भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 21-30

21

अत्राह --- तस्मात् तत्संयोगात् इति प्रधानपुरुषसंयोग इति चेत्, संयोगः कः । अनेकविधो हि संयोगः । अन्यतरकर्मजो यथा स्थाणुश्येनयोः, सम्पातजो द्वयोर् वा संयोगो यथा द्व्यङ्गुलाकाशयोः, स्वाभाविको यथाग्न्युष्णयोः, शक्तिहेतुको यथा मत्स्योदकयोः, यादृच्छिकः सुपर्नयोर् वाकस्मिकः । अतः संशयः । अत्रोच्यते --- अन्यतरकर्मजसंयोगश् च संयोगो नैव प्रधानपुरुषयोर् विभुत्वानिष्क्रियत्वात् । नास्ति स्वाभाविको ऽपि । तयोर् नित्यत्वान् मोक्षाभावः स्याद् अवियोगत्वात् । एवम् एव विषयहेतुके शक्तिहेतुकत्वे च । अत्राह --- कस् तर्हि प्रधानपुरुषयोः संयोग इति । अत्रोच्यते । अर्थहेतुकः । कश् चासाव् अर्थ इत्य् अत्राह ---(प्.25)
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवद् उभयोर् अपि संयोगस् तत्कृतः सर्गः

21

पुरुषस्य तावद् दर्शनार्थं संयोगः । पुरुषः प्रधानेन सह संयुज्यते सुगुणां प्रकृतिं द्रक्ष्याम्य् अयम् अर्थः । कैवल्यार्थं तथा प्रधानस्य संयोगः । अस्य तपस्विनः पुरुषस्य ज्ञाने वर्तमानस्य कैवल्यं करिष्यामीति । कैवल्यं मोक्ष इत्य् अर्थः । यथा राजा पुरुषेण संयुज्यते प्रैषणं मे करिष्यतीति । पुरुषो ऽपि राज्ञा संयुज्यते वृत्तिं मे दास्यतीति । एवं तावद् राजपुरुषयोर् अर्थहेतुकः सम्बन्धः । तथा प्रधानपुरुषयोर् अप्य् अर्थहेतुकः सम्बन्धः संयोगः । किं चान्यत् । पङ्ग्वन्धवद् उभयोर् अपि संयोग इति । अपि चात्र दृष्टान्तः । यथा किल कश्चिद् अन्धः सार्थेन समं पाटलिपुत्रं प्रस्थितः स च सार्थश् चौरैर् अभिहतः । अन्धो ऽपि अवशेषजीवितः कृच्छ्रेण महता निर्जगाम । स च सर्वस्वजनविरहित इतश् चेतश् च परिभ्राम्यन् पन्थानम् अपश्यन् समन्ताच् चङ्क्रममाणः केनचिद् वनमध्यस्थेन पङ्गुना दृष्टः प्रोक्तश् च । भो भो अन्ध मा भैषीर् अहं पङ्गुर् मार्गदर्शने कुशली गन्तुम् असमर्थः । अन्धेन प्रतिवचनं प्रोक्तम् --- भोः पङ्गो यथा भवान् गमनाशक्तस् तथाहम् अपि न शक्नोमि द्रष्टुं, गन्तुं मम सामर्थ्यम् अस्ति । तव दर्शनसामर्थ्येनाहं भवन्तं स्कन्धेनादाय गच्छाम्य् एवम् उभयोर् दुःखपरिहारलक्षणा कार्यसिद्धिर् अस्तु । एवं तयोर् यथा स्वार्थलब्धिहेतुकः सम्बन्धः संयोगस् तुल्यः । तद्वत् । पङ्ग्वन्धवत् प्रधानपुरुषौ द्रष्टव्यौ । पङ्गुवत् पुरुषो द्रष्टव्यः । अन्धवत् प्रधानम् । पुरुषस्य दृक्शक्तिः । प्रधानस्य क्रियासामर्थ्यम् । एवं प्रधानम् अपि पुरुषस्य मोक्षं कृत्वा निवर्तते । पुरुषः प्रधानं दृष्ट्वा मोक्षं गच्छति । किं चान्यत् --- तत्कृतः सर्गः । तच्छब्देन प्रधानपुरुषौ सम्बध्येते । ताभ्यां प्रधानपुरुषाभ्यां कृतस् तत्कृतः सर्गः । तद् यथा --- स्त्रीपुरुषसंयोगात् पुत्रः सम्भवति । एवं प्रधानपुरुषसंयोगात् सर्गोत्पत्तिर् भवति । सर्गशब्देन महदादिलिङ्गोत्पत्तिर् इति ब्रुवते

22

ताम् उत्पत्तिं ब्रूमः ---
प्रकृतेर् महांस् ततो ऽहङ्कारस् तस्माद् गणश् च षोडशकः ।
तस्माद् अपि षोडशकात् पञ्चभ्यः पञ्च भूतानि

22

(प्.26)
प्रकृतिः प्रधानम् अधिकुरुते । ब्रह्म अव्यक्तं बहुधात्मकं मायेति पर्यायाः । तस्याः प्रकृतेर् महान् उत्पद्यते प्रथमः कश्चित् । महान्, बुद्धिः, मतिः, प्रज्ञा, संवित्तिः, ख्यातिः, चितिः, स्मृतिर् आसुरी हरिः, हरः, हिरण्यगर्भ इति पर्यायाः । ततो ऽहङ्कारः । तस्मान् महतो ऽहङ्कार उत्पद्यते । तस्य इमे पर्यायाः --- वैकृतस् तैजसो भूतादिर् अभिमानो ऽस्मिता इति । चतुःषष्टिवर्णैः परादिवैखरीपर्यन्ताभिधेयैर् यत् किम् अप्य् अभिधीयते बुद्ध्या समर्थ्य तत्सकलमाद्यन्ताकारहकारवर्णद्वयग्रहणेनोपरिस्थितपिण्डीकृतानुकारिणा बिन्दुना भूषितः प्रत्याहारन्यायेनाहङ्कार इत्य् अभिधीयते । तस्मात् अहङ्कारात् षोडशको गण उत्पद्यते । तामसाद् भूतादिनाम्नः पञ्चतन्मात्राणि शब्दादीनि । अत एव तानि मूढानि । सात्त्विकाद् वैकृताभिधानाद् बुद्धिकर्मात्मकानि मनःसहितानि एकादशेन्द्रियाणि । अत एव तानि किञ्चिज् जानन्ति । राजसात् तैजसाभिधानाद् उभयम् । मूढत्वाद् धि तमः । प्रकाशत्वात् सत्त्वम् । उभयगुणयोगात् षोडशको गणो ऽहङ्काराद् उत्पद्यते । तस्माद् अपि षोडशकात् मध्ये यानि पञ्च शब्दादितन्मात्राणि तेभ्यः पञ्च भूतान्य् आकाशादीनि । तत्र शब्दतन्मात्राद् आकाशम्, स्पर्शतन्मात्राद् वायुः, रूपतन्मात्रात् तेजः, रसतन्मात्राद् आपः, गन्धतन्मात्रात् पृथिवी इत्यादिक्रमेण पूर्वपूर्वानुप्रवेशेनैकद्वित्रिचतुष्पञ्चगुणान्य् आकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः । अत एव भूतानाम् उत्पत्तिलयावबोधनात् भ इति । आगतिगतिपरिज्ञानात् ग इति । विदन् योगी इति व(व इति?) । अनति चलतीति अन् । सकलवर्णसम्प्रदायाद् भगवान् इत्य् अभिमानसिद्धिः । "अप्य् अक्षरवर्णसामान्यान्(प्.27) निर्ब्रूयान् न संस्कारम् आद्रियेत"(निरुक्ति 2 ।4) इति नैरुक्तश्रुतिप्रामाण्यात् । उक्तं च ---
"उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति" ॥
श्रीविष्णुपुराणे षष्ठे ऽंशे(5 ।78) पराशरवचः ।
यद् उक्तम् ---
व्यक्ताव्यक्तज्ञ विज्ञानान् मोक्षः प्राप्यत इति । तत्र महदादिभूतपर्यन्तम् इत्य् एतद् व्यक्तं व्याख्यातम् । अव्यक्तम् अपि "भेदानां परिमाणात्"(साङ्ख्यकारिका 15) इत्यादिभिः पञ्चभिर् हेतुभिर् व्याख्यातम् । यद् उक्तम् ---
"पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः"

23

अत्राह --- प्रकृतेर् महान् इत्य् उक्तम् । तस्य महतः किं लक्षणम् इत्य् अत्रोच्यते ---
अध्यवसायो बुद्धिर् धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकम् एतद् रूपं तामसम् अस्माद् विपर्यस्तम्

23

अध्यवसायो बुद्धिर् इति । अध्यवसायो निश्चयः प्रतिपत्तिः अयं स्थाणुर् अयं पुरुष इति बुद्धेर् लक्षणम् । सा च बुद्धिर् अष्टाङ्गा । सात्त्विकतामसरूपभेदात् । तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यम् ऐश्वर्यम् इति । तत्र धर्मो नाम वर्णिनाम् आश्रमिणां च समयाविरोधेन यः प्रोक्तो यमनियमलक्षणः स धर्मः । तत्र पञ्च यमाः पञ्च नियमाः । "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः"(पातञ्जलयोगसूत्र 2 ।30) । "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः"(पातञ्जलयोगसूत्र 2 ।32) । एभिर् यमनियमैर् यः साध्यते स धर्मः ।
धारणार्थो धृञ् इत्य् एष धातुः शाब्दैः प्रकीर्तितः ।
दुर्गतिप्रपतत्प्राणिधारणाद् धर्म उच्यते ॥
तत्र या स्थावरजङ्गमानां भूतानां वाङ्मनःकायकर्मभिर् अद्रोहता सा अहिंसा । तथा यद् भूतहितम् अत्यन्तं दृष्टश्रुतानुमितिविज्ञातेष्व् अर्थेषु यथान्तःकरणप्रत्ययोपस्थितं तथैव इन्द्रियाणि अविलुप्य वञ्चनाभ्रान्तिप्रतिपत्तिबन्ध्यताविरहितवागुच्चारणं(प्.28) तत् सत्यम् । तथा यत् सम्भ्रमेष्व् अन्येषु वात्यन्तिकेषु प्रयोजनेषु स्वे स्वे स्थाने समत्वाद् ग्रहणस्योपरमस् तद् अस्तेयम् । तथा स्त्रीपुरुषसंयोगे परस्परलिङ्गसंयोगे शब्दस्पर्शरसरूपगन्धेषु यः सङ्गव्युदासः श्रोताद्युपरतिः असङ्कल्पश् च मनस उपरतिः सो ऽष्टाङ्गं ब्रह्मचर्यम् । एवं ह्य् आहुः संयोगशब्दस्पर्शरसरूपगन्धसङ्कल्पस्मृतिधर्मफलत्यागाद्यष्टाङ्गं ब्रह्मचर्यम् इति । अन्यच् च । ब्रह्मबीजं रेतस् तच् चरति न मुञ्चतीति ब्रह्मचारी । ब्रह्म वेदं वा गुरुणा प्रदत्तं चरतीति । ब्रह्मा स्वयम्भूस् तस्यायं दण्डकमण्डलुधारणादिरूप आकारो ब्रह्मवच् चरतीति वा । एवम् अर्जनक्रयविक्रयादिकल्पनाभेदानाम् अनुपादानं सर्वथा सर्वस्यास्वीकरणम् अपरिग्रहः । इति पञ्च यमाः । यश् चेन्द्रियाणाम् अन्तःकरणोपरमस् तच् छौचं बाह्यं मृज्जलादिना ।
"अभक्ष्यपरिहारस् तु संसर्गश् चाप्य् अचिन्तितैः ।
स्वधर्मे च व्यवस्थानं शौचम् एतत् प्रकीर्तितम्" ॥
तथा यद् भैक्षार्जितेन हविषा प्राणयात्रा । आध्यात्मिकस्याग्नेर् मन्त्रगृहीतेन होमः कर्तव्यः । अहन्य् अहनि यज्ञशेषाशनार्थम् एतद् आहारलाघवं सन्तोषः । "स यां प्रथमाम् आहुतिं जुहुयात् प्राणाय स्वाहा"(छान्दोग्योपनिषद् 5 ।19 ।1) इत्य् आरभ्य "स य इदम् अविद्वान् अग्निहोत्रं जुहोति यथाङ्गारान् अपोह्य भस्मनि हुतं(जुहुयात्?) तादृक् तत् स्यात्" (छान्दोग्योपनिषद् 5 ।24 ।1) इति श्रुतेः । तपः कृच्छ्रचान्द्रायणादि शरीरशोषणरूपम् ।
"विषया विनिवर्तन्ते निराहारस्य देहिनः ।" (भगवद्गीता 2 ।59)
इति स्मरणात् । नातपस्विनो योगः सिद्ध्यति । अनादिवासनाविचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर् नान्तरेण तपः सम्भेदम् आपद्यत इति तपस उपादानम् । तच् च चित्तप्रसादनम् अबाधमानम् आसेव्यम् इति मन्यन्ते । स्वाध्यायः प्रणवादिपवित्राणां जपः । ईश्वरप्रणिधानं क्रियाणां परमगुराव् अर्पणं तत्फलसंन्यासो वा । "ब्रह्मार्पणं ब्रह्महविः(भगवद्गीता 4 ।24)" इति, "अनाश्रितः कर्मफलम्(भगवद्गीता 6 ।1)" इति श्रवणात् । इत्य् अमीषां यमनियमादीनां सेवनात् "अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः"(पातञ्जलयोगसूत्र 2 ।35) इत्याद्याः सिद्धयः । वैपरीत्ये तु "वितर्कबाधने प्रतिपक्षभावनम्"(पातञ्जलयोगसूत्र 2 ।33), "वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्"(पातञ्जलयोगसूत्र 2 ।34)(प्.29) एवं च वर्तमानस्य योगिनः "स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्"(पातञ्जलयोगसूत्र 3 ।51) इति भिक्षोर् एते यमनियमाः । एभिर् यमनियमैर् वा साध्यते स धर्मो व्याख्यातः । अधुना ज्ञानम् आह --- ज्ञानं द्विविधम् । बाह्यम् आभ्यन्तरं च । तत्र बाह्यम् --- वीणापणवगन्धर्वचित्रकथागणितव्याकरणशास्त्राणि । आभ्यन्तरम् --- गुणपुरुषान्तरोपलब्धिलक्षणम् । अन्ये गुणाः सत्त्वरजस्तमांसि अन्यः पुरुष इति । बाह्येन ज्ञानेन लोकोपपत्तिर् आभ्यन्तरेण मोक्ष इति । एतत् ज्ञानं विषयोपरमात् । वैराग्यम् आह --- अर्जनरक्षणक्षयातृप्तिहिंसादिदोषान् दृष्ट्वा यो विषयेभ्यो विरक्तस् तस्य मोक्षो नास्तीति । आभ्यन्तरेण ज्ञानपूर्वकेण वैराग्येण मोक्षो भवति बाह्येन संसार इति । ऐश्वर्यं ईश्वरभावेनेत्य् अष्टविधम् । अणिमा लघिमा गरिमा महिमा प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं यत्रकामावसायित्वम् इति । एतानि धर्मादीनि चत्वारि सात्त्विकरूपाणि बुद्धेः । यदा सत्त्वेन रजस्तमसी अभिभूते स्तस् तदा सत्त्वोद्रिक्तः पुमान् एतान् गुणान् आप्नोति । किं चान्यत् । तामसम् अस्मात् विपर्यस्तम् । अस्मात् सात्त्विकाद् धर्मादेर् विपर्यस्तं विपरीतम् अधर्माज्ञानाद्यं चतुर्धा बुद्धे रूपं तामसम् । ये हिंसादयो वितर्का एकाशीतिभेदाः । पृथग् दशापि यमनियमाद्याः । तथा अधर्मो ऽज्ञानम् अवैराग्यम् अनैश्वर्यम् इत्य् अष्टधा सात्त्विकतामसभेदा बुद्धिः । अस्या एवम् विधाया बुद्धेर् अहङ्कारो जायते

24

इदानीम् अहङ्कारस्य लक्षणं व्याख्यास्यामः । तद् उच्यते ---
अभिमानो ऽहङ्कारस् तस्माद् द्विविधः प्रवर्तते सर्गः ।
ऐन्द्रिय एकादशकस् तन्मात्रपञ्चकश् चैव

24

(प्.30)
अभिमानो ऽहङ्कार इति । रूपे अहम् रसे अहम् गन्धे अहम्, अहं विद्वान्, अहं दर्शनीय इत्येवमाद्य् अभिमानो ऽहङ्कारः । तस्मात् अभिमानलक्षणाद् अहङ्काराद् द्विविधः प्रवर्तते सर्गः । सर्ग इति सृष्टेः पर्यायः । कश् चासौ सर्गः? तद् उच्यते । ऐन्द्रिय एकादशकः । श्रोत्रादीनीन्द्रियाणि मनःपर्यन्तानि । तन्मात्रपञ्चकश् चैव । तन्मात्राण्य् अत्र शब्दादीनि गन्धपर्यन्तानि । एवम् एकादशेन्द्रियाणि पञ्चतन्मात्राणि चोत्पन्नानि

25

अत्राह --- त्रिविधो ऽहङ्कारस् तं व्याख्यास्यामः । तत्र कतरस्माद् अहङ्काराद् इन्द्रियाण्य् उत्पद्यन्ते, कतरस्माद् वा तन्मात्राणीति । अत्रोच्यते ---
सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात् ।
भूतादेस् तन्मात्रः स तामसस् तैजसाद् उभयम्

25

सात्त्विक इति । यदा सत्त्वम् उत्कटं भवति अहङ्कारे तेन च सत्त्वेन रजस्तमसी अभिभूते स्यातां तदा सात्त्विको ऽहङ्कार उच्यते । तस्य सात्त्विकस्य वैकृतिक इति पूर्वाचार्यैः संज्ञा कृता । स वैकृतिको भूत्वा अहङ्कार एकादशेन्द्रियाणि उत्पादयति । तस्मात् सात्त्विकानीमानि विशुद्धानि स्वविषयग्रहणसमर्थानि भवन्ति । तस्माद् उच्यते --- "सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात्" इति । भूतादेस् तन्मात्राः । भूतादेस् तमोबाहुल्याद् गौणीभूतसत्त्वरजसो भूतादिनाम्नः पूर्वाचार्यैर् निरूपिताद् अहङ्कारात् तन्मात्रः शब्दादिपञ्चको गणो जायते । अभिभूतसत्त्वतमसो राजसात् तैजसाभिधानाद् अहङ्कारात् प्रवृत्तिकर्मण उभयं प्रकाशात्मकम् एकादशेन्द्रियकं मोहात्मकं तन्मात्रिकं चासीद् इति सम्बन्धः । तैजस एव राजसे ऽहङ्कारे क्रियाशक्तिर् अस्ति । सत्त्वं निष्क्रियम् एकाकि न शक्नोत्य् उत्पादयितुम् । तमश् च मूढत्वाद् अक्रियम् असमर्थं विना रजः सृष्टिम् उत्पादयितुम् । अत उभे सत्त्वतमसी सृष्टिविषये रजसानुगृहीते ऐन्द्रियकं तान्मात्रिकं च गणद्वयं जनयत इति तात्पर्यार्थः

26

तत्र कानि बुद्धीन्द्रियाणि कानि कर्मेन्द्रियाणीति? उच्यते ---
बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि ।
(प्.31)
वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्य् आहुः

26

श्रोत्रादीनि बुद्धीन्द्रियाणीति उच्यन्ते । शब्दस्पर्शरूपरसगन्धान् बुद्ध्यन्त इति बुद्धीन्द्रियाणि । इन्द्रियाण्य् एव तानीन्द्रियाणि । इन् इति विषयाणां नाम, तानिनः विषयान् प्रति द्रवन्तीति इन्द्रियाणि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्य् आहुः । कर्म कुर्वन्ति कारयन्ति च । कर्मेन्द्रियाणां वृत्तिः । वाक् वदतिकर्म, हस्तौ ग्रहणकर्माणौ, पादौ विषमसमनिम्नोन्नतभूप्रदेशेषु क्रामतः, पायुर् यथाभुक्तान्नोदकमलम् उत्सृजति, उपस्थ आनन्दं करोति पुत्रम् उत्पादयतीत्य् अर्थः । एवम् एताः कर्मेन्द्रियाणां वृत्तयो व्याख्याताः

27

अत्राह --- मन इन्द्रियं तत् किं लक्षणम् इति । अत्रोच्यते ---
उभयात्मकम् अत्र मनः सङ्कल्पकम् इन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च

27

उभयात्मकम् अत्र मनः । कर्मेन्द्रियेषु कर्मेन्द्रियम्, बुद्धीन्द्रियेषु बुद्धीन्द्रियम् । यथा देवदत्तो गोपालमध्ये स्थितो गोपालत्वं कुरुते मल्लमध्ये स्थितो मल्लत्वं कुरुते । कस्मात्? यस्माद् बुद्धीन्द्रियाणां वृत्तिं सङ्कल्पयति कर्मेन्द्रियाणां च । तस्माद् उभयात्मकं मनः । किं चान्यत् । इन्द्रियं च साधर्म्यात् । सहधर्मस्य भावः साधर्म्यम् । यस्मात् कर्मेन्द्रियाणि बुद्धीन्द्रियाणि च सात्त्विकाद् अहङ्काराद् उत्पद्यन्ते, मनो ऽपि तस्माद् एव उत्पद्यते । तस्माद् इन्द्रियं मनः । तत्र मनसः का वृत्तिः? सङ्कल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः, कर्मेन्द्रियाणां वचनादयः । एवम् एकादशेन्द्रियाणि सह वृत्तिभिर् व्याख्यातानि । अत्राह --- एकादशेन्द्रियाणि केन कृतानि पुरुषेण ईश्वरेण आहोस्वित् स्वभावेनेति कुत इयम् आशङ्केति चेत्, इमान्य् एकादशेन्द्रियाणि एकादशविषयग्राहकाणि भवन्ति । तत्रान्तःकरणप्रधानबुद्ध्यहङ्काराद्यचेतनम् । ततश् च नूनं चेतनेन पुरुषेणेश्वरेण वा स्वभावेनेति । अत्रोच्यते --- गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च । सत्त्वादयस् त्रयो गुणास् ते यथा परिणमन्ति तस्माद् गुणपरिणामविशेषाद् इमान्य् एकादशेन्द्रियाणि नाना । तदर्थानि भिन्नानि । शब्दस्पर्शरूपरसगन्धाः पञ्चानां, वचनादानविहरणोत्सर्गानन्दाः पञ्चानां, सङ्कल्पश् च मनसः । एतेषाम् एव एकादशानाम् इन्द्रियाणि ग्राहकाणी भविष्यन्ति ।(प्.32) अथैतन् नानात्वं नेश्वरेण न बुद्ध्या नाहङ्कारेण न प्रधानेन न पुरुषेण न स्वभावेन कृतम्, गुणपरिणामेनेति । यद्य् अपि उक्तम् अचेतनानां गुणानां वृत्तिर् अयुक्तेति । तन् न । कस्माद् इति चेत्, तद् उच्यते । अचेतनानाम् अपि प्रवृत्तिर् दृष्टा । वक्ष्यति हि ---
"वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य ।
पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य" ॥
(साङ्ख्यकारिका 57) इति ।
तस्माद् अचेतना अपि गुणा एकादशेन्द्रियभावेन परिणमन्ति । अत्राह --- गृह्णीमस् तावद् एकादशेन्द्रियाण्य् अहङ्काराद् उत्पन्नानीति । एतेषाम् इन्द्रियाणां यथास्थाननिक्षेपः केन कृतः । चक्षुर् उच्चैः सन्निविष्टं दूरालोकने समर्थं भविष्यतीति । शिरःप्रदेशे श्रोत्रं सन्निविष्टं दूराच् श्रवणसमर्थं भविष्यतीति । त्वक् शरीराभ्यन्तरे बहिश् च सन्निविष्टा नानास्पर्शग्रहणसमर्था भविष्यतीति । जिह्वा अन्तर्मुखं सन्निविष्टा नानारसग्रहणसमर्था भविष्यतीति । एवं नासिका वाक् । एवम् इन्द्रियाणां निक्षेपः पुरुषेण वा कृत ईश्वरेण वा स्वभावेन वेति । अत्रोच्यते --- इह साङ्ख्ये पुरुषेश्वरस्वभावा न कारणम् । किं तर्हि --- अस्मिन्न् अहङ्कारे स्थितैः सत्त्वरजस्तमोभिस् त्रिभिर् गुणैर् निक्षेपः कृतः । तस्माद् ब्रूमः --- "गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च" । गुणपरिणामविशेषाद् एकादशेन्द्रियाणां भेदः । ग्राह्यभेदाच् च । ग्राह्या एकादशेन्द्रियार्थास् तेषां भेदाद् अपीन्द्रियाणां भेदः

28

अत्राह --- का कस्य वृत्तिः? उच्यते ---
रूपादिषु पञ्चानाम् आलोचनमत्रम् इष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दास् तु पञ्चानाम्

28

मात्रशब्दो विशेषार्थः । यथा भिक्षामात्रं लभ्यते नान्यो विशेषः । तथा चक्षुः । गतार्थे आलोचनमात्रम् इति । एकैकस्य प्रतीन्द्रियं स्वविषयग्रहणसामर्थ्यम् एव । न हि चक्षुः श्रवणसमर्थं दानादानसमर्थं वा

29

अत ऊर्ध्वं बुद्ध्यहङ्कारमनोवृत्तिं वक्ष्यामः । तद् उच्यते ---
स्वालक्षण्या वृत्तिस् त्रयस्य सैषा भवत्य् असामान्या ।
(प्.33)
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च

29

स्वालक्षण्येति । बुद्धेर् अध्यवसाय उक्तः प्राक् लक्षणम् । तस्याः स एवाध्यवसायो वृत्तिः । एवम् अभिमानो ऽहङ्कारलक्षणम् । तस्य वृत्तिर् अपि स एव । मनसः सङ्कल्पो लक्षणम् । तस्यापि स एव वृत्तिः । येन येन लक्षणेनामी लक्ष्यन्ते तेषां स एव वृत्तिः । एवं या बुद्धीन्द्रियाणां न सा कर्मेन्द्रियाणाम् । या च कर्मेन्द्रियाणां न सा बुद्धीन्द्रियाणाम् । बुद्ध्यहङ्कारमनसां वृत्तिर् अभिहिता । साप्य् असामान्या । अध्यवसायाभिमानसङ्कल्पलक्षणा । सैषा भवत्य् असामान्या असाधारणा एवम् उक्ते ऽर्थात् गम्यते सामान्यापि साधारणापि वृत्तिर् अस्ति । यदपेक्षयासामान्येत्य् उच्यते । एवम् इन्द्रियाणाम् असामान्या वृत्तिर् आख्याता कुलस्त्रीसंस्थानीया । अत ऊर्ध्वं सामान्या वृत्तिर् उच्यते । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च । सामान्यकरणवृत्तिः --- समस्तस्यान्तःकरणस्येत्य् अर्थः । प्राणाद्या वायवः पञ्चेति प्राणापानोदानसमानव्यानाः सर्वेषाम् इन्द्रियाणाम् सामान्यं कुर्वन्ति । स प्राणो नाम यो मुखनासान्तरगो बाह्ये चास्य विषये वृत्तिः । प्राणनात् प्राण एष इत्य् अभिधीयते । अस्मिन् प्राणे यत् स्पन्दनकर्म तत् कतमेन कृतम् इत्य् अत्रोच्यते --- त्रयोदशविधेन करणेन कृतम् । यतश् चैवं तस्मात् प्राणकर्म सर्वस्य करणग्रामस्य वृत्तिः सामान्या । अपि चात्र दृष्टान्तः --- यथा कस्मिंश्चिद् राजगृहे पञ्जरे शुकाः प्रतिवसन्ति । तेभ्यो देवदत्तेन ओदनो दर्शितः । ओदनं दृष्ट्वा सर्वे प्रचलिताः । तदा पञ्जरकम् अपि चलितम् । यत् पञ्जरस्य प्रचलनं कर्म तत् सर्वेषाम् शुकानां सामान्यम् । तद्वत् प्राणे यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्यम् । किं चान्यत् --- अपानेनोत्सृजति । इतश् चापक्रमणाद् अपान इत्य् उच्यते । अपानबहुलश् च देवदत्तः सर्पं दृष्ट्वा अपसर्पति एषो ऽपानः । तस्मिन्न् अपाने यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्या वृत्तिः । आरोहणाद् अर्थोत्कर्षे उदान इत्य् अभिधीयते । नाभिप्रदेशाद् उत्थितं गच्छति । उदानवृत्तिश् च देवदत्त आनन्दोत्कर्षं मृगयति । अहम् आढ्यो ऽस्माद् आढ्यतरः कथं स्याम् इत्य् एष उदानः । अस्मिन्न् उदाने यत् स्पन्दनकर्म तत् सामान्या वृत्तिः सर्वेन्द्रियाणाम् । किञ् चान्यत् --- हृद्यवस्थानं सहभावश् च तेन समानः । यो वायुर् हृद्देशे वर्तते स समानः । तद्बहुलश् च एकाकी न रमत एष समानः । तस्मिन् यत् स्पन्दनकर्म तत् सर्वेन्द्रियाणां सामान्यवृत्तिः । किञ् चान्यत् --- शरीरव्यापितया व्यानः । आनखाद् आकेशान्तं शरीरं व्याप्य अनति चलतीति व्यानः । व्यानबहुलो देवदत्तश् च अत्यन्तम् अन्येन विना रमते ।(प्.34) तस्मिन् व्याने यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्यवृत्तिः । तद् एवं सामान्यकारणवृत्तिः प्राणाद्या वायवो व्याख्याताः

30

वृत्तिं व्याख्यास्यामः । तद् उच्यते ---
युगपच् चतुष्टयस्य हि वृत्तिः क्रमशश् च तस्य निर्दिष्टा ।
दृष्टे तथाप्य् अदृष्टे त्रयस्य तत्पूर्विका वृत्तिः

30

बुद्धिर् अहङ्कारो मनश् चक्षुर् इत्य् एतानि चत्वारि युगपद् रूपं पश्यन्ति, अयं स्थाणुर् ऽयं पुरुष इति । एवं शब्दं स्पर्शं रसं गन्धं चत्वारि युगपद् गृह्णन्ति । एवम् एषा युगपच् चतुष्टयस्य वृत्तिः । किं चान्यत् । क्रमशश् च तस्य निर्दिष्टा बुद्ध्यहङ्कारमनश्चक्षुश्चतुष्टयस्य क्रमशो वृत्तिर् भवति । द्वारिद्वारविभागोपदेशाद् ह्रस्वकालत्वाद् विभागो न शक्यते वक्तुं ततो युगपद् इत्य् उच्यते । यथा बालपत्रशतं सूच्यग्रेण विद्धम् इति । तद् यथा । देवदत्तः पन्थानं गच्छन् स्थाणुं पश्यति तत्र तस्य संशयो भवति किम् अयं स्थाणुर् उत पुरुष इति । तत्र स्थाणुरूपं पश्यति शकुनिं च तत्रस्थं ततो ऽस्य बुद्धिर् भवति स्थाणुर् अयम् इति । आकुञ्चनप्रसारणे करोति ततो ऽपि पुरुषो ऽयम् इति प्रतीतिः । एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर् दृष्टा चक्षू रूपं पश्यति, मनः सङ्कल्पयति, अहङ्कारो ऽभिमानयति, बुद्धिर् अध्यवस्यति । एवं रसनादिष्व् अपि द्रष्टव्यम् । किं चान्यत् --- दृष्टे तथाप्य् अदृष्टे । त्रयस्य तत्पूर्विका वृत्तिः । तच्छब्देन समनन्तरोक्तानि बुद्धीन्द्रियाणि भवन्ति । रूपे चक्षुःपूर्विका, शब्दे श्रोत्रपूर्विका, स्पर्शे त्वक्पूर्विका, रसे जिह्वापूर्विका, गन्धे घ्राणपूर्विका बुद्ध्यहङ्कारमनसां वृत्तिर् इति

मूल पाठ: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc