छति समर्पयति । अनेन प्रकारेण बुद्धिर् अभ्युदयफलेन । यावज्ज्ञानं नोत्पद्यते तावत् पुरुषं योजयति । स्वैरिणीव कामुकं मूढविज्ञानं घृताद्युपचारैः । बुद्धिप्रेरिता अहंमनोबुद्धिकर्मेन्द्रियाख्या विषयान् न स्वार्थं न च बुद्ध्यर्थं किं तु पुरुषार्थम् एव साधयन्ति । यथा सलक्ष्मीकस्वैरिणीगृहे दास्यस् तदादेशेन रसवतीं न स्वार्थं न च स्वामितयावस्थितस्वैरिण्य् अर्थं किं तु तयापहृतविवेकविज्ञानस्य कामुकस्य कृते निर्वर्तयन्ति तद्वत् । यावद् असौ विमूढस् तावद् अनया बुद्ध्या स्वैरिण्य् एव कामुको विषयैर् उपह्रियते । यदासौ कथम् अपि गुरुशास्त्रात्मानुभवादिभिर् आत्मानं चेतयते तदा स्वैरिणीव बुद्धिर् अपि पुरुषं विहाय संशाम्यति । ततो ऽसौ केवलतयावतिष्ठते । तदनुभवावस्थितिर् मुक्तिर् इति यत् किञ्चिद् इदम् अप्रस्तुतम् । प्रस्तुतम् उच्यते । किञ् चान्यत् । अतः सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् । सूक्ष्मं दुर्विज्ञेयम् । प्रधानपुरुषान्तरं नानात्वम् । सूक्ष्मत्वाद् अतीव दुर्बोधम् इति यावत् । बुद्धिर् हि अध्यवसायात्मिका स्वव्यापारेण चाध्यवसायेन साधयति । अहङ्कारेन्द्रियतन्मात्रभूताध्यवसायेन जगत् प्रधानपुरुषान्तरविवेचनेन विविच्य स्वयं म्रियते । अत एवोक्तम् ---
"अहङ्कारो धियं ब्रूते मैनं सुप्तं प्रबोधय ।
प्रबुद्धे परमानन्दे न त्वं नाहं न तज्जगत् ॥
मयि तिष्ठत्य् अहङ्कारे पुरुषः पञ्चविंशकः ।
तत्त्ववृन्दं परित्यज्य स कथं मोक्षम् इच्छति ॥
यो ऽसौ सर्वेश्वरो देवः सर्वव्यापी जगद्गुरुः ।
देहीतिपदम् उच्चार्य हा मयात्मा लघुः कृतः" ॥
अकृतपुण्यचरणैर् न प्राप्यं प्रधानपुरुषयोर् नानात्वम् । तयोर् एवान्तरं दर्शयति । त्वम् अन्यम् आत्मानं न वेत्सि । प्रधानम् अन्यत् । सत्त्वरजस्तमांसि त्रयो गुणाः प्राधानिका अमूर्ताः साम्यावस्थायां प्रधानाख्याः । तेषाम् एकतयोद्रेकात् त्रिगुणा बुद्धिर् अन्या, अन्यो ऽहङ्कारः, पञ्च तन्मात्राण्य् अन्यानि, एकादशेन्द्रियाण्य् अन्यानीति बुद्ध्वा तत्त्वानि मोक्षं गच्छन्ति । न हि भगवतः कपिलस्य मते किम् अपि कर्तव्यम् अनुष्ठेयतया, किं तु साङ्ख्यानां (प्.39) पञ्चविंशतितत्त्वज्ञानम् एव साधर्म्येण वैधर्म्येण च निःश्रेयसहेतुः । उक्तं च ---
हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् ।
यदि विदितं ते कपिलमतं तत् प्राप्स्यसे मोक्षसौख्यं च

38

अत्राह --- उक्तं भगवता पूर्वस्याम् आर्यायां "विशेषाविशेषविषयाणीन्द्रियाणि" इति । तत्र के विशेषा के ऽविशेषा इति । अत्रोच्यते ---
तन्मात्राण्य् अविशेषास् तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश् च मूढाश् च

38

यानि भूतादिसंज्ञात् तामसाद् अहङ्काराद् उत्पन्नानि पञ्च तन्मात्राणि शब्दादीनि तान्य् अविशेषा इत्य् उच्यन्ते । देवानां तन्मात्राणि सुखलक्षणा विषयास् तत्रापि रजस्तमसी स्तः किं तु तत्र सत्त्वम् उत्कटत्वेन वर्तते तस्माद् अविशेषा इत्य् उच्यन्ते । न विशिष्यन्ते शान्तघोरमूढत्वादिभिः सत्त्वोद्रेकात् केवलसुखतया इत्य् अर्थः । तर्हि विशेषाः के? अत्राह --- तेभ्यो भूतानि पञ्च पञ्चभ्यः । शब्दादिभ्यः पञ्चभ्यः आकाशादीनि पञ्च महाभूतानि पूर्वपूर्वानुप्रवेशाद् एकद्वित्रिचतुष्पञ्च गुणान्य् उत्पद्यन्ते । एते स्मृता विशेषाः । अत्राह --- एतेषां किं लक्षणम् इति । अत्रोच्यते । एतानि पञ्च महाभूतानि मनुष्याणां विषयाः । शान्ता घोरा मूढाश् च । तत्राकाशं शान्तं घोरं मूढं च । शान्तं तावत् सुखलक्षणम् । यथा कश्चिद् गर्भगृहात् निष्क्रान्तः अवकाशस्थितस् तस्य तदाकाशं सुखहेतुत्वाच् छान्तं स्यात् । तद् एवोष्णशीतवातादिसंयोगाद् दुःखत्वाद् घोरं स्यात् । पथि गच्छतः कान्दिशीकस्य केवलं सर्वत्राकाशं पश्यतो मार्गाद्यनभिज्ञस्य पुंसस् तद् एव मूढं स्यात् । एवं वायौ त्रैविध्यम् । यथा गर्भगृहवासिनो वातायनद्वारेण वायुः प्रविशन् सुखहेतुत्वाच् छान्तः । तेनैवोष्णमासि सम्पन्नेन दुःखोत्पादकतया दुःखी स्याद् इत्य् असौ वायुर् घोरः । स एव वायुः शीतकाले शीतं जनयन् मूढः । एवम् अग्निः शीतार्तस्य शान्तः । ग्रीष्मकाले तापार्तस्य घोरः । ग्रामादिदाहे प्रवृद्धो ऽग्निः पुंसो मोहोत्पादकतया मूढः । एवम् आपो घर्मार्तस्य सुखदत्वाच् छान्ताः । हेमन्ते दुःखदत्वाद् घोराः । समुद्रमध्यगतस्य पुंसः तीरम् अपश्यतो मोहहेतुत्वान् मूढाः । एवं पृथ्वी नवशाद्वलोपचिता प्रावृषि सुखकारिणीति शान्ता । ग्रीष्मकाले उष्णबालुका घोरा । सैव पथिकस्य मार्गानभिज्ञस्य प्राणिग्रामाद्यपश्यतो मूढा । एवं देवानां निर्विशेषा विषयाः । तन्मात्रसंज्ञिता निर्विशेषाः केवला एवानन्दमयाः शान्तघोरमूढतयाविशिष्टाः स्वभावरूपाः(प्.40) शर्कराकटुतिक्तादिरसा निश्चितं स्वभावमाधुर्यामृता उपमेयसुखशालिक्षीरम् इव । माधुर्यक्षारकट्वादिपार्थिवगुणसम्पृक्तं स्वभावरसं जलम् इवामी विषयाः(?) । देवानाम् एवं निर्विशेषाः स्युः । तन्मात्रसंज्ञिताः सुखलक्षणा एव । मनुष्याणां वियदादिभूतमयत्वात् भूतानीव सुखदुःखमोहलक्षणास् ते इत्य् अर्थः

39

अत्राह --- किम् एताव् अन्त एव विषयाः, न हि । किं त्व् अन्ये ऽपि सन्ति । के पुनस् ते इति? उच्यते ।
सूक्ष्मा मातापितृजाः सह प्रभूतैस् त्रिधा विशेषाः स्युः ।
सूक्ष्मास् तेषां नियता मातापितृजा निवर्तन्ते

39

तत्र सूक्ष्मास् तावत् पञ्च तन्मात्रकाः तैर् एवादिसर्गे सूक्ष्मशरीराणि त्रयाणाम् अपि लोकानां प्रारब्धानि । तत् सूक्ष्मशरीरमृतुकाले मातुर् उदरं प्रविशति । मातू रुधिरं पितुः शुक्रम् । वेदान्तवादिनो ऽप्य् एवम् आहुः । प्राणिनः स्वर्गनरकादिषु स्वकर्मभोगानन्तरमत्राजिगमिषवः सोममण्डले लीना भूत्वा वृष्टयो भवन्ति । ततो ऽन्नम्, तत् स्त्रीपुंसाभ्याम् उपभुक्तं शुक्रशोणिते, ततः पुरुष इति । "वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुषवचस"(छान्दोग्योपनिषद् 5 ।3 ।3) इत्य् आरभ्य "इति तु पञ्चम्याम् आहुताव् आप"(छान्दोग्योपनिषद् 5 ।9 ।1) इत्य् आहुः । पुराणेष्व् अपि
"सोमवृष्ट्यन्नरेतांसि पुरुषस् तत्र पञ्चमः ।
स जीवत्य् अग्नये पश्चाद् धरन्त्य् अस्माद् यतो ऽभवत्" ॥
इति ।
तद् एवं सूक्ष्मशरीरस्योपचयं करोति । मातुर् अशितपीतान्नरसो मातृनाडीसम्बन्धेन प्रविश्य सूक्ष्मशरीरस्य शुक्रशोणितमयस्योपचयं कुरुते । मातुश् च नाड्या बालस्य नाभिरन्ध्रं प्रविशति । यथैकेन मार्गेण शाकवाटस्याप्य् आयनम् उदकं करोति एवम् अन्नपानस्य रसो मातृनाडीगतो बालस्य नाभिं प्रविशति । प्रविश्य बालशरीरस्याप्य् आयनं करोति । तत्र सूक्ष्मशरीरस्याकृतिर् यादृग्लक्षणा बहिःशरीरस्य भवति हस्तपादशिरःपृष्ठोदरजङ्घागुल्फ इति । अपि च शिष्टा वदन्ति बहिःशरीरं षाट्कौशिकम् इति । रुधिरमांसत्वचो मातृजाः स्नाय्वस्थिमज्जानः पितृजाः । एवम् एतद् बाह्यशरीरम् आभ्यन्तरसूक्ष्मशरीरस्योपचयं कुरुते । तस्यैव बहिःशरीरोपचितस्य सूक्ष्मशरीरस्य प्रसवकाले योन्या निर्गतस्य मातुर् उदरात् बाह्यानि पञ्च महाभूतानि पृथिव्यादीनि विहरणसंस्थानीयानि कृतानि । यथा कस्यचिद् राजकुमारस्य मातापितृभ्याम् उपचितस्य पञ्च महाभूतानि कृतानि । आकाशम् अवकाशने, भूमिर् विहरणे, आपः पिण्डीकरणे शुद्धौ च, अग्निर्(प्.41) आहारपचने, वायुर् व्यूहने, अस्य शरीरस्यैवम् एते विशेषाः त्रिविधाः । सूक्ष्मा मातापितृजाः सह प्रभूतैः । प्र इत्य् उपसर्गः । एवं सूक्ष्मा मातापितृजा भूतानि चेत्य् अर्थः । तानि च पृथिव्यादीनि । एवम् एते त्रिधा विशेषाः । ये चान्ये प्राग् अभिहिता विशेषाः शान्ता घोरा मूढाश् च । अत्राह --- एतेषु त्रिष्व् अपि विशेषेषु के नित्याः के ऽनित्या इत्य् अत्रोच्यते --- सूक्ष्मास् तेषां नियताः । सूक्ष्मा इति यैर् आदिसर्गारम्भस् ते नियता नित्या इत्य् अर्थः । तैर् आरब्धं सूक्ष्मशरीरम् अस्मिन् स्थूलशरीरे पतति तद् अधर्मेण संयुक्तं पशुमृगपक्षिसरीसृपस्थावरान्तानि पञ्च स्थानानि पश्यति । धर्माधर्मयोः साम्येन ब्राह्मणादीनि चण्डालान्तानि पश्यति । एवं सूक्ष्मशरीरं नियतं यावत् संसारम् इत्य् अर्थः । तद् यावज् ज्ञानं गुणपुरुषान्तरोपलब्धिरूपं नोत्पद्यते तावत् संसरति, उत्पन्ने ज्ञाने निवर्तते । तस्मिंश् च निवृत्ते पुरुषो मोक्षं गच्छति । उक्तं च ---
"देहे मोहाश्रये भग्ने युक्तः स परमात्मनि ।
कुम्भाकाश इवाकाशे लभते चैकरूपताम्" ॥
"यथा दर्पणाभाव आभासहानौ" इत्यादि । तस्माद् एतत् सूक्ष्मम् । मातापितृजा निवर्तन्ते तत् सूक्ष्मशरीरं परित्यज्य मरणकाले मातापितृजं पतति । तत् सूक्ष्मशरीरं ज्ञानम् अविदुषां संसरति

40

अत्राह --- उक्तं च भगवता --- "मातापितृजा निवर्तन्ते तत् सूक्ष्मं संसरतीत्य् अर्थः । अत्रोच्यते ---
पूर्वोत्पन्नम् असक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैर् अधिवासितं लिङ्गम्

41

पूर्वोत्पन्नम् इत्यादि । सर्गोत्पन्नम् इत्य् अर्थः । यावज् ज्ञानं नोत्पद्यते तावत् संसारे स्थिरतरं स्थितम् इत्य् अर्थः । किञ् चान्यत् --- असक्तं, क्वचिन् न सक्तम् इत्य् असक्तं देवमानुषतिर्यक्षु सूक्ष्मत्वात् । नियतं नित्यम् इत्य् अर्थः । पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि पञ्च तन्मात्राणि मनो बुद्धिर् अहङ्कार एवम् अष्टादश --- महदादिसूक्ष्मपर्यन्तम् इति । महान्य् अस्यादौ, सूक्ष्माणि तन्मात्राणि शब्दादिविषयाख्यान्य् अन्ते यस्य तत् तथोक्तम् । अन्तःकरणबहिःकरणानि त्रयोदश तन्मात्राणि पञ्च चेति । अत्राह --- तत् किं करोति । अत्रोच्यते --- संसरति देवमानुषतिर्यग्योनिषु जीवभावम् आगच्छति । तद् धि(प्.42) निरुपभोगं शब्दादयो विषया उपभोगास् तैर् विरहितम् । त्रयोदशकरणात्मकम् एवेत्य् अर्थः । भावैर् अधिवासितं देवमानुषतिर्यग्भावाधिवासितम् एवेत्य् अर्थः । यथा तिलपतनवस्त्रवासनवत्(?) । तद्वत् शान्ता भावा भवन्ति । देवभावाः शुभेन मिश्रेण मानुषा अशुभेन तिर्यक्त्वम् । लिङ्गं प्रलयकाले प्रधाने लयं गच्छतीति लिङ्गम् । प्रकर्षेण धीयते क्षिप्यते ऽत्र सर्वम् इति प्रधानम्

मूल पाठ: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc