सांख्यकारिका (टीका सहित) · श्लोक 1-10
॥ श्रीः ॥
साङ्ख्यकारिका
माठरवृत्तिसहिता
सर्वविद्याविधातारम् आदित्यस्थं सनातनम् ।
नतो ऽस्मि परया भक्त्या कापिलं ज्योतिर् ईश्वरम् ॥ 1 ॥
कपिलाय नमस् तस्मै येनाविद्योदधौ जगति मग्ने ।
कारुण्यात् साङ्ख्यमयी नौर् इह विहिता प्रतरणाय ॥ 2 ॥
नमस्कृत्य तु तं तस्य वक्ष्ये ज्ञानस्य कारणम् ।
हिताय सर्वशिष्याणाम् अल्पग्रन्थसमुच्चयम् ॥ 3 ॥
दुःखत्रयाभिघाताज् जिज्ञासा तदभिघातके हेतौ ।
दृष्टे सापार्था चेन् नैकान्तात्यन्ततो ऽभावात्
अस्या आर्याया उपोद्घातः क्रियते ---
स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोजनम् ।
सम्बन्धाद्यभिधानं च उपोद्घातः स उच्यते ॥
इह हि भगवान् महर्षिः सांसिद्धिकधर्मज्ञानवैराग्यैश्वर्यसम्पन्नो भगवतः पुराणपुरुषस्यावतारो जगदनुजिघृक्षया प्रजापतेः कर्दमस्य पुत्रः स्वायम्भुवस्य मनोर् दुहितरि देवहूत्यां कपिलो नाम बभूव । स तेन गुणपुरुषान्तरोपलब्धिरूपेण ज्ञानेनापारपारं दिदर्शिषया हस्तावलम्बेनेव, कालाहिदन्दश्यमानजगतः सुधामणिनेव, दुश्चिकित्स्यस्य भवव्याधेर् अपनयनाय सम्यगौषधेनेव, अविद्यान्धकारप्रध्वंसनप्रदीपेनेव, मुक्तिमार्गविरोधिमोहवृक्षविव्रश्चनकुठारेणेवामुनावबोधेन सम्पन्नो ऽन्धे तमसि मज्जज् जगद् इदम् अद्राक्षीत् । तद् अवलोक्यास्य कारुण्यम् उदपादि । अहो खल्व् इदं जगद् अनादिकालसम्बद्धं निसर्गाद् एव अन्धे तमसि वर्तत इति ।
अथासौ महायोगी कथम् अस्य वराकस्य अन्धे तमसि वर्तमानस्य विश्वस्यानुग्रहः कार्य इति समुत्पन्नकारुण्यो मनसि चिन्ताम् आपेदे । स(प्.1) एवं विचिन्तयन् आसुरिसगोत्रं ब्राह्मणविशेषं वर्षसहस्रयाजिनम् अधिकारिणम् अवगत्य ब्रह्मोपदेशविद्यया अतन्द्रितो भूत्वा वाचम् इत्य् उवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "रमे भो" इति । स एवम् उक्तो मुनिर् ईषदनिष्पन्नविवेकवैराग्यो ऽयम् इति व्यवस्य निर्गम्य भूयो ऽपि द्वितीये वर्षसहस्रे पूर्णे प्रत्यागत्य तथैवाभ्युवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "रमे भो" इति । अथासौ महायोगीन्द्रस् तथैव निर्गम्य तृतीये वर्षसहस्रे सम्पूर्णे अभ्येत्योवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "न रमे भो" इति । अथ स भगवता उक्तः --- कथम् इति । पुनर् आह आसुरिः --- "दुःखत्रयाभिघातात्" इति । अथाह कपिलः --- तात उत्सहसे ब्रह्मचर्यवासं वस्तुं यदि तदामीषां दुःखत्रयाणां प्रतीकारं वयम् उपदेक्ष्यामः । सो ऽब्रवीत् --- "भगवन् बाढं शक्तो ऽहं भगवताम् आदेशम् अनुगन्तुम्" इति । स एवं गृहस्थधर्मम् अपहाय पुत्रदारादिकं च, प्रव्रजितो भगवतः किल कपिलाचार्यस्य योगिनः प्राणाः(?) शिष्यो बभूव ।
तत्र यदि कश्चिद् एवं ब्रूयात् --- कुतो ऽस्य जिज्ञासा समुत्पन्ना ययासौ गुरुकुलम् अभिगत इति । तत्रायं प्रतिवादः । दुःखत्रयाभिघाताज् जिज्ञासा समुत्पन्ना । कम् इह परं, किं याथात्म्यं, किं निःश्रेयसं, किं कृत्वा कृतार्थः स्याम् इति मत्वासौ गुरुकुलम् अभिगत इति । तथा हि ---
"तत् तपः स जपः सा धीस् तज् ज्ञानं सा च वैदुषी ।
यतो नैव निपातः स्याद् अन्तःसंसारसागरम्" ॥
इति श्रवणात् ।
किञ् च ---
इहोपपत्तिर् मम केन कर्मणा क्व च प्रयातव्यम् इतो भवाद् इति ।
विचारणा यस्य न जायते क्षितौ कथं स धर्मप्रवणो भविष्यति ॥
तस्मात् समीचीनम् इदं यद् अस्येतिजिज्ञासा समुदपादि ।
किं पुनस् तद् दुःखत्रयं, तद् आह --- आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकम् । तत्र प्रथमं द्विविधं, शारीरं मानसं च । तत्र शारीरं वातपित्तश्लेष्मणां देहधातूनां वैषम्याद् यद् दुःखम् आत्मानं देहम् अधिकृत्य ज्वरातीसारादि प्रवर्तते । मानसं प्रियवियोगाद् अप्रियसंयोगाच् च द्विविधम् । एतद् आध्यात्मिकं दुःखम् अभिहितम् । आधिभौतिकं तु भूतान्य् अधिकृत्य यत् प्रवर्तते मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं तु दिवम् अधिकृत्य यत् प्रवर्तते शीतोष्णवातवर्षादिकम् । एवम् एतैस् त्रिभिर् दुःखैर् अभिहतस्यासुरिसगोत्रस्य ब्राह्मणस्य जिज्ञासा समुत्पन्ना । क्व विषये?(प्.2) तदभिघातके हेतौ । तेषां त्रयाणां दुःखानाम् अभिघातको विनाशको यो ऽसौ हेतुस् तत्र । तां जिज्ञासाम् आह । किम् अमूनि दुःखानि वपुषः, आहोस्वित् तद्व्यतिरिक्तो ऽस्ति कश्चिद् अन्यः पुरुषो यस्येमानि त्रीणि दुःखानि जायन्ते, उतामीषां प्रतीकारोपायो ऽप्य् अस्ति न वा । यद्य् अस्ति तदानीं तम् एवास्थास्यामः । नो चेत् प्रथमप्रावृडासारं षण्ढ[?] इवामूनि निमीलितनेत्रा वयं सोढारः । वृश्चिकादिदष्ट एव विषप्रतीकाराय जाङ्गुलिकं गवेषयति नो वा विषभवपीडासहः । एवम् असह्यदुःखाभिभूतस्यासुरेस् तदभिघातके हेतौ जिज्ञासा समुत्पन्ना । स च समुत्पन्नदुःखाभावं जिज्ञासुस् तत्प्रतीकारकुशलं भगवन्तं कपिलाचार्यं शरणम् अभ्युपगतः, अयं मदभिलषितदुःखप्रतीकारोपायं वक्ष्यतीति ।
ननु दुःखेभ्य एव जिज्ञासा समुत्पन्ना कथं तेषाम् एवाभावाय कारणत्वम् उपयाति । न हि जनयित्रीसकाशाद् उत्पन्नस् तनयस् तस्या एव व्यापादनं कुरुते । सत्यम् । इह लोके यद्य् अस्माद् उत्पद्यते तत् तस्यापि विपत्तिकारणं दृश्यते । यथा कर्कटको ऽश्वतरो वा जनयित्र्याः समुत्पन्नस् ताम् एव व्यापादयति । यद् वा यथा कश्चिद् आशीविषः शुष्कतृणबहुलप्रदेशे स्थितः प्रतिसर्पं दृष्ट्वा क्रुद्धस् तस्य मुखनिःश्वासनिर्गतो वह्निस् तृणानि तं वापि सर्पं ददाह । अमुना न्यायेन दुःखेभ्य एव जिज्ञासा निष्पन्ना दुःखानाम् एवाभावं करिष्यतीत्य् अर्थसङ्गतिः ।
अत्रोच्यते । दृष्टे सापार्था चेत् । चेद् इत्य् अयं निपातः शङ्कायां वर्तते । इह लोके सकलसमुत्पन्नदुःखानां प्रतीकारो ऽस्त्य् एव, किं तदर्थं कपिलोपसर्पणेनेति भावः । तम् एव हेतुं दृष्टं दर्शयति । शारीराध्यात्मिकानां ज्वरातीसारादिसकलव्याधीनां सन्त्य् एवागदङ्कारा अष्टाङ्गायुर्वेदविदो भिषजः कायशल्यशलाकाविषोन्मादक्लीबजराकुमारचिकित्सानिपुणाः । मानसस्याध्यात्मिकतापस्य प्रतीकारः प्रियवस्तुसंयोगाद् अप्रियस्य दूरतः परिहरणाच् च । आधिभौतिकस्य तु ग्रामनगरादिकल्पनया प्रहाणोपपत्तिः । आधिदैविकस्याभिवातयातप्रावरणावरणादिभिः । अतस् तदभिघातकारणात् किं कपिलोपसर्पणेनेति भावः । तथा च लौकिकानाम् आभाणकः ---
अर्के चेन् मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्य लीलया सिद्धौ को विद्वान् यत्नम् आश्रयेत् ॥
अत्रोच्यते --- न । न इत्य् अयं पूर्वपक्षवाक्यनिषेधे । नैवं वाच्यम् इत्य् अर्थः । एकान्तात्यन्ततो ऽभावात् । एकान्ततो ऽवश्यं त्वदुक्तहेतुभिर् न प्रतीकारः । यतश् चिकित्सकानां सुप्रयुक्तागदानां यथाशक्ति यतताम् अपि कदाचिज् जन्तुर्(प्.3) विपद्यते कदाचिज् जीवति । वैद्यगृहे ऽपि वधूपुत्रकलत्रभ्रातृपितृपभृतीनाम् अपरिहार्यमरणदर्शनान् नायम् ऐकान्तिकप्रतीकार आध्यात्मिकस्य । अपरम्, अत्यन्ततो ऽपि नासौ प्रतीकारः । अगदेन नीरुजीकृतानाम् अपि ज्वरादीनां पुनः कतिपयदिवसैर् उत्पत्तिदर्शनात् । अतः सर्वथा आत्यन्तिको ऽपि न दृष्टः प्रतीकार आध्यात्मिकदुःखापनयने समर्थः । वसन्तादीनाम् अपगतानाम् अपि पुनर् आगमनवत् । भवन्ति चात्र श्लोकाः ---
पुनर् दाहः समुत्पन्नः पुनर् जातश् च वेपथुः ।
बाधते च पुनर् हिक्का ज्वरश् च पुनर् आगतः ॥
अन्यच् च ---
पुष्पिताक्षः शलाकी च कुष्ठी कायचिकित्सकः ।
पृच्छन्ति बालभिषजं कथं ते दारका मृताः ॥
किञ् च नास्ति सम्यग्धातुपरिज्ञाननिपुणतया भैषज्यम् । तथा हि ---
यानि कानि च मूलानि येन केन च पेषयेत् ।
यस्मै कस्मै च दातव्यं यद् वा तद् वा भविष्यति ॥
अन्यच् च --- कार्यार्थिजनद्रव्यभक्षणाय, स्वशक्तिख्यापनाय च स्वल्पम् अपि रोगं पुरस्ताद् वर्धयन्ति भिषजः । ततश् च कदाचिद् असौ तेषाम् एवासाध्यताम् आयाति । तथा च ---
वैद्य वैद्य नमस् तुभ्यं क्षपिताशेषमानव ।
त्वयि विन्यस्तभारो ऽयं कृतान्तः सुखम् एधते ॥
एवम् असौ दृष्टेनागदादिहेतुना, एकातन्तो ऽवश्यम्, अत्यन्ततः सर्वथा, शारीरस्याध्यात्मिकदुःखस्य न प्रतीकारः । एवं मानसस्यापि शब्दादिप्रियसंयोगाद् अपि कदाचिन् न निवृत्तिः । एवम् आधिभौतिकम् अप्य् उपायैः कदाचिद् व्यपैति, कदाचिच् च नेति । एवम् आधिदैविकम् अपि कदाचिद् व्यपैति कदाचिच् च न । किञ् च व्यपगतिर् अपि दुःखस्य पुनरुत्पादाद् अनर्थिकेति । अस्य तु शिष्यस्यैकान्तिक आत्यन्तिकश् च दुःखव्यपगमे हेतुर् इष्टः । तस्माद् युक्तं तदर्थं गुरूपसर्पणम् इति
यद्य् एवं तदा दृष्टव्यतिरेकेणाप्य् आनुश्रविकः श्रुतिप्रणीतः स्वर्गादिसाधनरूपो यज्ञादिर् हेतुर् अस्तु । नाकपृष्ठे ऽपि तापत्रयासम्भवात् । तत्रैकान्तिकम् आत्यन्तिकं वानुश्रवे वेदे श्रूयते । गुरुणोक्तं पश्चाद् वेदं शृण्वन्ति शिष्या इत्य् अनुश्रवो वेदः । तत्र भव आनुश्रविकः । श्रौतो यज्ञादिरूपो ऽयं दुःखत्रयप्रतीकारहेतुर् उचितो ऽस्ति । एवं ह्य् आह --- "तरति मृत्युं, तरति शोकं, तरति पाप्मानं, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते" [शतपथब्राह्मण 13 ।3 ।1 ।1] इति । यच् चैनं देवाः पुनर् अप्य् आहुः ---(प्.4)
"अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् ।
किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य" ॥
[ऋग्वेदसंहिता 8 ।48 ।3] इति ।
इह --- श्रुताव् ऐकान्तिकम् आत्यन्तिकं च फलं श्रूयते । अत्रास्य व्याख्या ---
कदाचित् किलेन्द्रो देवान् उपस्थितान् निशम्य इत्य् अवोचत् --- भो भो देवत्वाद् अन्यद् अपि किम् अप्य् अस्ति सुखम् । ततस् ते देवा ऊचुः --- नास्त्य् अन्यत् सुखम् । अत एवास्मन्निवासस्य नाक इत्य् अभिधानम् । कम् इति सुखनाम, तस्य निषेधः अकम् असुखं तन् न इति नाकम् । केवलं सुखम् एव । द्वौ नञौ प्रकृतम् अर्थं गमयतः । ततः प्राहेन्द्रः --- कथम् इति । ततस् ते ऊचुः --- अनेन हेतुना अपाम पीतवन्तः । सोमं यज्ञे सोमरसं, तेन तत्पानेन अमृता अमरा अभूम सम्पन्नाः । किं च अगन्म प्राप्तवन्तः ज्योतिः स्वर्गम् । अन्यच् च अविदाम जानीमो देवान् । अस्मिन् स्वर्गे इयन्तो देवा इति विद्मः । किम् इत्य् आक्षेपे । नूनं निश्चितम् । अस्मान् अस्माकं विभक्तिविपरिणामः । कृणवत् कर्ता । अरातिः शत्रुर् मृत्युः । किं वा धृतिर् जरा अस्माकं करिष्यति । अमृतमर्त्यस्य अमृतपायिनां मर्त्यानाम् इति । "बहुलं छन्दसि"[ ] इति वचनविपरिणामः । एवम् अन्यो ऽपि यः सोमं पास्यति तस्यैकान्तिको ऽवश्यम् आत्यन्तिकः सर्वथा दुःखत्रयाभिघातो भविष्यति । अतो ब्रूमः किं प्रव्रज्यया साङ्ख्यज्ञानेन वा कार्यं वेदोक्तं करिष्यामः । दुःखप्रतीकारश् च स्वर्गो भावीति वेदवादिनां वचनम् उपश्रुत्य साङ्ख्याचार्यस् तन्निवारणाय स्वमतप्रतिष्ठायै च द्वितीयाम् आर्याम् आह ---
दृष्टवद् आनुश्रविकः स ह्य् अविशुद्धः क्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात्
य एष आनुश्रविकः श्रौतो ऽग्निहोत्रादिकः स्वर्गसाधनतया तापत्रयप्रतीकारहेतुर् उक्तः, सो ऽपि दृष्टवद् अनैकान्तिकः प्रतीकारः । तथा हि --- "मध्यमपिण्डं पुत्रकामा पत्नी प्राश्नीयात् "आधत्त पितरो गर्भम्"(वाजसनेयिसंहिता 2 ।33) इति मन्त्रेण"[आपस्तम्बश्रौतसूत्र 2 ।7 ।14] । तद् एवं वेदवचसा बहून् पिण्डान् परःशतान् अश्नाति यावद् एको ऽपि पुत्रो न जायते । तथा "पश्येम शरदः शतं जीवेम शरदः शतम्"[ऋग्वेदसंहिता 7 ।66 ।16] इति श्रुताव् आस्ते । परं गर्भस्थो जातमात्रो बालो युवापि कुमारो म्रियते । किं चान्यत् --- स श्रौतो हेतुः अविशुद्धः पशुहिंसात्मकत्वात् । क्षययुक्तः पुनः पातात् । अतिशययुक्तः तत्रापि स्वामिभृत्यभावश्रवणात् । उक्तं च ---(प्.5)
"षट्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि ।
अश्वमेधस्य वचनाद् ऊनानि पशुभिस् त्रिभिः" ॥
पशुवधो ऽग्निष्टोमे मानुषवधः गोसवव्यवस्था सौत्रामण्यां सुरापानं रण्डया सह स्वेच्छालापश् च ऋत्विजाम् । कल्पसूत्रे ऽन्यद् अप्य् अकृत्यं भूरि कर्तव्यतयोपदिश्यते । "ब्रह्मणे ब्राह्मणम् आलभेत क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे तस्करं नारकाय वीरहणम्"[तैत्तिरीयब्राह्मण 3 ।4 ।11, आपस्तम्बश्रौतसूत्र 20 ।24 ।8] इत्यादिश्रवणात् ।
किञ् च ---
"यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।
भूतहत्यां तथैवेमां न यज्ञैर् मार्ष्टुम् अर्हति" ॥
[भागवतपुराण, 1 ।8 ।52]
"न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुद्ध्यतः" ।
"तद् यथास्मिन् लोके मनुष्याः पशून् अश्नन्ति तथाभिभुञ्जत एवम् अमुष्मिन् लोके पशवो मनुष्यान् अश्नन्ति" [शाङ्खायनब्राह्मण 11 ।2] इति श्रुतिश्रवणात् । अन्यच् च ---
"वृक्षान् छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् ।
यज्ञैश् चेद् गम्यते स्वर्गो नरकः केन गम्यते" ॥
इत्य् अविशुद्धियुक्तः सर्वथा श्रौतो दुःखत्रयप्रतीकारहेतुः । अथ "अपाम सोमम् अमृता अभूम" इति प्राग् उक्तम् । तत्रेदं प्रत्युत्तरम् । सोमपायिनाम् अपि नृगनहुषेन्द्रययातीनां बेधबन्धपरिक्लेशा बहुविधाः । कर्मण उपभोगाद् इतरेषां पतनं च । एकाहादीनां सत्राणां दिनपरिमाणवतां कारणानां परिमाणवद् एव स्वर्गादि कार्यं दृष्टम् । कारणानुगमत्वात् कार्यस्य । परिमाणवन्मृत्पिण्डात् परिमाणवान् एव घटः स्यात् । एवम् आनुश्रविकाणां फलपरिमाणत्वात् पुनः क्षयः । अतिशययुक्तश् च । यथा आढ्यम् अवलोक्य दरिद्रस्य दुःखं स्यात्, सुरूपं च वीक्ष्य कुरूपस्य, प्राज्ञं दृष्ट्वा मूर्खस्य, तथा शताप्सरसं स्वर्गिणं दृष्ट्वा पञ्चाप्सरसस् तं दृष्ट्वैकाप्सरसो दुःखम् उत्पद्यते । एवम् अयं दृष्टवत् । तद् एवम् अन्योन्यातिशयात् स्वर्गे ऽपि दुःखम् अव्यावृत्तम् । तस्मात् । तद्विपरीतः श्रेयान् । ताभ्यां दृष्टानुश्रविकाभ्यां हेतुभ्यां विपरीतो विसदृश ऐकान्तिक आत्यन्तिको विशुद्धो ऽक्षयो ऽनन्तफलः कैवल्यान् निरतिशयो हेतुः स श्रेयान् प्रशस्यः । कथं पुनर् असौ भवतीत्य् आह --- व्यक्ताव्यक्तज्ञविज्ञानात् । व्यक्तं चाव्यक्तं च ज्ञश् च तेषां(प्.6) त्रयाणां विज्ञानाद् अनुभवात् । भवति ह्य् असौ अवश्यं फलदानाद् ऐकान्तिकः, प्रकृतिज्ञानाद् आत्यन्तिकः, यमनियमादिमत्त्वाच् छुद्धः, शरीरभेदे पुनर् अनावेश्यत्वाद् अक्षयफलः । कैवल्याद् अनुत्तरत्वाच् च निरतिशयफलम् इति वाक्यशेषः । तत्र व्यक्तं बुद्ध्यहङ्कारेन्द्रियतन्मात्रभूतभेदात् त्रयोविंशतिकम् । अव्यक्तं प्रधानम् । व्यक्तोत्पत्तिकारणम् । न ह्य् अकारणं कार्यम् इत्य् अस्य सिद्धिः । ज्ञः पुरुषः । सन्निधिसत्तामात्रेण चुम्बक इव लोहस्य प्रवृत्तिकारणम् । अतः प्रधानस्य जडस्य प्रवृत्तिहेतुर् अयम् अस्तीति सिद्धिः । एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञसंज्ञानि । यद्विज्ञानाद् अवश्यं सर्वथा तापत्रयेण विमुच्यते
नन्व् अमीषां कतिधा प्रविभाग इत्य् अत्रोच्यते चतुर्धा । कथम् इति चेत् तद् उच्यते ---
मूलप्रकृतिर् अविकृतिर् महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः
मूलप्रकृतिः प्रधानं मूलभूतत्वात् । मूलं सप्तानां प्रकृतिविकृतीनाम् आदिर् इत्य् अर्थः । प्रकरणात् प्रकृतिः । प्रसवधर्मकत्वात् सा प्रकृतिः । न विकृतिर् अविकृतिर् अन्यस्माद् अनुत्पत्तेः । कारणम् एव सा न कार्यम् इत्य् अर्थः । अनुत्पन्नत्वाद् उत्पादकत्वाच् च । महदाद्यास् तु सप्त प्रकृतयो विकृतयश् च । महान् अहङ्कारः पञ्चतन्मात्राणि चेति सप्त प्रकृतयो ऽन्येषां कारणतया, विकृतयश् च कार्यतया स्वयम् । तत्र व्यक्तिम् आह --- प्रधानाद् बुद्धिर् इति विकृतिः, सा च अहङ्कारं जनयतीति प्रकृतिः । अहङ्कारो महत उत्पन्न इति विकृतिः, तन्मात्राणि जनयतीति प्रकृतिः । तन्मात्राण्य् अहङ्काराद् उत्पन्नानीति विकृतयः पञ्चापि, ततः पञ्चमहाभूतानि जायन्त इति प्रकृतयः । उत्पन्नत्वाद् उत्पादकत्वाच् च सप्तमाः प्रकृतयो विकृतयश् च । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाख्यानि । षोडशकस् तु पुनर् विकार एव कार्यत्वात् । न तु तस्य प्रकृतित्वम् अकारणत्वात् । तद्व्यक्तिम् आह --- वैकृतिकाद् अहङ्काराद् उत्पन्नान्य् एकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीति षोडशको ऽयं गणो विकारो ऽन्यस्माद् उत्पन्नो न हि ततो ऽन्यद् उत्पद्यत इत्य् अर्थः । उत्पन्नत्वाद् अनुत्पादकत्वाच् च । पुरुषस् तु पुनर् न प्रकृतिर् अनुत्पादकत्वात् न च विकृतिर् अनुत्पन्नत्वात् । नैवासौ कारणं न च कार्यम् इत्य् अर्थः । एवम् एष प्रकृतिः, प्रकृतिविकृतिः, विकृतिः, न प्रकृतिर् न च विकृतिर् इतिभेदाच् चतुर्धा प्रकृतिविकृतिविभागो ऽभिहितः
(प्.7)
एषां व्यक्ताव्यक्तज्ञानां प्रमेयाणां साधनाय प्रमाणान्य् आह । प्रमाणप्रमेयप्रमातृप्रमितिक्रमेण हि सकलस्य सिद्धिर् दृष्टा ।
दृष्टम् अनुमानम् आप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणम् इष्टं प्रमेयसिद्धिः प्रमाणाद् धि
दृष्टम् इति प्रत्यक्षपर्यायः । अक्षम् इन्द्रियं प्रतीत्य यद् उत्पद्यते ज्ञानं तत् प्रत्यक्षं दृष्टम् उच्यते । यथा श्रोत्रादीनां शब्दादयः पञ्चेन्द्रियार्थाः पञ्चानां दृष्टं प्रमाणम् । प्रथमम् इदं मुख्यं सकलप्रमाणानाम् । यो ऽर्थो ऽमुना दृष्टेन साधयितुं न पार्यते तत्रानुमानस्यावकाशः । तच् च त्रिसाधनं पञ्चसाधनं वा । त्र्यवयवं पञ्चावयवम् इत्य् अपरे । तच् च त्रयस्त्रिंशदाभासरहितं प्रत्यक्षाभावे प्रतन्यते ऽनुमानम् । कम् अपि हेतुम् अन्वीक्ष्य तस्य हेतोः पश्चान् मीयत इत्य् अनुमानम् । यथा धूमं हेतुम् अन्वीक्ष्य महानस इव पूर्वं वह्निदर्शनाद् अग्नेर् अस्तित्वं साध्यत इत्य् अनुमानम् । प्रत्यक्षानुमानाभ्यां यो ऽर्थः साधयितुं न शक्यस् तत्राप्तवचनम् । यथा स्वर्गे ऽप्सरसः सन्ति, नन्दनं वनं, तत्र विशेषाः शब्दादयो विषयाः, विमाने ऽधिवास इति । आप्ता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर् वेदः, ताभ्यां उपदिष्टं तथेतिश्रद्धेयम् आप्तवचनम् ।
नन्व् अर्थापत्तिः सम्भवो ऽभावः प्रतिभा ऐतिह्यम् उपमानं चेतिप्रभृतीनि सन्ति बहूनि प्रमाणान्तराणि कथम् अत्र त्रिविधं प्रमाणम् इति सङ्गतिः । अत्रोच्यते --- सर्वप्रमाणसिद्धत्वात् । सर्वाणि हि प्रमाणानि प्रमाणत्रये ऽविरुद्धानि । तत्र पीनो देवदत्तो दिवा न भुङ्क्त इत्य् उक्ते रात्रौ भुङ्क्त इत्य् अर्थः । सार्थापत्तिर् अनुमानम् एव । प्रस्थ इत्य् उक्ते चत्वारः कुडवा इति बोधः सम्भवः । सो ऽप्य् अनुमानम् एव । अभावश् च प्रागितरेतरप्रध्वंसात्यन्ताभावभेदाच् चतुर्धा । यथा व्रीहिशोषणदर्शनान् न वृष्टो देव इति वृष्टेर् अभावं साधयति । सो ऽप्य् अनुमानभेदः । प्रतिभा यथा ---
दक्षिणेन तु विन्ध्यस्य सह्यस्य तु यद् उत्तरम् ।
पृथिव्याम् आ समुद्रायां स प्रदेशो मनोरमः ॥
इत्य् उक्ते तत्र शोभना गुणाः सन्तीति प्रतिभोत्पद्यते । प्रतिभा जानतां ज्ञानम् । साप्य् अनुमानम् एव । ऐतिह्यं यथा --- अस्मिन् वटे यक्षिणी प्रतिवसति इति जना वदन्ति इत्य् उक्ते, सा विघ्नं करोति, धनादि यच्छतीति ज्ञानं, तद् अप्य् अनुमानम् एव । उपमानम् --- यथा गौस् तथा गवय इत्य्(प्.8) अप्य् अनुमानम् एव । किं च तृषितस्याञ्जलिना, क्षुधितस्य पञ्चाङ्गुलियागात्, पृथुलाक्षिप्रभृतिदर्शनात् दुर्बलस्य, तर्जनीपङ्कदर्शनात्? ज्ञानम् इत्याद्यनुमानम् एव । तस्मात् त्रिष्व् एवान्यद् अन्तर्भवतीति युक्तम् अभिहितं त्रिविधं प्रमाणम् । इष्टम् इति अभिप्रेतम् इत्य् अर्थः । तेन प्रमाणेन किं साध्यम् इत्य् आह --- प्रमेयसिद्धिः प्रमाणाद् धि । यस्मात् प्रमेयं सकलं प्रमाणेन प्रमीयते यथा तुलया चन्दनादि, कर्षादिना घृतादि, प्रस्थादिना वा व्रीह्यादीत्यादिवत् । प्रत्यक्षानुमानागमाः प्रमाणानि । प्रमेया व्यक्ताव्यक्तज्ञाः । प्रमाता आत्मा । तत्र त्रयोविंशतिकं व्यक्तम् । अव्यक्तं प्रधानम् । ज्ञः क्षेत्रज्ञः । तद् अमीषां मध्ये किञ्चित् प्रत्यक्षेणान्यद् अनुमानेनेतरद् आप्तानुमानाभ्यां प्रमीयते । तस्माद् आचार्येण भगवता युक्तम् अभिहितम् --- "प्रमेयसिद्धिः प्रमाणाद् धि" इति
तत्र त्रिविधस्य प्रमाणस्य पृथक् लक्षणम् उपन्यस्यते ।
प्रतिविषयाध्यवसायो दृष्टं त्रिविधम् अनुमानम् आख्यातम् ।
तल् लिङ्गलिङ्गिपूर्वकम् आप्तश्रुतिर् आप्तवचनं तु
विषयं विषयं प्रति यो ऽध्यवसायो नेत्रादीनाम् इन्द्रियाणां पञ्चानां रूपादिषु पञ्चसु, तत् प्रत्यक्षं प्रतिपत्तिरूपं दृष्टाख्यम् । अनुमानं त्रिविधम् । त्रिसाधनं त्र्यवयवं पञ्चावयवम् इत्य् अपरे । तद् आख्यातं कथितम् । पक्षहेतुदृष्टान्ता इति त्र्यवयवम् । पक्षः प्रतिज्ञापदम् । यथा --- वह्निमान् अयं प्रदेशः । साध्यवस्तूपन्यासः पक्षः । इतरे पक्षाभासाः प्रत्यक्षविरुद्धादयो नव । त्रिरूपो हेतुः । त्रैरूप्यं पुनः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वम् इति । अत्रोदाहरणं यथा --- धूमवत्त्वाद् इति । अन्ये हेत्वाभासाः चतुर्दश । असिद्धानैकान्तिकविरुद्धादयः । साधर्म्यवैधर्म्याभ्यां द्विविधं निदर्शनम् । यथा महानसम् । इतरे निदर्शनाभासा दश । एवं त्रयस्त्रिंशदाभासरहितं त्र्यवयवम् अनुमानम् । पञ्चावयवम् इत्य् अपरे । तद् आह --- अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः । एवं पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थप्रतिपादनं परार्थम् अनुमानम् । तच् च त्रिविधम् । पूर्ववच्छेषवत् सामान्यतोदृष्टं च । तत्र विशिष्टमेघोन्नतिदर्शनात् भवित्रीं वृष्टिं सम्भावयति । पूर्वम् इयं दृष्टेति पूर्ववत् । नदीपूरदर्शनाद् उपरि वृष्टो देव इति वा प्रतीतिः । शेषवद् यथा --- समुद्रोदकबिन्दुं प्राश्य, शेषस्य लवणभावो ऽनुमीयते इति शेषवत् ।(प्.9) सामान्यतोदृष्टम् --- पुष्पिताम्रदर्शनात् । अन्यत्र पुष्पिता आम्रा इति । पुनर् यथा --- बहिर् उद्योत इति केनाप्य् उक्तं, तत्रापरेणाप्य् उक्तम् । चन्द्र उदितो भविष्यतीत्य् अर्थसङ्गतिः । तल् लिङ्गलिङ्गिपूर्वकम् इति । लिङ्गेन त्रिदण्डादिदर्शनेनादृष्टो ऽपि लिङ्गी साध्यते नूनम् असौ परिव्राड् अस्ति यस्येदं त्रिदण्डम् इति । आप्तश्रुतिर् आप्तवचनं तु । तृतीयं प्रमाणम् । आप्ता ब्रह्मादय आचार्याः, श्रुतिर् वेदस् तद् एतद् उभयम् आप्तवचनम् । आप्तिः साक्षादर्थप्राप्तिर् यथार्थोपलम्भः तया वर्तत इत्य् आप्तः साक्षात्कृतधर्मा यथार्थाप्त्या श्रुतार्थग्राही तद् उक्तम् आप्तवचनम् । तत्रापि प्रसिद्धिलक्षणागुणयोगात् तिस्रः शब्दवृत्तयः । तत्र लक्षणात्रैविध्यम् । जहल्लक्षणाजहल्लक्षणा जहदजहल्लक्षणा चेत्यादि प्रमाणशास्त्रेषु बहुतरः प्रपञ्च आस्ते । तत्र प्रक्रान्तम् एव तावद् अभिधीयते भगवतः कपिलस्य मतम् ।
आगमो ह्य् आप्तवचनम् आप्तं दोषक्षयाद् विदुः ।
क्षीणदोषो ऽनृतं वाक्यं न ब्रूयाद् धेत्वसम्भवात् ॥
स्वकर्मण्य् अभियुक्तो यो रागद्वेषविवर्जितः ।
पूजितस् तद्विधैर् नित्यम् आप्तो ज्ञेयः स तादृशः ॥
तद् एवम् एतत् त्रिविधं प्रमाणम्
तद् एवं व्यक्ताव्यक्तज्ञाख्यस्य प्रत्यक्षादित्रिविधप्रमाणेषु केन कस्य सिद्धिः स्यात् इति । अत्रोच्यते ---
सामान्यतस् तु दृष्टाद् अतीन्द्रियाणां प्रतीतिर् अनुमानात् ।
तस्माद् अपि चासिद्धं परोक्षम् आप्तागमात् साध्यम्
अत्र प्रधानपुरुषाव् अतीन्द्रियौ तयोः सामान्यतोदृष्टाद् अनुमानात् सिद्धिः । यस्मान् महदादि लिङ्गं त्रिगुणं दृष्ट्वा कार्यं तत्कारणम् अदृष्टम् अप्य् अस्ति त्रिगुणं चेति साध्यते प्रधानम् । न ह्य् असतः सदुत्पत्तिः स्याद् इति । न च कारणासदृशं कार्यं स्याद् इति । व्यक्तं तु प्रत्यक्षेणैव साधितम् इति तदर्थे न प्रयत्नः । यस्माज् जडम् अपि प्रधानं प्रसूतिक्रियायां प्रवर्तते तस्माद् अस्ति लोहस्य चलनक्रियाशक्तिहेतुचुम्बकवद् अवश्यं पुरुष इति ज्ञसिद्धिः
ननु प्रत्यक्षेण यो ऽर्थो नोपलभ्यते स सर्वथा नास्तीति मतं सङ्गच्छते । यथा द्वितीयम् अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो(प्.10) वा । एवं प्रधानपुरुषौ नोपलभ्येते तस्मात् ताव् अपि न स्त इत्य् आशङ्कानिरासायाह ---
अतिदूरात् सामीप्याद् इन्द्रियघातान् मनोऽनवस्थानात् ।
सौक्ष्म्याद् व्यवधानाद् अभिभवात् समानाभिहाराच् च
इह लोके सताम् अप्य् अर्थानाम् अष्टधा नोपलब्धिः । तथा हि दर्शयति --- यथा सताम् अपि देवदत्तविष्णुमित्रयज्ञदत्तानां देशान्तरगतानाम् अतिदूरान् नोपलब्धिः । तत् किं ते न सन्ति । यथा वा चक्षुर् अतिसामीप्यात् कज्जलं नोपलभते । तत् किम् इदं नास्ति । यथा बधिरान्धौ शब्दरूपे नोपलभेते । तत् किं ते न स्तः । अनवस्थितचित्तौ राजानम् अपि यान्तं न पश्यति । तत् किम् असौ न गतः । धूमोष्मत्रुटिनीहारपरमाणवो नोपलभ्यन्ते । तत् किम् अमीषाम् अभावः । कुड्येन व्यवहितं नोपलभ्यते । तत् किं नास्ति । सूर्यादितेजसाभिभूतानां ग्रहनक्षत्रतारकादीनाम् अनुपलम्भात् तेषां किम् अभावः शक्यते परिकल्पयितुम् । मुद्गराशिकुवलयामलकमौक्तिककपोतादिनिकुरम्बे क्षिप्तं समानं यदि नोपलभ्यते तद् अवेदम् इति । तत् किं नास्ति । एवम् अष्टधा सताम् अप्य् अनुपलम्भो ऽभिहितः । इदानीम् असतां चतुर्धा भवति । तत्रोच्यते --- प्राक्प्रध्वंसेतरेतरात्यन्ताभावभेदात् । तत्र मृत्पिण्डे घटः प्राग् उत्पत्तेर् नोपलभ्यत इति प्रागभावः । प्रध्वंसाभावो यथा मुद्गराभिघातात् प्रध्वस्तो घटो नोपलभ्यते । इतरेतराभावो यथा अश्वे गोत्वम्, गवि अश्वत्वम् । अत्यन्ताभावो यथा द्वितीयम् अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो वा । एवम् इयं द्वादशधा अनुपलब्धिः । सताम् अष्टधा ह्य् असतां चतुर्धा । एवं प्रधानपुरुषाव् अपि सन्तौ नोपलभ्येते
तद् अमीषां मध्ये केन हेतुनेमौ नोपलभ्येते । तद् उच्यते ---
सौक्ष्म्यात् तदनुपलब्धिर् नाभावात् कार्यतस् तदुपलब्धिः ।
महदादि तच् च कार्यं प्रकृतिविरूपं सरूपं च
तस्य प्रधानस्यानुपलब्धिर् अनवगमः सौक्ष्म्यात् हेतोर् नाभावात् । सूक्ष्मं प्रधानं शब्दाद्यलक्षणत्वात् परमाण्वादिवत् । न पुनर् एवं, यन् नास्ति प्रधानम् अतो नोपलभ्यते । किं तु अस्ति प्रधानं नोपलभ्यते सौक्ष्म्यात् परमाण्वादिवत् । तर्हि कथम् उपलभ्यत इति । अत्राह --- कार्यतस् तदुपलब्धिः ।(प्.11) कार्यं दृष्ट्वा कारणम् अनुमेयं वटधान्यवत् । यथा वटधान्यं कारणं वटं कार्यम् आलोक्यानुमीयते । एवं सद् एव प्रधानं कारणं महदादेः सतः कार्याद् अनुमीयते । न ह्य् असतः सदुत्पत्तिर् भवतीति । महदादि महान हङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि चेति त्रयोविंशतिकम् । एतन् महदादि कार्यं त्रिगुणं दृष्ट्वानुमीयते --- अस्ति प्रधानम् अपि त्रिगुणं कारणं यस्येदं त्रिगुणं कार्यम् इति । किं चान्यत् । तच् च कार्यं प्रकृतिविरूपं सरूपं च । प्रधानाद् विसदृशं सदृशं चेत्य् अर्थः । सन्ति ते हेतवो यैर् एतत् प्रधानं विसदृशं सदृशं च । यथा लोके पुत्रः पितुः सदृशो विसदृशः स्यात् यदि रूपेण तदा न गुणैः, यदा गुणैस् तदा न रूपेणेति यावत् । तांश् च हेतून् उपरिष्टाद् वक्ष्यामः
तिष्ठतु तावद् एतत् । अन्यत् पृच्छामः --- किम् एतन् महदादि प्राग् उत्पत्तेः प्रधाने सत् जायते, उतासत् सम्भवति । अत्राचार्याणां विप्रतिपत्तिर् अतः संशयः । अत्र वैशेषिका विप्रतिपन्ना असतः सद् भवतीति मन्यन्ते । मृत्पिण्डे हि प्राग् उत्पत्तेर् घटो नास्तीति व्यवसितास्ते । अस्ति नास्तीति वराका जीवकाः । नैवास्ति न च नास्ति । एष बौद्धानां पक्षः । एवम् अन्योन्यविरोधवादिषु दर्शिषु को नाम निश्चयः । तद् उच्यते । तत्र तावत् सदसद्वादिनो जीवकाः स्ववचनविरोधेनैव निरस्ताः । यदि सत् तदासन् न भवति । उतासत् तदा सद्भावो न । यतः सदसतोर् एकत्र विरोधात् । अत्र दृष्टान्तो यथा देवदत्तो मृतो जीवति चेतिवत् । बौद्धानां तु नास्ति न च नास्तीति पक्षपरिग्रहाभावात् तैः सह सञ्जल्प एव न युज्यते । वैशेषिकाणां तु असतः सद् भवतीति मतप्रतिषेधाय उच्यते ---
असदकरणाद् उपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच् च सत् कार्यम्
इह लोके सद् एव सद् भवति । असतः करणं नास्ति । यदि स्यात् तदा सिकताभ्यस् तैलं, कूर्मरोमभ्यः पटप्रावरणम्, वन्ध्यादुहितृभ्रूविलासः, शशविषाणं, खपुष्पं च स्यात् । न चास्ति तस्माद् अनुमीयते प्रधाने प्राग् उत्पत्तेर् महदादिकम् अस्त्य् एव । उपादानग्रहणात् । इह लोके यो येनार्थी स तदुपादानग्रहणं करोति । तन्निमित्तम् उपादत्ते । तद् यथा दध्यर्थी क्षीरस्योपादानं कुरुते । यदि चासत्कार्यं स्यात् तदा दध्यर्थी उदकस्याप्य् उपादानं कुर्यात्, न च कुरुते, तस्मात् प्रधाने महदादि कार्यम् अस्तीति । किं च सर्वसम्भवाभावात् । इह लोके यद् यस्मिन् विद्यते तस्माद् एव तद् उत्पद्यते । यथा तिलेभ्यस् तैलं, दध्नो घृतम् । यदि सासत्कार्यं स्यात् तदा सर्वं(प्.12) सर्वतः सम्भवेत् ततश् च तृणपांसुवालुकादिभ्यो रजतसुवर्णमणिमुक्ताप्रवालादयो जायेरन् । न च जायन्ते । तस्मात् पश्यामः सर्वसम्भवाभावाद् अपि महदादि कार्यं प्रधाने सद् एव सद् भवतीति । अतश् चास्ति --- शक्तस्य शक्यकरणात् । इह लोके शक्तः शिल्पी करणादिकारणोपादानकालोपायसम्पन्नः शक्याद् एव शक्यं कर्म आरभते नाशक्यम् अशक्यात् । तद् यथा --- शक्तः कुम्भकारः शक्याद् एव मृत्पिण्डात् शक्यदण्डचक्रसूत्रोदकविदलतलादिभिः सम्पन्नो घटशरावोदञ्चनादीन्य् आरभमाणो दृष्टः । न च मणिकादि, अशक्यत्वात् तावता पिण्डेन तस्य । यदि पुनः करणनियमो न स्याद् अशक्याद् अप्य् अशक्यम् आरभ्येत । तस्मात् सत् कार्यं स्यान् नासत् । किं च --- कारणभावाच् च । कार्यं सद् एव स्यात् । इह लोके यल्लक्षणं कारणं तल्लक्षणं कार्यं स्यात् । यथा कोद्रवेभ्यः कोद्रवाः, व्रीहिभ्यो व्रीहयः स्युः । यदि चासत्कार्यं स्यात् तदा कोद्रवेभ्यः शालीनाम् अपि निष्पत्तिः स्यात् । न च भवति । तस्मात् कारणभावाद् अपि पश्यामः प्रधाने महदादि कार्यम् अस्तीति । साधितम् एवम् एतैः पञ्चभिर् हेतुभिः सत् कार्यम् । "सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद्धैक आहुर् असद् एवेदम् अग्र आसीत्" इत्य् आरभ्य "सत्त्वेव सोम्येदम् अग्र आसीत्" [छान्दोग्योपनिषद् 6 ।2 ।1-2] इति श्रुतेः
तत्र यद् उक्तं पूर्वस्याम् आर्यायां "प्रकृतिविरूपं सरूपं च" इति । तत्साधर्म्यवैधर्म्यप्रतिपादनाय इदम् आरभ्यते ---
हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम्
हेतुमद् इति । यस्योत्पत्तिकारणम् अस्ति तद् धेतुमत् । हेतुर् अपदेशो निमित्तं प्रकृतिः कारणम् इत्य् अनर्थान्तरम् । प्रधानस्यैते पर्यायशब्दाः । तस्मात् प्रधानेन हेतुना सकारणम् इदं महदादिभूतपर्यन्तं त्रयोविंशतिकं लिङ्गम् । तथा हि --- महद् बुद्धितत्त्वं तत्प्रधानेन हेतुमत् । तेनाहङ्कारो ऽमुनैकादशेन्द्रियाणि तन्मात्राणि च । तैश् च भूतानीति सर्वम् एवेदं परस्परहेतुमत् । अथ च द्विविधो हेतुः कारको ज्ञापकश् च । तत्र प्रधानबुद्ध्यहङ्कारतन्मात्रलक्षणश् चतुर्विधः कारकः । विपर्ययाशक्तितुष्टिसिद्ध्यनुग्रहभेदात् पञ्चधा ज्ञापकः । तद् द्विविधेनापि हेतुना युक्तं हेतुमद् इदं सिद्धम् । किं च --- अनित्यं प्रलयं गच्छति । यस्माद् उत्पत्तिमत् तस्माद् अनित्यम् । अकारणवन् नित्यम् इति नित्यस्य लक्षणम् । तद्विपरीतम् इदम् अतो ऽनित्यम् । तद् यथा --- मृत्पिण्डाद् उत्पन्नो घटः स चानित्यो दृष्टः । एवं महदादि प्रधानाद् उत्पन्नं(प्.13) तस्माद् अनित्यं तस्मिन्न् एव च लीयते । तथा हि --- प्रधाने बुद्धिस् तस्याम् अहङ्कारस् तस्मिन्न् इन्द्रियाणि तन्मात्राणि च तेषु भूतानि प्रलयकाले लीयन्ते । तस्माद् अनित्यम् । किञ् च --- अव्यापि असर्वगतम् । यथा प्रधानपुरुषौ सर्वगतौ न तथेदम् इत्य् अर्थः । इदं हि यस्मिन्न् एव प्रदेशे ऽवस्थितं तस्मिन्न् एव वर्तते । किं च --- सक्रियम् । यस्मात् संसरणकाले महदादि कार्यं सूक्ष्मशरीरम् आश्रित्य संसरति तस्मात् सक्रियम् । किं च --- अनेकम् बहुविधं त्रयोविंशतिप्रकारकम् । इतरच् च --- आश्रितम् । यद् यस्माद् उत्पद्यते तत् तदाश्रितम् । बुद्धिः प्रधानम् आश्रिता, तां चाहङ्कारः, तं चेन्द्रियाणि तन्मात्राणि च, तानि महाभूतान्य् आश्रितानि । एवम् आश्रितम् । लयं गच्छतीति लिङ्गम् । सावयवम् इति । अवयन्तीत्य् अवयवा यथा पिण्डस्य हस्तपादाद्याः । शब्दस्पर्शरसरूपगन्धाद्यवयवसम्पन्नं व्यक्तम् । किं च --- परतन्त्रम् पराधीनम् । यथा पितरि जीवति पुत्रो न स्वतन्त्र एवं व्यक्तम् । प्रधानतन्त्रा बुद्धिः, बुद्धितन्त्रो ऽहङ्कारः, अहङ्कारतन्त्राणि इन्द्रियाणि तन्मात्राणि च, तन्मात्रतन्त्राणि महाभूतानीति । एवं परतन्त्रम् । व्यक्तम् उक्तम् । एतद्विपरीतलक्षणम् अव्यक्तम् । अहेतुमत् अनुत्पन्नत्वात् । नित्यम् अकारणवत्त्वात् । व्यापि सर्वगतत्वात् । आब्रह्मस्तम्बपर्यन्तं पुरुषवद् व्याप्य प्रधानम् अवस्थितम् । निष्क्रियं सर्ववापकत्वात् । एकं सर्वकारणत्वात् । अनाश्रितं प्रभविष्णुत्वात् । अलिङ्गम् अनुत्पत्तिकत्वात् । निरवयवम् अमूर्तत्वात् । स्वतन्त्रं सर्वोत्पत्तिकारणत्वात्
मूल पाठ: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0