भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 41-60

41

यदा लोकानुपन्नाः प्रधानादिसर्गे तदा सूक्ष्मशरीरमुत्पन्नमिति । किंचान्यदसक्तं न संयुक्तं तिर्यग्योनिदेवमानुषस्थानेषु सूक्ष्मत्वात् कुत्रचिदसक्तं पर्वतादिष्वप्रतिहतप्रसरं सर्ति गच्छति । नित्यं यावन्नज्ञानमुत्पद्यते तावत् संसरति तच्च महदादिसूक्ष्मपर्यन्तं महानादौ यस्य तन्महदादि बुद्धिरहंकारो मन इति पञ्च तन्मात्राणि सूक्ष्मपर्यन्तं तन्मात्रपर्यन्तं संसरति शूलग्रहपिपीलिकावत् त्रीनपि लोकान् । निरुपभोगं भोगरहितं तत् सूक्ष्मशरीरं पितृमातृजेन बाह्येनोपचयेन क्रियाधर्मग्रहणात् भोगेषु समर्थं भवतीत्यर्थः । भावैरधिवासितं पुरस्ताद्भावान् धर्मादीन् वक्ष्यामस्तैरधिवासितमुपरंजितं लिंगमिति । प्रलयकाले महदादिसूक्ष्मपर्यन्तं करणोपेतं प्रधाने लीयते असंसरणयुक्तं सदा सर्गकालमत्र वर्त्तते प्रकृतिमोहबन्धनबद्धं सत् संसरणादिक्रियास्वसमर्थमिति पुनः सर्गकाले संसरति तस्माल्लिंगं सूक्ष्मम् ॥ 40 ॥
किं प्रयोजनेन त्रयोदशविधं करणं संसरतीत्येवं चोदिते सत्याह ।
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो यथा विना छाया ।
तद्वद्विना विशेषैस्तिष्ठति न निराश्रयं लिङ्गम्

42

चित्रं यथा कुड्याश्रयमृते न तिष्ठति स्थाण्वादिभ्यः कीलकादिभ्यो विना छाया न तिष्ठति तैर्विना न भवत्यादिग्रहणाद्यथा शैत्यं विना नापो भवन्ति शैत्यं वाद्भिर्विना । अग्निरुष्णं विना वायुः स्पर्शं विना आकाशमवकाशं विना पृथिवी गन्धं विना तद्वदेतेन दृष्टान्तेन न्यायन विना विशेषैरविशेषैस्तन्मात्रैर्विना न तिष्ठति । अथ विशेषभूतान्युच्यन्ते शरीरं पञ्चभूतमयं वैशेषिणा शरीरेण विना क्व लिङ्गस्थानं चेति क्व एकदेहमुज्झति तदेवान्यमाश्रयति निराश्रयमाश्रयरहितं लिङ्गं त्रयोदश विधं करणमित्यर्थः ॥ 41 ॥
किमर्थं तदुच्यते ।
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम्

43

पुरुषार्थः कर्तव्य इति प्रधानं प्रवर्त्तते स च द्विविधः शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरो लब्धिलक्षणश्च । शब्दाद्युपलब्धिर्ब्रह्मादिषु लोकेषु गन्धादिभोगावाप्तिः गुणपुरुषान्तरोपलब्धिर्मोक्ष इति तसमादुक्तं पुरुषार्थहेतुकमिदं सूक्ष्मशरीरं प्रवर्त्तत इति । निमित्तनैमित्तिकप्रसंगेन निमित्तं धर्मादि नैमित्तिकमूर्द्ध्वगमनादि पुरस्तादेव वक्ष्यामः प्रसंगेन प्रसक्त्या प्रकृतेः प्रधानस्य विभुत्वयोगाद्यथा राजा स्वराष्ट्रे विभुत्वाद्यद्यदिच्छति तत्तत् करोतीति तथा प्रकृतेः सर्वत्र विभुत्वयोगान्निमित्तनैमित्तकं प्रसंगेन व्यवतिष्ठते पृथक् पृथग्देहधारणे लिङ्गस्य व्यवस्थां करोति । लिंगं सूक्ष्मः परमाणुभिस्तन्मात्रैरूपचितं शरीरं त्रयोदशविधकरणोपेतं मानुषदेवतिर्यग्योनिषु व्यवतिष्ठते कथं नटवत् यथा नटः पटान्तरेण प्रविश्य देवो भूत्वा निर्गच्छति पुनर्मानुषः पुनर्विदूषकः । एवं लिंगं निमित्तनैमित्तिकप्रसंगेनोदरान्तः प्रविश्य हस्ती स्त्री पुमान् भवति ॥ 42 ॥
भावैरधिवासितं लिंगं संसरतीत्युक्तं तत् के भावा इत्याह ।
सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः

44

भावास्त्रिविधाश्चिन्त्यन्ते सांसिद्धिकाः प्राकृता वैकृताश्च । तत्र सांसिद्धिका यथा भवगतः कपिलस्यादिसर्गे उत्पद्यमानस्य चत्वारो भावाः सहोत्पन्नाः धर्मो ज्ञानं वैराग्यमैश्वर्यमिति । प्राकृताः कथ्यन्ते ब्रह्मणश्चत्वारः पुत्राः सनकसनन्दनसनातनसनत्कुमारा बभूवुः । तेषामुत्पन्नकार्यकारणानां शरीरिणां षोडशवर्षाणामेते भावाश्चत्वारः समुत्पन्नास्तस्मादेते प्राकृताः । तथा वैकृता यथा आचार्यमूर्त्तिं निमित्तं कृत्वास्मदादीनां ज्ञानमुत्पद्यते ज्ञानाद्वैराग्यं वैराग्याद्धर्मो धर्मादैश्वर्यमिति । आचार्यमूर्त्तिरपि विकृतिरिति तस्माद्वैकृता एते भावा उच्यन्ते यैरधिवासितं लिङ्गं संसरति एते चत्वारो भावाः सात्विकास्तामसाविपरीताः सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तमित्यत्र व्याख्याता एवमष्टौ धर्मो ज्ञानं वैराग्यमैश्वर्यमधर्मो ऽज्ञानमवैराग्यमनैश्वर्यमित्यष्टौ भावाः । एतदुक्तमध्यवसायो बुद्धिः धर्मो ज्ञानमिति कार्यं देहस्तदाश्रयाः कललाद्या ये मातृजा इत्युक्ताः शुक्रशोणितसंयोगे विवृद्धिहेतुकाः कललाद्या बुद्बुदमांसपेशीप्रभृतयः । तथा कौमारयौवनस्थविरत्वादयो भावा अन्नपानरसनिमित्ता निष्पद्यन्त अतः कार्याश्रयिण उच्यन्त अन्नादिविषयभोगनिमित्ता जायन्ते ॥ 43 ॥
निमित्तनैमित्तिकप्रसङ्गेनेति यदुक्तमत्रोच्यते ।
धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः

45

धर्मेण गमनमूर्द्ध्वं धर्मं निमित्तं कृत्वोर्द्ध्वमुपनयति ऊर्द्ध्वमित्यष्टौ स्थानानि गृह्यन्ते । तद्यथा । ब्राह्मं प्राजापत्यं सौम्यमैन्द्रं गान्धर्वं राक्षसं पैशाचमिति तत् सूक्ष्मं शरीरं गच्छति पशुमृगपक्षिसरीसृपस्थावरान्तेष्वधर्मो निमित्तम् । किंच ज्ञानेन चापवर्गश्च पञ्चविंशतितत्त्वज्ञानं तेन निमित्तेनापवर्गो मोक्षः ततः सूक्ष्मं शरीरं निवर्तते परमात्मा उच्यते । विपर्ययादिष्यते बन्धः अज्ञानं निमित्तं स चैष नैमित्तिकः प्राकृतो वैकारिको दाक्षिणिकश्च बन्ध इति वक्ष्यति पुरस्तात् यदिदमुक्तम् । ऽप्राकृतेन च बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन बद्धो नान्येन मुच्यतेऽ; ॥ 44 ॥
तथान्यदपि निमित्तम् ।
वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात् ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः

46

यथा कस्यचिद्वैराग्यमस्ति न तत्त्वज्ञानं तस्मादज्ञानपूर्वाद्वैराग्यात् प्रकृतिलयो मृतो ऽष्टासु प्रकृतिषु प्रधानबुद्ध्यहङ्कारतन्मात्रेषु लीयते न मोक्षः ततो भूयो ऽपि संसरति । तथा यो ऽयं राजसो रागः यजामि दक्षिणां ददामि येनामुष्मिंल्लोके ऽत्र यद्दिव्यं मानुषं सुखमनुभवाम्येतस्माद्राजसाद्रागात् संसारो भवति । तथा ऐश्वर्यादविघातः एतदैश्वर्यमष्टगुणमणिमादियुक्तं तस्मादैश्वर्यनिमित्तादविघातो नैमित्तिको भवति ब्राह्मादिषु स्थानेष्वैश्वर्यं न विहन्यते । किंचान्यद्विपर्ययाद्विपर्यासः तस्याविघातस्तस्य विपर्यासो विघातो भवत्यनैश्वर्यात् सर्वत्र विहन्यते । किंचान्यद्विपर्याद्विपर्यासः स्याविघातस्य विपर्यासो विघातो भवत्यनैश्वर्यात् सर्वत्र विहन्यते ॥ 45 ॥
एष निमित्तैः सह नैमित्तिकः षोडशविधो व्याख्यातः । स किमात्मक इत्याह ।
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्दात् तस्य भेदास्तु पञ्चाशत्

47

यथा एष षोडशविधो निमित्तनैमित्तभेदो व्याख्यात एष प्रत्ययसर्ग उच्यते । प्रत्ययो बुद्धिरित्युक्ताध्यवसायो बुद्धिर्धर्मो ज्ञानमित्यादि स च प्रत्ययसर्गश्चतुर्धा भिद्यते विपर्ययाशक्तितुष्टिसिद्धाख्यभेदात् । तत्र संशयो ऽज्ञानम् । यथा कस्यचित् स्थाणुदर्शने स्थाणुरयं पुरुषो वेति संशयः । अशक्तिर्यथा । तमेव स्थाणुं सम्यद्गृष्ट्वा संशयं छेत्तुं न शक्नोतीत्यशक्तिः । एवं तृतीयस्तुष्ट्याख्यो यथा । तमेव स्थाणुं ज्ञातुं संशयितुं वा नेच्छति किमनेनास्माकमित्येषा तुष्टिः । चतुर्थः सिद्धाख्यो यथा । आनन्दितेन्द्रियः स्थाणुमारूढां वल्लिं पश्यति शकुनिं वा तस्य सिद्धिर्भवति स्थाणुरयमिति । एवमस्य चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्द्दे तस्य भेदास्तु पञ्चाशत् यो ऽयं सत्त्वरजस्तमोगुणानां वैषम्यो विमर्द्दः तेन तस्य प्रत्ययसर्गस्य पञ्चाशद्भेदा भवन्ति तथा क्वापि सत्त्वमुत्कटं रजस्तमसी उदासीने क्वापि रजः क्वापि तम इति ॥ 46 ॥
भेदाः कथ्यन्ते ।
पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च करणवैकल्यात् ।
अष्टाविंशतिभेदास्तुष्टिर्नवधाष्टधा सिद्धिः

48

पञ्च विपर्ययभेदास्ते यथा तमो मोहो महामोहस्तामिस्रो ऽन्धतामिस्र इत्येषां भेदानां नानात्वं वक्ष्यते ऽनन्तरमेवेति । अशक्तेस्त्वष्टाविंशतिभेदा भवन्ति करणवैकल्यात् तानपि वक्ष्यामस्तथा च तुष्टिर्नवधा ऊर्द्ध्वस्रोतसि राजसानि ज्ञानानि । तथाष्टविधा सिद्धिः सात्त्विकानि ज्ञानानि तत्रैवोर्द्ध्वस्रोतसि । एतत् क्रमेणैव वक्ष्यन्ते ॥ 47 ॥
तत्र विपर्ययभेदा उच्यन्ते ।
भेदस्तमसो ऽष्टविधो मोहस्य च दशविधो महामोहः ।
तामिस्रो ऽष्टादशधा तथा भवत्यन्धतामिस्रः

49

तमसस्तावदष्टधा भेदः प्रलयो ऽज्ञानाद्विभज्यते सो ऽष्टासु प्रकृतिषु लीयते प्रधानबुद्ध्यहंकारपञ्चतन्मात्राष्टासु तत्र लीनमात्मानं मन्यते मुक्तो ऽहमिति तमो भेद एषो ऽष्टविधस्य मोहस्य भेदो ऽष्टविध एवेत्यर्थः । यत्राष्टगुणमणिमाद्यैश्वर्यं तत्र संगादिन्द्रादयो देवा न मोक्षं प्राप्नुवन्ति पुनश्च तत् क्षये संसरन्त्येषो ऽष्टविधो मोह इति । दशविधो महामोहः शब्दस्पर्शरूपरसगन्धा देवानामेते पञ्चविषयाः सुखलक्षणाः मानुषाणामप्येते एव शब्दादयः पञ्च विषया एवमेतेषु दशसु महामोह इति । तामिस्रो ऽष्टदशधाष्टाविधमैश्वर्यं दृष्टानुश्रविका विषया दश एतेषामष्टादशानां सम्पदमनुनन्दन्ति विपदं नानुमोदन्त्येषो ऽष्टादशविधो विकल्पस्तामिस्रो । तथा तामिस्रमष्टगुणमैश्वर्यं दृष्टानुश्रविका दशविषयास्तथान्धतामिस्रो ऽप्यष्टादशभेद एव किंतु विषयसम्पत्तौ सम्भोगकाले य एव म्रियते ऽष्टगुणैश्वर्याद्वा भ्रश्यते ततस्तस्य महद्दुःखमुत्पद्यते सो ऽन्धतामिस्र इति । एवं विपर्ययभेदास्तमः प्रभृतयः पञ्च प्रत्येकं भिद्यमाना द्विषष्टिभेदाः संवृत्ता इति ॥ 48 ॥
अशक्तिभेदाः कथ्यन्ते ।
एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदशवधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम्

50

भवन्त्यशक्तेश्च करणवैकल्यादष्टाविंशतिभेदा इत्युद्दिष्टं तत्रैकादशेन्द्रियवधाः बाधिर्यमन्धताप्रसुप्तिरुपह्विकाघ्राणपाको मूकता कुणित्वं खांज्यं क्लैब्यमुन्माद इति । सह बुद्धिवधैरशक्तिरुद्दिष्टा ये बुद्धिवधास्तैः सहाशक्तेरष्टाविंशतिभेदा भवन्ति सप्तदशवधा बुद्धेः सप्तदशवधास्ते तुष्टिभेदसिद्धिभेदवैपरीत्येन तुष्टिभेदा नव सिद्धिभेदा अष्टौ ये ते विपरीतैः सह एकादश विधा एवमष्टाविंशतिविकल्पा अशक्तिरिति विपर्ययात् सिद्धितुष्टीनामेव भेदक्रमो द्रष्टव्यः ॥ 49 ॥
तत्र तुष्टिर्नवधा कथ्यते ।
आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात्पञ्च नव च तुष्टयो ऽभिहिताः

51

आध्यात्मिकाश्चतस्रः तुष्टयो ऽध्यात्मनि भवा आध्यात्मिका ताश्च प्रकृत्युपादानकालभाग्याख्याः । तत्र प्रकृत्याख्या यथा कश्चित् प्रकृतिं वेत्ति तस्याः सगुणनिर्गुणत्वं च तेन तत्त्वं तत् कार्यं विज्ञायैव केवलं तुष्टस्तस्य नास्ति मोक्ष एषा प्रकृत्याख्या । उपादानाख्या यथा कश्चिदविज्ञायैव तत्त्वान्युपादानग्रहणं करोति त्रिदण्डकमण्डलुविविदिकाभ्यो मोक्ष इति तस्यापि नास्त्येषा उपादानाख्या । तथा कालाख्या कालेन मोक्षो भविष्यतीति किं तत्त्वाभ्यासेनेत्येषा कालाख्या तुष्टिस्तस्य नास्ति मोक्ष इति । तथा भाग्याख्या भाग्येनैव मोक्षो भविष्यतीति भाग्याख्या । चतुर्द्धा तुष्टिरिति । बाह्याविषयोपरमाच्च पञ्च । बाह्यास्तुष्टयः पञ्च विषयोपरमात् शब्दस्पर्शरूपरसगन्धेभ्य उपरतो ऽर्जनरक्षणक्षयसंगहिंसादर्शनात् । वृद्धिनिमित्तं पाशुपाल्यवाणिज्यप्रतिग्रहसेवाः कार्या एतदर्जनं दुःखमर्जितानां रक्षणे दुःखमुपभोगात् क्षीयत इति क्षयदुःखम् । तथा विषयोपभोगसंगे कृते नास्तीन्द्रियाणामुपशम इति संगदोषः । तथा न अनुपहत्य भूतान्युपभोग इत्येष हिंसादोषः । एवमर्ज्जनादिदोषदर्शनात् पञ्चविषयोपरमात् पञ्च तुष्टयः । एवमाध्यात्मिकबाह्यभेदान्नव तुष्टयस्तासां नामानि शास्त्रान्तरे प्रोक्तानि । अम्भः सलिलमोघो वृष्टिः सुतमो पारं सुनेत्रं नारीकमनुत्तमांभसिकमिति । आसां तुष्टीनां विपरीताशक्तिभेदाद्बुद्धिबधा भवन्ति ॥ 50 ॥
तद्यथा अनम्भसो ऽसलिलमनोघ इत्यादिवैपरीत्याद्बुद्धिवधा इति । सिद्धिरुच्यते ।
ऊहः शब्दो ऽध्ययनं दुःखविघातास्त्रयं सुहृत्प्राप्तिः ।
दानं च सिद्धयो ऽष्टौ सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः

52

ऊहो यथा कश्चिन्नत्यमूहते किमिह सत्यं किं परं किं नैश्रेयसं किं कृतार्थः स्यामिति चिन्तयतो ज्ञानमुत्पद्यते प्रधानादन्य एव पुरुष इत्यन्या बुद्धिरन्यो ऽहंकारो ऽन्यानि तन्मात्राणीन्द्रियाणि पञ्चमहाभूतानीत्येवं तत्त्वज्ञानमुत्पद्यते येन मोक्षो भवति एषा ऊहाख्या प्रथमा सिद्धिः । तथा शब्दज्ञानात् प्रधानपुरुषबुद्ध्यहंकारतन्मात्रेन्द्रियपञ्चमहाभूतविषयं ज्ञानं भवति ततो मोक्ष इत्येषा शब्दाख्या सिद्धिः । अध्ययनाद्वेदादिशास्त्राध्ययनात् पञ्चविंशतितत्त्वज्ञानं प्राप्य मोक्षं याति इत्येषा तृतीया सिद्धिः । दुःखविघातत्रयमाध्यात्मिकाधिभौतिकाधिदैविकदुःखत्रयविघाताय गुरुं समुपगम्य तत उपदेशान्मोक्षं यात्येषा चतुर्थी सिद्धिः । एषैव दुःखत्रयभेदात् त्रिधा कल्पनीया इति षट् सिद्धयः । तथा सुहृत्प्राप्तिर्यथा कश्चित् सुहृत् ज्ञानमधिगम्य मोक्षं गच्छति एषा सप्तमी सिद्धिः । दानं यथा कश्चिद्भगवतां प्रत्याश्रयौषधित्रिदण्डकुण्डिकादीनां ग्रासाच्छादनादीनां च दानेनोपकृत्य तेभ्यो ज्ञानमवाप्य मोक्षं यात्येषाष्टमी सिद्धिः । आसामष्टानां सिद्धीनां शास्त्रान्तरे संज्ञाः कृतास्तारं सुतारं तारतारं प्रमोदं प्रमुदितं प्रमोदमानं रम्यकं सदाप्रमुदितमिति । आसां विपर्ययात् बुद्देर्बन्धा ये विपरीतास्त अशक्तौ निक्षिप्ता यथातारमसुतारमतारतारमित्यादिद्रष्टव्यमशक्तिभेदा अष्टाविंशतिरुक्तास्ते सह बुद्धिबन्धैरेकादशेन्द्रियबन्धा इति । तत्र तुष्टिविपर्यया नव सिद्धीनां विपर्यया अष्टौ एवमेते सप्तदश बुद्धिबन्धा एतैः सहेन्द्रियबन्धा अष्टाविंशतिरशक्तिभेदाः पश्चात् कथिता इति विपर्ययाशक्तितुष्टिसिद्धीनामेवोद्देशो निर्देशश्च कृत इति । किं चान्यत् सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः सिद्धेः पूर्वा या विपर्ययाशक्तितुष्टयस्ता एव सिद्धेरंकुशस्तद्भेदादेवं त्रिविधो यथा हस्ती गृहीतांकुशेन वशो भवत्येव विपर्ययाशक्तितुष्टिभिर्गृहीतो लोको ऽज्ञानमाप्नोति तस्मादेताः परित्यज्य सिद्धिः सेव्या ससिद्धेस्तत्त्वज्ञानमुत्पद्यते तन्मोक्ष इति ॥ 51 ॥
अथ यदुक्तं भावैरधिवासितं लिंगं तत्र भावा धर्मादयो ऽष्टावुक्ता बुद्धिपरिणामा विपर्ययाशक्तितुष्टिसिद्धिपरिणताः स भावाख्यः प्रत्ययसर्गः लिंगं च तन्मात्रसर्गश्चतुर्दशभूतपर्यन्त उक्तस्तत्रैकेनैव सर्गेण पुरुषार्थसिद्धौ किमुभयविधसर्गेणेत्यत आह ।
न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद्विविधः प्रवर्त्तते सर्गः

53

भावैः प्रत्ययसर्गैर्विना लिंगं न तन्मात्रसर्गो न पूर्वपूर्वसंस्कारादृष्टकारितत्वादुत्तरोत्तरदेहलम्भस्य लिंगेन तन्मात्रसर्गेण च विना भावनिर्वृत्तिर्न स्थूलसूक्ष्मदेहसाध्यत्वाद्धर्मादेरनादित्वाच्च सर्गस्य बीजांकुरावन्योन्याश्रयौ न दोषाय तत्तज्जातीयापेक्षितत्वे ऽपि तत्तद्व्यक्तीनां परस्परानपेक्षित्वात्तस्माद्भावाख्यो लिंगाख्यश्च द्विविधः प्रवर्त्तते सर्ग इति ॥ 52 ॥
किं चान्यत् ।
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः

54

तत्र दैवमष्टप्रकारं ब्राह्मं प्राजापत्यं सौम्यमैन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति । पशुमृगपक्षिसरीसृपस्थावराणि भूतान्येव पञ्चविधस्तैरश्च । मानुषयोनिरेकैव इति चतुर्दशभूतानि ॥ 53 ॥
त्रिष्वपि लोकेषु गुणत्रयमस्ति तत्र कस्मिन् किमधिकमुच्यते ।
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः

55

ऊर्द्ध्वमित्यष्टसु देवस्थानेषु सत्त्वविशालं सत्त्वविस्तारः सत्त्वोत्कट ऊर्द्ध्वसत्त्व इति । तत्रापि रजस्तमसी स्तः । तमोविशालो मूलतः पश्वादिषु स्थावरान्तेषु सर्वःसर्गस्तमसाधिक्येन व्याप्तस्तत्रापि सत्त्वरजसी स्तः । मध्ये मानुष्ये रज उत्कटं तत्रापि सत्त्वतमसी विद्येते तस्माद्दुःखप्राया मनुष्याः । एवं ब्रह्मादिस्तम्बपर्यन्तः ब्रह्मादिस्थावरान्तः इत्यर्थः । एवमभौतिकः सर्गो लिंगसर्गो भावसर्गो भूतसर्गो दैवमानुषतैर्यग्योनय इत्येषः प्रधानकृतः षोडशः सर्गः ॥ 54 ॥
तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं समासेन

56

तत्रेति तेषु देवमानुषतिर्यग्योनिषु जराकृतं मरणकृतं चैव दुःखं चेतनः चैतन्यवान् पुरुषः प्राप्नोति न प्रधानं न बुद्धिर्नाहंकारो न तन्मात्राणीन्द्रियाणि महाभूतानि च । कियन्तं कालं पुरुषो दुःखं प्राप्नोतीति तद्विविनक्ति । लिंगस्याविनिवृत्तेर्यत्तन्महदादि लिंगशरीरेणाविश्य तत्र व्यक्तीभवति तद्यावन्निवर्त्तते संसारशरीरमिति संक्षेपेण त्रिषु स्थानेषु पुरुषो जरामरणकृतं दुःखं प्राप्नोति लिंगस्याविनिवृत्तेः लिंगस्य विनिवृत्तिं यावत् । लिंगनिवृत्तौ मोक्षो मोक्षप्राप्तौ नास्ति दुःखमिति । तत्पुनः केन निवर्त्तते यदा पञ्चविंशतितत्त्वज्ञानं स्यात् सत्त्वपुरुषान्यथाख्यातिलक्षणमिदं प्रधानमियं बुद्धिरयमहंकार इमानि पञ्चतन्मात्राण्येकादशेन्द्रियाणि पञ्च महाभूतानि येभ्यो ऽन्यः पुरुषो विसदृश इत्येवं ज्ञानाल्लिंगनिवृत्तिस्ततो मोक्ष इति ॥ 55 ॥
प्रवृत्तेः किं निमित्तमारभ्य इत्युच्यते ।
इत्येष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः

57

इत्येष परिसमाप्तौ निर्द्देशे च प्रकृतिविकृतौ प्रकृतिकरणे प्रकृतिक्रियायां य आरम्भो महदादिविशेषभूतपर्यन्तः प्रकृतेर्महान् महतो ऽहंकारस्तस्मात्तन्मात्राण्येकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीत्येषः प्रतिपुरुषविमोक्षार्थं पुरुषं प्रति देवमनुष्यतिर्यग्भावं गतानां विमोक्षार्थमारम्भः कथं स्वार्थ इव परार्थमारम्भः यथा कश्चित् स्वार्थं त्यक्त्वा मित्रकार्याणि करोति एवं प्रधानम् । पुरुषो ऽत्र प्रधानस्य न किञ्चित् प्रत्युपकारं करोति । स्वार्थ इव न च स्वाथः परार्थ एवार्थः शब्दादिविषयोपलब्धिर्गुणपुरुषान्तरोपलब्धिश्च त्रिषु लोकेषु शब्दादिविषयैः पुरुषा योजयितव्या अन्ते च मोक्षेणेति प्रधानस्य प्रवृत्तिस्तथा चोक्तम् । कुम्भवत् प्रधानं पुरुषार्थं कृत्वा निवर्त्तत इति ॥ 56 ॥
अत्रोच्यते ऽचेतनं प्रधानं चेतनः पुरुष इति मया त्रिषु लोकेषु शब्दादिभिर्विषयैः पुरुषो योज्यो ऽन्ते मोक्षः कर्त्तव्य इति कथं चेतनवत् प्रवृतिः । सत्यं किंत्वचेतनानामपि प्रवृत्तिर्दृष्टा निवृत्तिश्च यस्मादित्याह ।
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य

58

यथा तृणादिकं गवा भक्षितं क्षीरभावेन परिणम्य वत्सविवृद्धिं करोति पुष्टे च वत्से निवर्त्तत एवं पुरुषविमोक्षनिमित्तं प्रधानम् । अज्ञस्य प्रवृत्तिरित ॥ 57 ॥
किंच ।
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम्

59

यथा लोक इत्यौस्तुक्ये सति तस्य निवृत्त्यर्थं क्रियासु प्रवर्त्तते गमनागमनक्रियासु कृतकार्यो निवर्त्तते तथा पुरुषस्य विमोक्षार्थं शब्दादिविषयोपभोगोपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं च द्विविधमपि पुरुषार्थं कृत्वा प्रधानं निवर्तते ॥ 58 ॥
किं चान्यत् ।
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य निवर्तते प्रकृतिः

60

यथा नर्त्तकी शृङ्गारादिरसौरितिहासादिभावैश्च निबद्धगीतवादित्रवृत्तानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान्निवर्त्तते तथा प्रकृतिरपि पुरुषस्यात्मानं प्रकाश्य बुद्ध्यहंकारतन्मात्रेन्दियमहाभूतभेदेन निवर्तते ॥ 59 ॥
कथं को वा स्यान्निवर्त्तको हेतुस्तदाह ।
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति

मूल पाठ: Sāṃkhyakārikā with Gauḍapāda's Bhāṣya · Edition: The Sankhya Karika. By Iswara Krishna; Translated from the Sanscrit by Henry Thomas Colebrooke, also the Bhashya, or, Commentary of Gaudapada; Translated, and Illustrated by an Original Comment, by Horace Hayman Wilson. Bombay : Tookaram Tatya 1887. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc