भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 11-20

11

एवम् अनयार्यया व्यक्ताव्यक्तयोर् वैधर्म्यम् अभिहितम् । साधर्म्यम् उच्यते ---
त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतन प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस् तथा च पुमान्

11

त्रिगुणं व्यक्तं महदादि । प्रधानम् अपि त्रिगुणम् । कारणानुगतत्वात् कार्यस्य । यथा कृष्णतन्तुः कारणं पटः कार्यम् अपि कृष्णम् एव भवति । त्रिगुणेन कार्येणास्य कारणम् अपि त्रिगुणं भवतीति प्रधानं साध्यते । किं चान्यत् --- अविवेकि व्यक्तम् । अमी गुणा इदं व्यक्तम् इति विवेक्तुं न पार्यते, तथा प्रधानम् अपि इदं प्रधानं अमी गुणा इति न शक्यते पृथक् कर्तुम् । किं च --- विषयो व्यक्तं महदादि । सुखदुःखमोहतया भोग्यं तत् पुरुषस्य । स हि तस्य भोक्ता । तथा प्रधानम् अपि सर्वपुरुषाणां क्षेत्रज्ञानां भोग्यम् । सामान्यं व्यक्तम् । गणिकावत् सर्वपुरुषाणाम् । तथा प्रधानम्(प्.14) अपि । अचेतनं व्यक्तम् । सुखदुःखमोहान् न चेतयति । तथा प्रधानम् अपि । प्रसवधर्मि व्यक्तम् । बुद्धेर् अहङ्कारस् तत इन्द्रियाणि तन्मात्राणि च तेभ्यो भूतानि जायन्ते । एवं प्रधानम् अपि बुद्धिं प्रसूयते । उक्तम् इदं व्यक्ताव्यक्तयोः साधर्म्यम् । इदानीं "तद्विपरीतस् तथा च पुमान्" इत्य् उक्तं, तत् प्रतिपादयति । ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः । तयोर् यत् साधर्म्यं "त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतनं प्रसवधर्मि" इत्य् उक्तम् । ततो ऽसौ विपरीतो विधर्मी । अगुणो विवेकी, अविषयो ऽसामान्यः, चेतनो ऽप्रसवधर्मी चेति । वैधर्म्यम् अभिधाय साधर्म्यम् आह --- तथा च पुमान् इति ।
"हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम्" ॥
(साङ्ख्यकारिका 10) इत्य् उक्तम् ।
तद् यथा व्यक्ताद् विसदृशं प्रधानं तथा प्रधानसधर्मा पुरुषः । तथा हि अहेतुमान् नित्यो व्यापी निष्क्रिय एको ऽनाश्रितो ऽलिङ्गो निरवयवः स्वतन्त्र इति

12

तत्र त्रिगुण व्यक्तम् अव्यक्तं च निर्गुणः पुरुष इत्य् उक्तम् । किमात्मका गुणा इत्य् अत्रोच्यते ---
प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश् च गुणाः

12

तत्रायं समासः । प्रीतिश् चाप्रीतिश् च विषादश् च ते आत्मा स्वरूपं येषां गुणानां ते भवन्ति प्रीत्यप्रीतिविषादात्मकाः । तेषां लक्षणम् उच्यते । तत्र प्रीत्यात्मकं सत्त्वम् । आत्मशब्दः स्वभावे वर्तते । कस्मात्? सुखलक्षणत्वात् । यो हि कश्चित् क्वचित् प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचह्रीबुद्धिक्षमानुकम्पाज्ञानादि च तत् सत्त्वं प्रत्येतव्यम् । अप्रीत्यात्मकं रजः । कस्मात्? दुःखलक्षणत्वात् । यो हि कश्चित् कदाचित् क्वचिद् अप्रीतिम् उपलभते तत्र द्वेषद्रोहमत्सरनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धवधच्छेदनानि च तद् रजः प्रत्येतव्यम् । विषादात्मकं तमः । कस्मात्? मोहलक्षणत्वात् । यो हि कश्चित् कदाचित् क्वचिन् मोहम् उपलभते, तत्राज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिक्यविषादस्वप्नादि च तत् तमः प्रत्येतव्यम् ।(प्.15) किं चान्यत् --- प्रकाशप्रवृत्तिनियमार्थाः । प्रकाशश् च प्रवृत्तिश् च नियमश् च ते अर्था येषां तथोक्ताः । तत्र प्रकाशयितव्यम् इति सत्त्वस्य, प्रवर्तितव्यम् इति रजसः, नियन्तव्यं संहर्तव्यम् इति तमसः । किं चान्यत् --- अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश् च गुणाः । तत्रापि समासः । अन्योन्याभिभवाश् च अन्योन्याश्रयाश् च अन्योन्यजननाश् च अन्योन्यमिथुनाश् च येषां गुणानाम् अन्योन्यवृत्तयश् च विद्यन्ते तथोक्ताः । चशब्दः समुच्चये द्रष्टव्यः । प्रीत्यादयश् च तावत् प्रागभिहिताः । अन्योन्याभिभवाश् चेति रजस्तमसोर् अभिभवात् शान्ता वृत्तिर् उत्पद्यते सत्त्वस्य धर्माद्या । सत्त्वतमसोर् अभिभवाद् रजसो घोरा वृत्तिर् उत्पद्यते अधर्माद्या । सत्त्वरजसोर् अभिभवात् तमसो मूढा वृत्तिर् उत्पद्यते अज्ञानाद्या । किं चान्यत् --- अन्योन्याश्रयाश् च गुणाः । सत्त्वं हि प्रवृत्तिनियमाव् आश्रित्य प्रकाशयति । रजः प्रकाशनियमाव् आश्रित्य प्रवर्तयति । तमः प्रकाशप्रवृत्ती आश्रित्य नियमयति । त्रिदण्डविष्टम्भवद् अमी वेदितव्या इति । किं चान्यत् --- अन्योन्यजननाश् च गुणाः । अन्योन्यं जनयन्ति । कदाचित् सत्त्वं रजस्तमसी जनयति । कदाचित् तमः सत्त्वरजसी जनयति । यथा सपरिकरकुम्भकाराधिष्ठितो मृत्पिण्डो घटं जनयति तद्वज् जनयन्ति । अन्योन्यं बोधयन्तीत्य् एतत् प्रतिगृह्यते । यथा देवदत्तयज्ञदत्तौ परस्परं बोधयत । एवं बुद्धिस्था गुणाः सत्त्वरजस्तमांसि परस्परं बोधयन्ति । एवम् अन्योन्यजनका गुणाः । किं चान्यत् --- अन्योन्यमिथुनाश् च गुणाः । अवियोगकधर्मत्वात् । एवं ह्य् आहुः ---
"रजसो मिथुन सत्त्वं सत्त्वस्य मिथुनं रजः ।
उभयोः सत्त्वरजसोर् मिथुनं तम उच्यते" ॥
(देवीभागवतपुराण 3 ।50)
किं चान्यत् --- अन्योन्यवृत्तयश् च गुणाः । अन्योन्यस्य वृत्तिं जनयन्ति । यथा काचित् स्त्री नयविनयविलासलीलावती भर्तुर् आत्मनो बन्धुवर्गस्य च प्रीतिं जनयति । सैव सपत्नीषु दुःखमोहौ जनयति । एवं सत्त्वेन स्त्रीभूतेन रजसस् तमसश् च वृत्तिर् जनिता । एवम् अन्येष्व् अपि योज्यम्

13

(प्.16)
अत्राह --- न खलु सत्त्वरजस्तमांसि जात्यन्तराणि । कुतः । स्वभावेष्व् अवस्थानात् । इह खलु रूपयौवनदाक्षिण्यमतिसाधुत्वस्मृत्युग्रभावाभावलीलाविलाससम्पन्ना स्त्री सत्त्वस्य रूपम् उपदिश्यते । सा च भर्तुः सुखावहा भवति, सपत्नीनां दुःखाय रागिणां मोहाय च । तथा क्षत्रिया दुःखप्रहरणकृतापराधां दस्युसेनाम् अभिनिघ्नती रजसो रूपम् इत्य् उपदिश्यते । तेन च दस्युभिर् उपद्रुतानां दार्यमाणानां सुखावहा भवति । दस्यूनां दुःखाय मोहाय च । तथा घनाघनो महाकृष्णो मेघस् तोयाध्मातो ऽवलम्बी ग्रसमान इव नभो भूमिं चाभिवर्धमानः सबलाकः सविद्युद्गम्भीरस्तनितस् तमसो रूपम् इत्य् उपदिश्यते । स च कर्षकाणां सज्जीकृतबीजोपकरणानां सुखो भवति । स एवानाच्छादितशरणानाम् अनुपार्जितभक्तस्नेहलवणानाम् अप्रगुणिततृणकाष्ठानां प्रोषितवधूनां च दुःखो मूढश् च । तद् एवम् अवस्थितस्वभावत्वाद् एकं सत्त्वरजस्तमांसि ।
अत्रोच्यते जात्यन्तराण्य् अमूनि त्रीणि । लक्षणपृथक्त्वव्यवस्थानात् । कथम् इति चेत् तद् उच्यते ---
सत्त्वं लघु प्रकाशकम् इष्टम् उपष्टम्भकं चलं च रजः ।
गुरु वरणकम् एव तमः प्रदीपवच् चार्थतो वृत्तिः

13

अत्र यत् पूर्वस्याम् आर्यायाम् अभिहितं सत्त्वलक्षणं तल् लघुत्वप्रकाशकलक्षणं च । यदा सत्त्वम् उत्कटं भवति देवदत्ते तदा लघून्य् अङ्गानि, विशुद्धानीन्द्रियाणि स्वविषयग्रहणसमर्थानि भवन्ति । तदा मन्तव्यम् अद्य मे सत्त्वम् उत्कटत्वेन वर्तते । इष्टं च स्वरूपसाधनहेतुत्वात् । उपष्टम्भकं चलं च रजः । उपष्टम्भकं प्रेरकमुन्नाडिर् इत्य् अर्थः । यथा मत्तवृषो वृषं दृष्ट्वा उद्धतो भवति तद्वत् । अथवा गर्वश् चला क्रियेत्य् अर्थः । एवं यस्मिन् देवदत्ते यज्ञदत्ते वा रज उत्कटं भवति स कलहं मृगयते । किं चान्यत् चलचित्तश् च भवति ग्रामं गच्छामि स्त्रियं कामये तपः करोमि इत्यादि । एवं नित्यम् उत्सुकमना भवति । एतद् रजोलक्षणम् । तम आह --- गुरु वरणकम् एव तमः । यद् गुरुत्वम् आवरणत्वं चास्ति तत् तमः । यदा गुरूण्य् अङ्गानि भवन्ति । इन्द्रियाण्य् अलसानि स्वविषयग्रहणासमर्थानि भवन्ति । तदानीं मन्तव्यम् एतत् तम उत्कटत्वेन वर्तत इति । तस्माज् जात्यन्तराण्य् एव सत्त्वरजस्तमांसि । यत् पुनर् अभ्यधायि --- स्त्री क्षत्रिया मेघश् चेति । अत्र त्रये ऽपि ब्रूमः । सत्त्वं रजस्तमसी आश्रित्य स्वेन रूपेणाङ्गाङ्गिभावं गच्छति । तस्यापकाराद् दुःखम् उत्पद्यते । एवं रजस्तमसी योज्ये । परस्परविरुद्धानां गुणानां कथम् एका वृत्तिर् भवतीत्य् अत्राह --- परस्परविरुद्धाः(प्.17) शत्रवो न ह्य् एकम् अर्थं कुर्वन्ति । इमे च गुणाः परस्परविरुद्धा अपि पुरुषार्थं कुर्वन्ति । कुतः । प्रदीपवच् चार्थतो वृत्तिः । प्रदीपेन तुल्यं प्रदीपवत् । अर्थतः कार्यवशात् । परस्परविरुद्धानाम् अप्य् अमीषां वृत्तिर् दृष्टा । यथा तैलाग्निवर्त्तिकासंयोगात् परस्परविरुद्धा अपि पदार्थाः संहत्य एकम् अर्थं प्रकाशरूपं निष्पादयन्त्य् एवं गुणा अपि परस्परविरुद्धाः संहत्य पुरुषार्थं कुर्वन्ति

14

अत्राह --- अयम् अन्तरः प्रश्नो हि । यद् उक्तं पूर्वस्याम् आर्यायां "त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतनं प्रसवधर्मि । व्यक्तम् --- "तत् कथम् एवं ज्ञायते ऽव्यक्तम् अपि त्रिगुणत्वादियुक्तम् । अत्रोच्यते ---
अविवेक्यादिः सिद्धस् त्रैगुण्यात् तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तम् अपि सिद्धम्

14

यो ऽप्य् अयम् अविवेक्यादिर् गणः प्रसवधर्म्यन्तः स व्यक्ते ऽपि सिद्धो ऽव्यक्ते ऽपि सिद्धः । कथं गम्यते । त्रैगुण्यात् । यत् त्रिगुणं तद् अविविक्तम्, यद् अविविक्तं तद् विषयं, यद् विषयं तत् सामान्यं, यत् सामान्यं तद् अचेतनम्, यद् अचेतनं तत् प्रसवधर्मि । तस्माद् अविवेक्यादिर् गुणस् त्रैगुण्याद् एव सिद्धः । तद्विपर्ययाभावात् । इह हि यत्र तन्तवस् तत्रैव पटः यत्र पटस् तत्रैव तन्तवः, यस् तन्तून् पश्यति स पटं पश्यति, यो वा पटं पश्यति स तन्तून् पश्यति । एवम् एव तन्तुपटयोर् इव व्यक्ताव्यक्तयोः सम्बन्धः । दूरे हि प्रधानं सन्निकृष्टे व्यक्तम् । यो हि व्यक्तं पश्यति स चाव्यक्तम् अपि पश्यति । यो वा योगी प्रधानं पश्यति स व्यक्तम् अपि पश्यति । तस्माद् विपर्ययाभावाद् अविवेक्यादिगणेन सिद्धम् अव्यक्तम् । इतश् च सिद्धम् । कारणगुणात्मकत्वात् कार्यस्याव्यक्तम् अपि सिद्धम् । कारणस्य गुणाः कारणगुणास् ते आत्मा स्वभावो यस्य तद्भावः कारणगुणात्मकत्वम् । आत्मशब्दः स्वभावे वर्तते । कारणगुणस्वभावत्वात् कार्यस्य । इह लोके यदात्मकं करणं तदात्मकम् एव कार्यम् अपि भवति । कारणानुगतत्वात् कार्यस्य । यथा कटुनिम्बवृक्षात् कटुर् एव रसो भवति मधुराच् च मधुरो द्राक्षादिरसः । तस्माद् अविवेक्यादिगणेन सिद्धम् अव्यक्तम् । तत्र यद् उक्तं भवता तत्(प्.18) कथम् एवं ज्ञायते अव्यक्तम् अविवेक्यादिगणेन युक्तम् इति तद् एवम् एव त्रिभिर् हेतुभिः प्रतिपादितम् । अत्राह --- इह लोके यन् न विद्यते तन् नास्ति । यथा द्वितीयम् अनीश्वरशिरः, तृतीयः पाणिः, शशविषाणं, वन्ध्यापुत्रिकाभ्रूविलासादयो वा । नैव तावत् प्रधानपुरुषाव् उपलभ्येते, तौ कथं हि स्त इति गम्यते । हिमवत उपलगणपरिमाणं नोपलभ्यते । किं तन् नास्ति? एवं प्रधानपुरुषाव् अनुपलभ्यमानाव् अप्य् उपलभ्येते हेतुभिः । तांश् च हेतून् उपरिष्टाद् वक्ष्यामः

15

त उच्यन्ते ---
भेदानां परिमाणात् समन्वयाच् छक्तितः प्रवृत्तेश् च ।
कारणकार्यविभागाद् अविभागाद् वैश्वरूप्यस्य

15

अस्ति प्रधानम् । कुतः? भेदानां परिमाणात् । लोके यत्र कर्तास्ति तस्य परिमाणं दृष्टम् । यथा कुलालः परिमितात् मृत्पिण्डात् परिमितम् एव घटं कुरुते प्रस्थग्राहकम् आढकग्राहकं वा । एवं व्यक्तं परिमितम् । एका बुद्धिर् एको ऽहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि इति त्रयोविंशतिकम् । एवम् एतत् परिमितं व्यक्तं दृष्ट्वानुमानेन साधयामो ऽस्त्य् अस्य कारणं प्रधानं यद् व्यक्तं परिमितम् उत्पादयति । यदि च प्रधानं कारणं न स्यान् निष्परिमाणम् इदं व्यक्तं स्यात् । अस्ति चास्य परिमाणं तस्माद् अस्ति प्रधानम् । इतश् चास्ति समन्वयदर्शनात् । कस्य समन्वयात्? भेदानाम् एव । अस्माद् एव कारणाच् शकलकपालमात्रसमस्तसमन्वयः । भूषणादीन् दृष्ट्वा तत्त्वेन दर्शयति । सामान्यप्रकरणाल् लोकभेदानाम् एकैकजातिसमन्वयो दृष्टः । तेषां धर्मो ऽन्वयः, तस्मात् समन्वयदर्शनात् पश्यामो ऽस्ति प्रधानं कारणम् इति । इतश् चास्ति --- शक्तितः प्रवृत्तेश् च । इह यो यस्मिन्न् अर्थे शक्तः स तस्मिन्न् एव प्रवर्तते । तद् यथा कुम्भकारो घटघटिकाशरावोदञ्चवादिकरणे शक्तः । अतः साधयामः प्रधानस्याप्य् अस्ति शक्तिर् यया शक्त्या व्यक्तम् उत्पादयति । सा च शक्तिर् निराश्रया न भवति । तस्माद् अस्ति प्रधानं यत्र शक्तिर् अवतिष्ठते । इतश् चास्ति --- कारणकार्यविभागात् । करोतीति कारणम्, क्रियत इति कार्यं, तयोर् विभागस् तस्मात् । तद् यथा मृत्पिण्डः कारणं घटः कार्यम् । स एव(प्.19) हि मधूदकपयःप्रभृतीनां धारणे समर्थो न तु मृत्पिण्डः । एवं व्यक्ताव्यक्तयोर् विभागः । अन्यद् व्यक्तं महदहङ्कारतन्मात्रेन्द्रियमहाभूतपर्यन्तं, तच् च कार्यम् । अन्यच् च अव्यक्तं प्रधानं विपरीतं कारणम् इति । तस्माद् अस्ति प्रधानम् । इतश् चास्ति --- अविभागाद् वैश्वरूप्यस्य । न विभागो ऽविभागः । विश्वरूपस्य भावो वैश्वरूप्यम् । बहुरूपम् इत्य् अर्थः । तस्य । त्रैलोक्यं पञ्चसु महाभूतेष्व् अविभागं गच्छति । पञ्चमहाभूतानि तन्मात्रेष्व् अविभागं गच्छन्ति । पञ्चतन्मात्राण्य् एकादशेन्द्रियाणि चाहङ्कारे । अहङ्कारो बुद्धौ । सा च प्रधाने । इत्थं त्रयो लोकाः प्रलयकाले प्रधाने ऽविभक्ताः । प्रकर्षेण धीयते स्थाप्यते अत्राखिलम् इति प्रधानम् । ततो हि सृष्टौ सद् एवाविर्भवति । न ह्य् असत उत्पत्तिर् न च सतो ऽभावः ।
"नासतो विद्यते भावो नाभावो विद्यते सतः" ।
इति गीतासु(2 ।16) । "सद् एव सोम्येदम् अग्र आसीत्"[छान्दोग्योपनिषद् 6 ।2 ।1] इति श्रुतेश् च । तद् यथा --- दध्यादयः प्राक् प्रसूतेः क्षीरे ऽविभक्ताः सन्त्य् एव । यद्य् असत उत्पत्तिस् तदा काष्ठखण्डाद् अपि घटाद्युत्पत्तिः स्यात् । यतो न भवति । तस्मान् मृत्पिण्डे कारणे घटादेः सत एवोत्पत्तिर् इति समीचीनम् । यथा जलभूम्योर् एतद्रसगन्धादिवैश्वरूप्यम् अविभक्तम् अस्त्य् एव स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेषु । एवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति

16

अस्ति प्रधानं यत्र महदादिलिङ्गम् अविभागं गच्छति । इत्य् एवम् अवश्यम्भावी अविभागः पश्चाद् विभागश् चाविर्भवति तत् प्रधानम् । अत्रोच्यते ---
कारणम् अस्त्य् अव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच् च ।
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात्

16

कारणम् अस्त्य् अव्यक्तम् इति । तद् एवं पञ्चभिर् एभिर् हेतुभिर् ज्ञायते ऽस्ति तत्कारणम् एकम् अस्य जगतो ऽव्यक्तं मूलम् इति । अत्राह यद्य् एकं प्रधानं कथं तर्हि अनेकं कार्यम् उत्पादयति । तथा हि नैकस् तन्तुः पटाख्यं कार्यं जनयति । इत्थं प्रधानम् एकम् अनेकं कार्यं जनयतीति न जाघटीति । अतः समाधीयते --- प्रवर्तते त्रिगुणतः । प्रधाने हि सत्त्वरजस्तमसाम् अवस्थानाद् बहुत्वसम्भवः । तस्मात् त्रिगुणतः प्रवर्तते त्रिधा व्यवहारः । समुदयाच् च । यथा गङ्गायां स्रोतांसि समुदितानि गङ्गाम् आरभन्ते, यथा वा तन्तवः समुदिताः पटं कुर्वन्ति एवं सत्त्वरजस्तमांसि त्रयो गुणाः समुदिताः प्रधानस्था व्यक्तं कुर्वन्ति । अत्राह --- इह लोके द्विविधं कारणं परिणामकत्वाद्(प्.20) अपरिणामकत्वाच् च । तत्रापरिणामकत्वान् मृत्पिण्डदण्डसूत्रोदकविदलान् पश्यामः । परिणामतश् च क्षीरं दधीति । तत्र प्रधानं कथं कारणम् इत्य् अत्रोच्यते --- परिणामतः । यथा क्षीरं दधिभावेन परिणमति, यद् एव क्षीरं तद् एव दधि, एवं प्रधानं व्यक्तभावेन परिणमति । दधिवद् व्यक्तं क्षीरवत् प्रधानम् इत्य् अर्थः । यद् एवाव्यक्तं तद् एव व्यक्तम् इति । तस्माद् उच्यते परिणामतः प्रधानं कारणम् इति । अत्राह को दृष्टान्तः? तद् उच्यते --- सलिलवत् । यथा सलिलम् एकं हिमवद् हिमभावेन परिणमति, यथा चेक्षुरसो रसिकाषण्डमत्सरिकाशर्कराफाणितगुडभावेन परिणमति । यथा वा क्षीरं द्रप्स्यदधिमस्तुनवनीतघृतारिष्टकिलाटकूर्चिकादिभावेन परिणमति । एवम् एवाव्यक्तम् आध्यात्मिकेन बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतभावेन परिणमति, आधिदैविकेन शीतोष्णवातवर्षादिभावेन परिणमति । अत्राह --- एकस्मात् प्रधानाद् उत्पन्नास् त्रयो लोकाः कथं विषमाः? इह ये देवास् ते सुखिनो मनुष्यास् ते दुःखिनस् तिर्यञ्चो मूढाः । एकस्मात् प्रधानाद् उत्पन्नानां त्रयाणां लोकानां कथं वैषम्यं मूढत्वादिनेत्य् अत्रोच्यते --- प्रतिप्रतिगुणाश्रयविशेषात् । तद् यथा --- एकरसम् अन्तरिक्षाद् जलं पतितम् । तच् च मेदिनीं प्राप्य नानारसतां याति । पृथग्भाजनविशेषात् । एवम् इमे त्रयो लोका एकस्माद् अपि प्रधानाद् उत्पन्ना गुणवैषम्यात् पृथग्भावं गताः । यथा देवेषु सत्त्वम् उत्कटं ततस् ते सुखिनः, तत्रापि रजस्तमसी गौणतया स्तः । मनुष्येषु रज उत्कटं ततस् ते दुःखिताः, तेष्व् अपि सत्त्वतमसी स्तः । तिर्यग्योनिगतेषु तम उत्कटं ततस् ते मूढाः । तेष्व् अपि सत्त्वरजसी स्तः । एवम् एकस्माद् उत्पन्नानां त्रयाणां लोकानां वैषम्यं भवति

17

एवं द्वाभ्याम् आर्याभ्यां प्रधानस्याधिगमः कृतः । अत ऊर्ध्वं पुरुषस्याधिगमं करिष्यामः । अत्राह --- केचिद् आचार्या इति मन्यन्ते शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्तो नास्ति परमात्मा । अपि च ---
एतावान् एव पुरुषो यावद् इन्द्रियगोचरः ।
इति ।
अत्रोच्यते --- शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्त आत्मा अस्तीति । को दृष्टान्तः? यथा असिकोशवत् । मुञ्जेषीकावत् । उक्तं च ---
मशकोदुम्बरेषीकामुञ्जमत्स्याम्भसां यथा ।
एकत्वे ऽपि पृथग्भावस् तथा क्षेत्रात्मनोर् नृप ॥
(प्.21)
एवं शरीरेन्द्रियबुद्ध्यादिभिः क्षीरनीरवद् एकीभूतो ऽपि तद्व्यतिरिक्तो ऽस्ति परमात्मा पुरुषो ऽपि । प्रधानवत् सूक्ष्मत्वान् नोपलभ्यते इति तदधिगमाय हेतुर् अभिधीयते ---
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययाद् अधिष्ठानात् ।
पुरुषो ऽस्ति भोक्तृभावात् कैवल्यार्थप्रवृत्तेश् च

17

अस्ति पुरुषः । सङ्घातपरार्थत्वात् । यतः सङ्घातश् च परार्थः । तस्माद् हेतोः । इह लोके ये सङ्घातास् ते परार्था दृष्टाः पर्यङ्करथशरणादयः । एवं गात्राणां महदादीनां सङ्घातः समुदायः परार्थ एव । (तस्माद् अस्ति नूनम् अन्योन्याधिष्ठितो यदर्थो ऽयं सङ्घात इति सङ्गतिः ।) पर्यङ्करथादयः काष्ठसङ्घाताः । गृहादयः काष्ठेष्टकादिसङ्घाताः । न हि ते रथगृहपर्यङ्कादयः किम् अपि स्वार्थं साधयन्ति । न वा परस्परार्थाः । किं त्व् अस्त्य् असौ देवदत्तादिर् यो ऽस्मिन् पर्यङ्के शेते रथेन गच्छति गृहे निवसतीति । (चेतसः प्रतीत्या) । एवम् अमी महदादयश् चक्षुरादयो न स्वार्था न च परस्परार्थाः, किं तु परार्थाः । यश् चासौ परः स चात्मा । तस्माद् अनुमीमहे अस्ति पुरुषः, यस्यार्थे चक्षुरादिसङ्घातः शरीरम् उत्पन्नम् इति । इतश् चास्ति --- त्रिगुणादिविपर्ययात् । त्रयो गुणा यस्य गणस्यादौ सम्भवन्ति स त्रिगुणादिः । त्रिगुणादेर् विपर्ययः । तस्मात् पश्यामो ऽस्ति पुरुष इति । उक्तं पूर्वस्याम् आर्यायां त्रिगुणम् अविवेकीत्यादि व्यक्तप्रधानसाधर्म्यम् । "तद्विपरीतस् तथा च पुमान्" इति । अगुणविवेक्यविषयासामान्यचेतनाप्रसवधर्मादिविपर्ययाद् आत्मनो ऽस्तित्वं पृथक्त्वं च सिद्धम् । अतश् चास्ति । अधिष्ठानात् । न ह्य् अन्तरेणाधिष्ठातारं भवति वस्तुजातम् । तद् यथेह लोके लङ्घनप्लवनधावनसमर्थैर् अश्वैर् युक्तो रथः सारथिनाधिष्ठितः प्रवर्तते । अथ सारथिनानधिष्ठितः प्रवर्तते ततः शरीरनाशः स्यात् । न चात्मविनाशाय प्रवर्तते । अपि चोक्तं षष्टितन्त्रे --- "पुरुषाधिष्ठितं प्रधानं प्रवर्तते" इति । ततः पश्यामो ऽसौ परमात्मा अस्ति पुरुषो येनाधिष्ठितं प्रधानं महदहङ्कारतन्मात्रेन्द्रियभूतान्य् उत्पादयति । तस्माद् अस्ति पुरुष इति । इतश् चास्ति --- भोक्तृभावात् । इह मधुराम्लतिक्तलवणकटुकषायाः षड् रसाः । एतैः षड्भी रसैर् युक्तं भोजनं दृष्ट्वा भोक्ता साध्यते । अस्ति भोक्ता यस्येदं भोजनम् । एवम् इदं व्यक्ताव्यक्तं दृष्ट्वा साधयामो ऽस्त्य् असौ परमात्मा पुरुषो यस्येदं भोक्तुर् व्यक्ताव्यक्तं भोग्यम् इति । इतश् चास्ति --- कैवल्यार्थप्रवृत्तेश् च । केवलभावः कैवल्यं मोक्ष इत्य् अर्थः । या तस्य प्रधानस्य प्रवृत्तिः सा कैवल्यार्था प्रवृत्तिः प्रधानस्येति

18

(प्.22)
अत्राह --- गृह्णीमस् तावद् एभिः पञ्चभिर् अधीतैर् हेतुभिः शरीरव्यतिरिक्तो ऽसौ पुरुषो ऽस्तीति । स किं सर्वशरीरेष्व् एकः पुरुष आहोस्वित् प्रतिशरीरं भिन्नः पुरुष इति । कुतः संशय इति चेच् चोदक आचार्यविप्रतिपत्तेः संशयः । इह केचिद् आचार्या भेदवादिन इति मन्यन्ते --- एको ऽयं पुरुषः सर्वशरीरेषूपलभ्यते मणिसूत्रवत् । इह रसनायां यावन्तो मणयस् तेषु सर्वेष्व् एकम् एव सूत्रं प्रवर्तते । एवं मणिभूतेषु शरीरेषु किम् एकः सूत्रभूतः परमात्मा । आहोस्विज् जलचन्द्रवत् पुरुष इति एक एव बहुषु नदीकूपतडागादिष्व् इवोपलभ्यते इति । अतः संशयः किम् एकः पुरुषो गुणसूत्रन्यायेन आहोस्विद् बहवः पुरुषाः । अत्रोच्यते --- बहवः पुरुषाः कथम् इति चेत् तद् उच्यते ---
जन्ममरणकरणानां प्रतिनियमाद् अयुगपत्प्रवृत्तेश् च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच् चैव

18

जन्ममरणकरणानाम् इति । जन्मनियमाद् इह केचिन् नीचजन्मानः, केचिन् मध्यमजन्मानः, केचिद् उत्कृष्टजन्मानः । यदि पुनर् एकः पुरुषः स्यात् स एव नीचकुलोत्पन्नः स्यात् स एव उत्कृष्टकुलोत्पन्नः स्यात् । कस्मात्? पुरुषैकत्वात् । अस्ति चायं नियमः, अन्ये ऽधमा अन्य उत्कृष्टाः । तस्माद् बहवः पुरुषाः । अतश् च --- मरणनियमात् । मरणे ऽपि नियमो दृष्टो मम भ्राता मृतो मम पिता च । तस्माद् बहवः पुरुषाः । अपरे पुनर् इत्थङ्कारं वर्णयन्ति --- जन्ममरणनियमात् । इह कश्चित् कदाचिन् म्रियते तदैव परो जायते । यद्य् एकः पुरुषः स्यात् तर्हि एकस्मिन् जायमाने सर्वे ऽपि जायेरन् । न चैवम् । म्रियमाणे सर्वे म्रियेरन् । न चैवम् । तस्माद् बहवः पुरुषाः । इतश् च पश्यामः । करणनियमात् । करणानीन्द्रियाणि श्रोत्रादीनि । इह लोके केचिद् बधिरान्धमूकादयः । इतरे च पटुतरकरणाः । अतः पश्यामो य उपहतेन्द्रियास् ते अन्ये, ये चानुपहतेन्द्रियास् ते चान्ये । तस्मात् प्रतिनियतकरणत्वाद् अपि पश्यामो ऽनेके पुरुषा इति । इतश् च पश्यामः । त्रैगुण्यविपर्ययाच् चैव । चः समुच्चये । पूर्वोक्तैर् हेतुभिः । अस्माच् च हेतोर् इत्य् अर्थः । इहैकस्य ब्राह्मणस्य त्रयः पुत्राः सब्रह्मचारिण एकेनैव एकस्यां भार्यायां जाताः । तत्रैकः सात्त्विको मेधावी शुचिः सुखी ।(प्.23) द्वितीयो राजसो दुर्मेधावी दुःखी । तृतीयस् तामसो मूढो नास्तिकः । यद्य् एके आत्मा स्याद् एकस्मिन् सात्त्विके राजसे तामसे वा सर्वे तथा स्युः । न तथा भवन्ति । अतः पश्यामो ऽनेके पुरुषाः

19

अत्राह --- अयं संशयः । किं खलु कर्ता पुरुषो ऽस्त्य् आहोस्विद् अकर्तेति । कुतः संशय इति चेत्, आचार्यविप्रतिपत्तेः । लोके तावत् पुरुषो गच्छति धावति तिष्ठति शोचति, पुरुषेणेदं कृतम् इति विप्रतिपत्तिः । एवम् आचार्या वेदवादिनो ब्रुवते । वैशेषिका अपि कर्ता इति मतं प्रतिपन्नाः । अतः संशयः । अत्रोच्यते --- अकर्ता पुरुषः । कथम् इति चेत् तद् उच्यते ---
तस्माच् च विपर्यासात् सिद्धं साक्षित्वम् अस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वम् अकर्तृभावश् च

19

तस्माच् च विपर्यासाद् इति । कर्तृकारणानां को विशेषः अत्रोच्यते । तद् यथा कश्चिद् यमनियमरतः साङ्ख्ययोगाचार्यरतो भिक्षुर् नगरे प्रतिवसति । स च जनादिषु प्रतिवर्णाश्रमविहितासु क्रियासु प्रवर्तमानानां तन्नगरवासिनां साक्षिमात्रो भवति । ऋतुवशात् शीतोष्णादीन् आयातान् अनुभवति । तद्वद् अयं नानावस्थे गुणविमर्दे वर्तमानो वैधर्म्यात् क्षेत्रज्ञः साक्षिमात्रः स्यात् । एवं साक्षित्वं सिद्धम् अस्य पुरुषस्य । केवलभावः कैवल्यं नाम त्रिभ्यो गुणेभ्यो ऽन्यत्वम् । यथासौ भिक्षुः कदाचिन् नागराणां विवदतां वक्ता भवति त्वया साधुकृतम् इति त्वयासाध्व् इति । किम् एवं पुरुषो भवति । अत्रोच्यते --- माध्यस्थ्यम् । नास्य केनचित् कृत्यम् अस्ति । उदासीनो ह्य् अयम् । अत्राह --- यद्य् अकर्ता तत् किं परकृतानां प्रयोक्ता । अत्रोच्यते --- कर्तृभावश् च द्विविधो हि, प्रयोक्ता कर्ता च । अत्रोदासीनस्य पुरुषस्य कर्तृत्वं प्रतिषिद्धं गुणलक्षणेन

20

अत्राह --- यद्य् अकर्ता पुरुषः अध्यवसायं तर्हि किं करोति धर्मं करिष्याम्य् अधर्मं चेति । यदि गुणा अध्यवसायं कुर्वन्ति तर्हि तेषां सचेतनत्वं(प्.24) स्यात् । अमीषां चाचेतनत्वम् एव प्राग् उपन्यस्तम् । अथ पुरुषो ऽध्यवसायं कुरुते तदा तस्य कर्तृत्वप्रसङ्गः । तस्माद् उभयथापि दोष इति । अत्र समाधीयते नायं दोषः । कथम् इति चेत्, तद् उच्यते ---
तस्मात् तत्संयोगाद् अचेतनं चेतनावद् इव लिङ्गम् ।
गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्य् उदासीनः

20

यस्माच् चेतनस्वभावः पुरुषः, तस्मात् तत्संयोगाद् अचेतनं महदादि लिङ्गम् अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत् प्रवर्तते । को दृष्टान्तः --- तद् यथा अनुष्णाशीतो घटः शीताभिर् अद्भिः संस्पृष्टः शीतो भवति । अग्निना संयुक्त उष्णो भवति । एवं महदादि लिङ्गम् अचेतनम् अपि भूत्वा चेतनावद् भवति । तस्माद् अध्यवसायं कुर्वन्ति गुणाः कार्यादिषु । यद् अप्य् उक्तम् --- लोकोपचारात् कर्ता पुरुष इति । अत्र ब्रूमः --- गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्य् उदासीनः । अत्र दृष्टान्तश् च । केचित् किल चौरा ग्रामं हृत्वा द्रव्यं गृहीत्वा ग्रामान्तरं गच्छन्ति कृतकार्याः । तैः सह सार्थेन श्रोत्रियो ब्राह्मणः पन्थानं गच्छति । तत्पदानुसारिभिर् आरक्षिभिस् ते गृहीताः । कृतापराधैस् तैः सह सो ऽपि ब्राह्मणो गृहीतस् त्वम् अपि चौर इति । तद् यथासाव् अचौरस् तत्संसर्गदोषेण चौरतया प्रतीतस् तैः । तथा सत्त्वादयो गुणाः कर्तारस् तैः संयुक्तः पुरुषो ऽपि अकर्तापि कर्ता भवति । कर्तृसंसर्गात् कर्तेव । परं परमार्थतया अकर्ता पुरुषः

मूल पाठ: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc