सांख्यकारिका (टीका सहित) · श्लोक 21-40
इह पुरुषश्चेतनाकृत् तेन चेतनावभासं युक्तं महदादिलिङ्गं चेतनावदिव भवति यथा लोके घटाः शीतसंयुक्तः शीत उष्णसंयुक्त उष्ण एवं महदादि लिङ्गं तस्य संयोगात् पुरुषसंयोगाच्चेतनावदिव भवति तस्माद्गुणा अध्यवसायं कुर्वन्ति न पुरुषः । यद्यपि लोके पुरुषः कर्त्ता गंतेत्यादि प्रयुज्यते तथाप्यकर्त्ता पुरुषः कथं गुणकर्त्तृत्वे च तथा कर्त्तेव भवत्युदासीनो गुणानां कर्त्तृत्वे सति उदासीनो ऽपि पुरुषः कर्त्तेव भवति न कर्त्ता । अत्र दृष्टान्तो भवति यथाचौरश्चौरैः सह गृहीतश्चौर इत्यवगम्यत एवं त्रयो गुणाः कर्त्तारस्तैः संयुक्तः पुरुषो ऽकर्त्तापि कर्त्ता भवति कर्त्तृसंयोगात् । एवं व्यक्ताव्यक्तज्ञानां विभागो विख्यातो यद्विभागान्मोक्षप्राप्तिरिति ॥ 20 ॥
अथैतयोः प्रधानपुरुषयोः किं हेतुः संघात उच्यते ।
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः
पुरुषस्य प्रधानेन सह संयोगो दर्शनार्थं प्रकृतिं महदादिकार्यभूतपर्यन्तं पुरुषः पश्यति एतदर्थं प्रधानस्यापि पुरुषेण संयोगः । कैवल्यार्थं स च संयोगः पङ्ग्वन्धवदुभयोरपि द्रष्टव्यः यथा एकः पङ्गुरेकश्चान्ध एतौ द्वावपि गच्छन्तौ महता सामर्थ्येनाटव्यां सार्थस्य स्तेनकृतादुपप्लवात् स्वबन्धुपरित्यक्तो दैवादितश्चेरुश्च स्वगत्या च तौ संयोगमुपयातौ पुनस्तयोः स्ववचसो विश्वस्तत्वेन संयोगो गमनार्थं दर्शनार्थं च भवत्यन्धेन पंगुः स्कन्धमारोपितः एवं शरीरारूढपंगुदर्शितेन मार्गेणान्धो याति पंगुश्चान्धस्कन्धारूढः । एवं पुरुषे दर्शनशक्तिरस्ति पंगुवन्नक्रिया प्रधाने क्रियाशक्तिरस्त्यन्धवन्नदर्शनशक्तिः । यथा वानयोः पंग्वन्धयोः कृतार्थयोर्विभागो भविष्यतीप्सितस्थानप्राप्तयोरेवं प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्त्तते पुरुषो ऽपि प्रधानं दृष्ट्वा कैवल्यं गच्छति तयोः कृतार्थयोर्विभागो भविष्यति । किं चान्यत् तत्कृतः सर्गस्तेन संयोगेन कृतस्तत्कृतः सर्गः सृष्टिः । यथा स्त्री पुरुषसंयोगात् सुतोत्पत्तिस्ततः प्रधानपुरुषसंयोगात् सर्गस्योत्पत्तिः ॥ 21 ॥
इदानीं सर्वविभागदर्शनार्थमाह ।
प्रकृतेर्महांस्ततो ऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि
प्रकृतिः प्रधानं ब्रह्म अव्यक्तं बहुधानकं मायेति पर्यायाः । अलिङ्गस्याः प्रकृतेः सकाशान्महानुत्पद्यते महान् बुद्धिरासुरी मतिः ख्यातिर्ज्ञानं प्रज्ञापर्यायैरुत्पद्यते तस्माच्च महतो ऽहंकार उत्पद्यते ऽहंकारो भूतादिवैकृतस्तैजसो ऽभिमान इति पर्यायाः तस्माद्गणश्च षोडशकः तस्मादहंकाराच्छोडशकः षोडशस्वरूपेण गुण उत्पद्यते । स यथा । पञ्चतन्मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रुपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति । तन्मात्रसूक्ष्मपर्यायवाच्यानि । तत एकादशेन्द्रियाणि श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थाः पञ्चकर्मेन्द्रियाण्युभयात्मकमेकादशं मन एष षोडशको गणो ऽहंकारादुत्पद्यते । किंच पञ्चभ्यः पञ्च भूतानि तस्माच्छोडशकाद्गणात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात् पञ्च वै महाभूतान्युत्पद्यन्ते । यदुक्तं शब्दतन्मात्रादाकाशं स्पर्शतन्मात्राद्वायुः रूपतन्मात्रात्तेजः रसतन्मात्रादापः गन्धतन्मात्रात् पृथिवी एवं पञ्चभ्यः परमाणुभ्यः पञ्चमहाभूतान्युत्पद्यन्ते ॥ 22 ॥
यदुक्तं व्यक्ताव्यक्तज्ञविज्ञानान्मोक्ष इति तत्र महदादिभूतान्तं त्रयोविंशतिभेदं व्याख्यातमव्यक्तमपि भेदानां परिमाणादित्यादिना व्याख्यातं पुरुषो ऽपि संघातपरार्थत्वादित्यादिभिर्हेतुभिर्व्याख्यातः । एवमेतानि पञ्चविंशतितत्त्वानि यस्त्रैलोक्यं व्याप्तं जानाति तस्य भावो ऽस्तित्वं तत्त्वं यथोक्तम् ।
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ।
तानि यथा प्रकृतिः पुरुषो बुद्धिरहंकारः पञ्चतन्मात्रा एकादशेन्द्रियाणि पञ्चमहाभूतानि इत्येतानि पञ्चविंशतितत्त्वानि । तत्रोक्तं प्रकृतेर्महानुत्पद्यते तस्य महतः किं लक्षणमित्येतदाह ।
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्
अध्यवसायो बुद्धिलक्षणम् । अध्यवसनमध्यवसायः यथा बीजे भविष्यद्वृत्तिको ऽङ्कुरस्तद्वदध्यवसायो ऽयं घटो ऽयं पट इत्येवं स्यति या सा बुद्धिरिति लक्ष्यते सा च बुद्धिरष्टाङ्गिका सात्त्विकतामसरूपभेदात् तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यमैश्वर्यं चेति तत्र धर्मो नाम दयादानयमनियमलक्षणस्तत्र यमा नियमाश्च पातञ्जले ऽभिहिता अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधा नियमाः । ज्ञानं प्रकाशो ऽवगमो भानमिति पर्यायास्तच्च द्विविधं बाह्यमाभ्यन्तरं चेति तत्र बाह्यं नाम वेदाः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोज्योतिषाख्यषडङ्गसहिताः पुराणानि न्यायमीमांसाधर्मशास्त्राणि चेति । आभ्यन्तरं प्रकृतिपुरुषज्ञानमियं प्रकृतिः सत्त्वरजस्तमसां साम्यावस्थायं पुरुषः सिद्धो निर्गुणोव्यापी चेतन इति । तत्र बाह्यज्ञानेन लोकपंक्तिर्लोकानुराग इत्यर्थः । आभ्यन्तरेण ज्ञानेन मोक्ष इत्यर्थः वैराग्यमपि द्विविधं बाह्यमाभ्यन्तरं च बाह्यं दृष्टविषयवैतृष्ण्यमर्जनरक्षणक्षयसंगहिंसादोषदर्शनात् विरक्तस्याभ्यन्तरं प्रधानमप्यत्र स्वप्नेन्द्रजालसदृशमिति विरक्तस्य गोक्षेप्सोर्यदुत्पद्यते तदाभ्यन्तरं वैराग्यम् । ऐश्वर्यमीश्वरभावस्तच्चाष्टगुणमणिमा महिमा गरिमा लघिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायित्वं चेति । अणोर्भावो ऽणिमा सूक्ष्मो भूत्वा जगति विचरतीति । महिमा महान् भूत्वा विचरतीति । लघिमा मृणालीतूलावयवादपि लघुतया पुष्पकेसराग्रेष्वपि तिष्ठति । प्राप्तिरभिमतं वस्तु यत्र तत्रावस्थितः प्राप्नोति । प्राकाम्यं प्रकामतो यदेवेष्यति तदेव विदधाति । ईशित्वं प्रभुतया त्रैलोक्यमपीष्टे । वशित्वं सर्वं वशीभवति । यत्र कामावसायित्वं ब्रह्मादिस्तम्बपर्यन्तं यत्र कामस्तत्रैवास्य स्वेच्छया स्थानासनविहारानाचरतीति । चत्वार एतानि बुद्धेः सात्त्विकानि रूपाणि यदा सत्त्वेन रजस्तमसी अभिभूते तदा पुमान् बुद्धिगुणान् धर्मादीनाप्नोति । किंचान्यत् तामसमस्माद्विपर्यस्तमस्माद्धर्मादेर्विपरीतं तामसं बुद्धिरूपं धर्माद्विपरीतो ऽधर्म एवमज्ञानमवैराग्यमानैश्वर्यमिति । एवं सात्त्विकैस्तामसैः स्वरूपैरष्टांगा बुद्धिस्त्रिगुणादव्यक्तादुत्पद्यते ॥ 23 ॥
एवं बुद्धिलक्षणमुक्तमहंकारलक्षणमुच्यते ।
अभिमानो ऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः ।
ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव
एकादशकश्च गण एकादशेन्द्रियाणि तथा तन्मात्रो गणः पञ्चकः पञ्चलक्षणोपेतः शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्ररसतन्मात्रगन्धतन्मात्रलक्षणोपेतः ॥ 24 ॥
किं लक्षणात् सर्ग इत्येतदाह ।
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्
सत्त्वेनाभिभूते यदा रजस्तमसी अहंकारे भवतस्तदा सो ऽहंकारः सात्त्विकस्तस्य च पूर्वाचार्यैः संज्ञा कृता वैकृत इति तस्माद्विकृतादहंकारादेकादशक इन्द्रियगण उत्पद्यते । तस्मात् सात्त्विकानि विशुद्धानीन्द्रियाणि स्वविषयसमर्थानि तस्मादुच्यते सात्त्विक एकादशक इति । किंचान्यद्भूतादेस्तन्मात्रः स तामसः तमसाभिभूते सत्त्वरजसी अहंकारे यदा भवतः सो ऽहंकारस्तामस उच्यते तस्य पूर्वाचार्यकृता संज्ञा भूतादिस्तस्माद्भूतादेरहंकारात्तन्मात्रः पञ्चको गण उत्पद्यते भूतानामादिभूतस्तमोबहुलस्तेनोक्तः स तामस इति । तस्माद्भूतादेः पञ्चतन्मात्रको गणः किंच तैजसादुभयं यदारजसाभिभूते सत्त्वतमसी भवतस्तदा तस्मात् सो ऽहंकारस्तैजस इति संज्ञां लभते तस्मात्तैजसादुभयमुत्पद्यते । उभयमिति एकादशो गणस्तन्मात्रः पञ्चकः । यो ऽयं सात्त्विको ऽहंकारो वैकृतिको वैकृतो भूत्वा एकादशेन्द्रियाण्युत्पादयति स तैजसमहंकारं सहायं गृह्णाति सात्त्विको निष्क्रियः स तैजसयुक्त इन्द्रियोत्पत्तौ समर्थः तथा तामसो ऽहंकारो भूतादिः संज्ञितो निष्क्रियत्वात्तैजसेनाहंकारेण क्रियावता युक्तस्तन्मात्राण्युत्पादयति तेनोक्तं तैजसादुभयमिति एवं तैजसेनाहंकारेणैन्द्रियाण्येकादश पञ्चतन्मात्राणि कृतानि भवन्ति ॥ 25 ॥
एकादशक इत्युक्तः यो वैकृतात् सात्त्विकादहंकारादुत्पद्यते तस्य का संज्ञेत्याह ।
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शनकानि ।
वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः
चक्षुरादीनि स्पर्शनपर्यन्तानि बुद्धीन्द्रियाण्युच्यन्ते । स्पृश्यते अनेनेति स्पर्शनं त्वगिन्द्रियं तद्वाची सिद्धः स्पर्शनशब्दो ऽस्ति तेनेदं पठ्यते स्पर्शनकानीति शब्दस्पर्शरूपरसगन्धान् पञ्चविषयान् बुध्यन्ते अवगच्छन्तीति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः कर्म कुर्वन्तीति कर्मेन्द्रियाणि । तत्र वाग्वदति हस्तौ नानाव्यापारं कुरुतः पादौ गमनागमनं पायुरुत्सर्गं करोति उपस्थ आनंदं प्रजोत्पत्त्या ॥ 26 ॥
एवं बुद्धीन्द्रियकर्मेन्द्रियभेदेन दशेन्द्रियाणि व्याख्यातानि मन एकादशकं किमात्मकं किं स्वरूपं चेति तदुच्यते ।
उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाच्च
अत्रेन्द्रियवर्गे मन उभयात्मकं बुद्धीन्द्रियेषु बुद्धीन्द्रियवत् कर्मेन्द्रियेषु कर्मेन्द्रियवत् कस्माद्बुद्धीन्द्रियाणां प्रवृत्तिं कल्पयति कर्मेन्द्रियाणां च तस्मादुभयात्मकं मनः संकल्पयतीति संकल्पकम् । किंचान्यदिन्द्रियं च साधर्म्यात् समानधर्मभावात् सात्त्विकाहंकाराद्बुद्धीन्द्रियाणि कर्मेन्द्रियाणि मनसा सहोत्पद्यमानानि मनसः साधर्म्यं प्रति तस्मात्साधर्म्यान्मनो ऽपीन्द्रियमेवमेतान्येकादशेन्द्रियाणि सात्त्विकाद्वैकृतादहंकारादुत्पन्नानि । तत्र मनसः का वृत्तिरिति । संकल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः कर्मेन्द्रियाणां वचनादयो ऽथैतानीन्द्रियाणि भिन्नानि भिन्नार्थग्राहकाणि किमीश्वरेणोत स्वभावेन कृतानि यतः प्रधानबुद्ध्यहंकारा अचेतनाः पुरुषो ऽप्यकर्त्तेत्यत्राह । इह सांख्यानां स्वभावो नाम कश्चित्कारणमस्ति । अत्रोच्यते गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च । इमान्येकादशेन्द्रियाणि शब्दस्पर्शरूपरसगन्धाः पञ्चानां वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानां संकल्पश्च मनस एवमेते भिन्नानामेवेन्द्रियाणामर्थाः गुणपरिणामविशेषात् गुणानां परिणामो गुणपरिणामस्तस्य विशेषादिन्द्रियाणां नानात्वं बाह्यार्थभेदाश्च । अथैतन्नानात्वं नेश्वरेण नाहंकारेण न बुद्ध्या न प्रधानेन न पुरुषेण स्वभावात् कृतगुणपरिणामेनेति । गुणानामचेतनत्वान्न प्रवर्त्तते प्रवर्त्तत एव कथं वक्ष्यतीहैव वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य । एवमचेतनगुणाः एकादशेन्द्रियभावेन प्रवर्त्तन्ते विशेषा अपि तत्कृता एव येनोच्चैः प्रदेशे चक्षुःखलोकनाय स्थितं तथा घ्राणं तथा श्रोत्रं तथा जिह्वा स्वदेशे स्वार्थग्रहणाय । एवं कर्मेन्द्रियाण्यपि यथायथं स्वार्थसमर्थानि स्वदेशावस्थितानि स्वभावतो गुणपरिणामविशेषादेव न तदर्था अपि यत उक्तं शास्त्रान्तरे । गुणा गुणेषु वर्त्तन्ते गुणानां या वृत्तिः सा गुणविषया एवेति बाह्यार्था विज्ञेया गुणकृता एवेत्यर्थः । प्रधानं यस्य कारणमिति ॥ 27 ॥
अथेन्द्रियस्य कस्य का वृत्तिरित्युच्यते ।
शब्दादिषु पञ्चानामालोचनमत्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्
मात्रशब्दो विशेषार्थः । अविशेषव्यावृत्यर्थो यथा भिक्षा मात्रं लभ्यते नान्यो विशेष इति । तथ चक्षू रूपमत्रे न रसादिषु एवं शेषाण्यपि तद्यथा चक्षुषो रूपं जिह्वाया रसो घ्राणस्य गन्धः श्रोत्रस्य शब्दः त्वचः स्पर्शः । एवमेषां बुद्धीन्द्रियाणां वृत्तिः कथिता कर्मेन्द्रियाणां वृत्तिः कथ्यते वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानां कर्मेन्द्रियाणामित्यर्थः । वाचो वचनं हस्तयोरादानं पादयोर्विहरणं पायोर्भुक्तस्याहारस्य परिणतमलोत्सर्गः उपस्थस्यानन्दः सुतोत्पत्तिर्विषया वृत्तिरिति सम्बन्धः ॥ 28 ॥
अधुना बुद्ध्यहंकारमनसामुच्यते ।
स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च
स्वलक्षणस्वभावा स्वालक्षण्या । अध्यवसायो यो बुद्धिरिति लक्षणमुक्तं सैव बुद्धिवृत्तिः । तथाभिमानो ऽहंकार इत्यभिमानलक्षणो ऽभिमानवृत्तिश्च । संकल्पकं मन इति लक्षणमुक्तं तेन संकल्प एव मनसो वृत्तिः । त्रयस्य बुद्ध्यहंकारमनसां स्वालक्षण्या वृत्तिरसामान्या या प्रागभिहिता बुद्धीन्द्रियाणां च वृत्तिः साप्यसामान्यैवेति । इदानीं सामान्या वृत्तिराख्यायते । सामान्यकारनवृत्तिः सामान्येन करणानां वृत्तिः प्राणाद्या वायवः पञ्च प्राणापानसमानोदानव्याना इति पञ्च वायवः सर्वेन्द्रियाणां सामान्या वृत्तिर्यतः । प्राणो नाम वायुर्मुखनासिकान्तर्गोचरस्तस्य यत् स्पन्दनं कर्म तत् त्रयोदशविधस्यापि सामान्या वृत्तिः सति प्राणे यस्मात् करणानामात्मलाभ इति । प्राणो ऽपि पञ्चरशकुनिवत् सर्वस्य चलनं करोतीति । प्राणनात् प्राण इत्युच्यते । तथापनयनादपानस्तत्र यत्स्पन्दनं तदपि सामान्यवृत्तिरिन्द्रियस्य । तथा समानो मध्यदेशवर्ती य आहारादिनयनात्समं नयनात् समानो वायुस्तत्र यत्स्पन्दनं तत् सामान्यं करणवृत्तिः । तथा ऊर्ध्वारोहणादुत्कर्षादुन्नयनाद्वा उदानो नाभिदेशमस्तकान्तर्गोचरस्तत्रोदाने यत्स्पन्दनं तत् सर्वेन्द्रियाणां सामान्या वृत्तिः । किंच शरीरव्याप्तिरभ्यन्तरविभागश्च येन क्रियते ऽसौ शरीरव्याप्त्याकाशवद्व्यानस्तत्र यत् स्पन्दनं तत् करणजालस्य सामान्या वृत्तिरिति । एवमेते पञ्च वायवः सामान्यकरणवृत्तिरिति व्याख्याताः त्रयोदशविधस्यापि करणसामान्या वृत्तिरित्यर्थः ॥ 29 ॥
युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः
युगपच्चतुष्टयस्य बुद्ध्यहंकारमनसामेकैकेन्द्रियसम्बन्धे सति चतुष्टयं भवति चतुष्टयस्य दृष्टे प्रतिविषयाध्यवसाये युगपद्वृतिर्बुद्ध्यहंकारमनश्चक्षूंषि युगपदेककालं रूपं पश्यति स्थाणुरयमिति । बुद्ध्यहंकारमनोजिह्वा युगपद्रसं गृह्णन्ति । बुद्ध्यहंकारमनोघ्राणानि युगपद्गन्धं गृह्णन्ति । तथा त्वक्श्रोत्रे अपि । किंच क्रमशश्च तस्य निर्दिष्टा तस्येति चतुष्टयस्यक्रमशश्च वृत्तिर्भवति । यथा कश्चित् पथि गच्छन् दूरादेव दृष्ट्वा स्थाणुरयं पुरुषो वेति संशये सति तत्रोपरूढां वल्लिं तल्लिङ्गं पश्यति शकुनिं वा ततो तस्य मनसा संकल्पिते संशये व्यवच्छेदभूता बुद्धिर्भवति स्थाणुरयमित्यतो ऽहंकारश्च निश्चयार्थः स्थाणुरेवेत्येवं बुद्ध्यहंकारमनश्चक्षुषां क्रमशो वृत्तिर्दृष्टा यथा रूपे तथा शब्दादिष्वपि बोद्धव्या दृष्टे दृष्टविषये । किंचान्यत्तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिरदृष्टे ऽनागते ऽतीते च काले बुद्ध्यहंकारमनसां रूपे चक्षुः पूर्विका त्रयस्य वृत्तिः स्पर्शे त्वक्पूर्विका गन्धे घ्राणपूर्विका रसे रसनपूर्विका शब्दे श्रवणपूर्विका बुद्ध्यहंकारमनसामनागते भविष्यति काले ऽतीते च तत् क्रमशो वृत्तिर्वर्त्तमाने युगपत् क्रमशश्चेति ॥ 30 ॥
किंच ।
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्
स्वां स्वामिति वीप्सा बुद्ध्यहंकारमनांसि स्वां स्वां वृत्तिं परस्पराकूतहेतुकामाकूतकादरासम्भ्रम इति प्रतिपद्यन्ते पुरुषार्थकरणाय । बुद्धेरहंकारादयो बुद्धिरहंकाराकूतं ज्ञात्वा स्वस्वविषयं प्रतिपद्यते किमर्थमिति चेत् पुरुषार्थ एव हेतुः पुरुषार्थः कर्त्तव्य इत्येवमर्थं गुणानां प्रवृत्तिस्तस्मादेतानि करणानि पुरुषार्थं प्रकाशयन्ति कथं स्वयं प्रवर्तन्ते न केनचित् कार्यते करणं पुरुषार्थ एवैकः कारयतीति वाक्यार्थो न केनचिदीश्वरेण पुरुषेण कार्यते प्रबोध्यते करणम् ॥ 31 ॥
बुद्ध्यादि कतिविधं तदित्युच्यते ।
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च
करणं महदादि त्रयोदशविधं बोद्ध्यव्यं पञ्चबुद्धीन्द्रियाणि चक्षुरादीनि पञ्च कर्मेन्द्रियाणि वागादीनीति त्रयोदशविधं करणं तत्किं करोतीत्येतदाह तदाहरणधारणप्रकाशकरम् । तत्राहरणं धारणं च कर्मेन्द्रियाणि कुर्वन्ति प्रकाशं बुद्धीन्द्रियाणि । कतिविधं कार्यं तस्येति तदुच्यते । कार्यं च तस्य दशधा तस्य करणस्य कार्यं कर्तव्यमिति दशधा दशप्रकारं शब्दस्पर्शरूपरसगन्धाख्यं वचनादानविहरणोत्सर्गानन्दाख्यमेतद्दशविधं कार्यं बुद्धीन्द्रियैः प्रकाशितं कर्मेन्द्रियाण्याहरन्ति धारयन्ति चेति ॥ 32 ॥
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्
अन्तःकरणमिति बुद्ध्यहंकारमनांसि त्रिविधं महदादिभेदात् । दशधा बाह्यं च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च दशविधमेतत्करणं बाह्यं तत्र यस्यान्तःकरणस्य विषयाख्यं बुद्ध्यहंकारमनसां भोग्यं साम्प्रतकालं श्रोत्रं वर्त्तमानमेव शब्दं शृणोति नातीतं न च भविष्यन्तं चक्षुरपि वर्तमानं रूपं पश्यति नातीतं नानागतं त्वग्वर्त्तमानं स्पर्शं जिह्वा वर्त्तमानं रसं नासिका वर्त्तमानं गन्धं नातीतानागतं चेति । एवं कर्मेन्द्रियाणि वाग्वर्त्तमानं शब्दमुच्चारयति नातीतं नानागतं पाणी वर्त्तमानं घटमाददाते नातीतमनागतं पायूपस्थौ च वर्त्तमानावुत्सर्गानन्दौ कुरुतो नातीतौ नानागतौ । एवं बाह्यं करणं साम्प्रतकालमुक्तं त्रिकालमाभ्यन्तरं करणं बुद्ध्यहंकारमनांसि त्रिकालविषयाणि बुद्धिर्वर्त्तमानं घटं बुध्यते अतीतमनागतं चेति । अहंकारो वर्त्तमाने ऽभिमानं करोत्यतीते ऽनागते च । तथा मनो वर्त्तमाने संकल्पं कुरुते अतीते ऽनागते च एवं त्रिकालमाभ्यन्तरं करणमिति ॥ 33 ॥
इदानीमिन्द्रियाणि कति सविशेषं विषयं गृह्णन्ति कानि निर्विशेषमिति तदुच्यते ।
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
वाग्भवति शब्दविषया शेषान्यपि पञ्चविषयाणि
बुद्धीन्द्रियाणि तानि सविशेषं विषयं गृह्णाति सविशेषविषयं मानुषाणां शब्दस्पर्शरूपरसगन्धान् सुखदुःखमोहविषययुक्तान् बुद्धीन्द्रियाणि प्रकाशयन्ति देवानां निर्विशेषान्विषयान् प्रकाशयन्ति तथा कर्मेन्द्रियाणां मध्ये वाग्भवति शब्दविषया देवानां मानुषाणां च वाग्वदति श्लोकादीनुच्चारयति तस्माद्देवानां मानुषाणां च वागिन्द्रियं तुल्यं शेषाण्यपि वाग्व्यतिरिक्तानि पाणिपादपायूपस्थसंज्ञितानि पञ्चविषयाणि शब्दादयो येषां तानि पञ्चविषयाणि शब्दस्पर्शरूपरसगन्धाः पाणौ सन्ति पञ्चशब्दादिलक्षणायां भुवि पादो विहरति पाय्विन्द्रियं पञ्चक्लृप्तमुत्सर्गं करोति तथोपस्थेन्द्रियं पञ्चलक्षणं शुक्रमानन्दयति ॥ 34 ॥
सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि
सान्तःकरणा बुद्धिरहंकारमनःसहितेत्यर्थह यस्मात् सर्वं विषयमवगाहते गृह्णाति त्रिष्वपि कालेषु शब्दादीन् गृह्णाति तस्मात्त्रिविधम करणं द्वारि द्वाराणि शेषाणि शेषानि करणानीति वाक्यशेषः ॥ 35 ॥
किं चान्यत् ।
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति
यानि करणान्युक्तानि एते गुणविशेषाः किं विशिष्टाः प्रदीपकल्पाः प्रदीपवद्विषयप्रकाशकाः परस्परविलक्षणा असदृशा भिन्नविषया इत्यर्थः । गुणविषया इत्यर्थः । गुणविशेषा गुणेभ्यो जाताः । कृत्स्नं पुरुषस्यार्थं बुद्धीन्द्रियानि कर्मेन्द्रियाण्यहंकारो मनश्चैतानि स्वं स्वमर्थं पुरुषस्य प्रकाश्य बुद्धौ प्रयच्छन्ति बुद्धिस्थं कुर्वन्तीत्यर्थः । यतो बुद्धिस्थं सर्वं विषयं सुखादिकं पुरुष उपलभ्यते ॥ 36 ॥
इदं चान्यत् ।
सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम्
सर्वेन्द्रियगतं त्रिष्वपि कालेषु सर्वं प्रत्युपभोगमुपभोगं प्रति देवमनुष्यतिर्यग् बुद्धीन्द्रियकर्मेन्द्रियद्वारेण सान्तःकरणा बुद्धिः साधयति सम्पादयति यस्मात् तस्मात् सैव च विशिनष्टि प्रधानपुरुषयोर्विषयविभागं करोति प्रधानपुरुषान्तरं नानात्वमित्यर्थः । सूक्ष्ममित्यनधिकृततपश्चरणैरप्राप्यमियं प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था इयं बुद्धिरयमहंकार एतानि पञ्चतन्मात्राण्येकादशेन्द्रियाणि पञ्चमहाभूतान्ययमन्यः पुरुष एभ्यो व्यतिरिक्त इत्येव बोधयति बुद्धिर्यस्यावायादपवर्गो भवति ॥ 37 ॥
पूर्वमुक्तं विशेषाविशेषविषयाणि तत् के विषयास्तच्च दर्शयति ।
तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च
यानि पञ्च तन्मात्राण्यहंकारादुत्पद्यन्ते ते शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमेतान्यविशेषा उच्यन्ते देवानामेते सुखलक्षणा विषया दुःखमोहरहितास्तेभ्यः पञ्चभ्यस्तन्मात्रेभ्यः पञ्चमहाभूतानि पृथिव्यप्तेजोवाय्वाकाशसंज्ञितानि यान्युत्पद्यन्ते । एते स्मृता विशेषाः । गन्धतन्मात्रात् पृथिवी रसतन्मात्रादापो रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमित्येवमुत्पन्नान्येतानि महाभूतान्येते विशेषा मानुषाणां विषयाः शान्ता सुखलक्षणा घोरा दुःखलक्षणा मूढा मोहजनका यथाकाशं कस्यचिदनवकाशादन्तर्गृहादेर्निर्गतस्य सुखात्मकं शान्तं भवति तदेव शीतोष्णवातवर्षाभिभूतस्य दुःखात्मकं घोरं भवति तदेव पन्थानं गच्छतो वनमार्गात् भ्रष्टस्य दिङ् मोहान्मूढं भवति । एवं वायुर्घर्मार्तस्य शान्तो भवति शीतार्तस्य घोरो धूलीशर्कराविमिश्रो ऽतिवान् मूढ इति । एवं तेजः प्रभृतिषु द्रष्टव्यम् ॥ 38 ॥
अथान्ये विशेषाः ।
सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते
सूक्ष्मास्तन्मात्राणि यत्संगृहीतं तन्मात्रिकं सूक्ष्मशरीरं महदादिलिङ्गं सदा तिष्ठति संसरति च ते सूक्ष्मास्तथा मातापितृजा स्थूलशरीरोपचायका ऋतुकाले मातापितृसंयोगे शोणितशुक्रमिश्रीभावेनोदरान्तः सूक्ष्मशरीरस्योपचयं कुर्वीत तत् सूक्ष्मशरीरं पुनर्मातुरशितपीतनानाविधरसेन नाभीनिबन्धेनाप्यायते तथा प्रारब्धं शरीरं सूक्ष्मैर्मातापितृजैश्च सह महाभूतैस्त्रिविधा विशेषैः पृष्ठोदरजंघाकट्युरः शिरः प्रभृति षाट् कौशिकं पञ्चभौतिकं रुधिरमांसस्नायुशुक्रास्थिमज्जासंभृतमाकाशो ऽवकाशदानाद्वायुर्वर्द्धनात् तेजः पाकादापः संग्रहात्पृथिवी धारणात् समस्तावयवोपेतं मातुरुदराद्बहिर्भवति । एवमेते त्रिविधा विशेषा स्युः । अत्राह के नित्याः के वानित्याः सूक्ष्मास्तेषां नियताः सूक्ष्मास्तन्मात्रसंज्ञकास्तेषां मध्ये नियता नित्यास्तैरारब्धं शरीरं कर्मवशात् पशुमृगपक्षिसरीसृपस्थावरजातिषु संसरति धर्मवशादिन्द्रकादिलोकेष्वेवमेतन्नियतं सूक्ष्मशरीरं सरति यावत् ज्ञानमुत्पद्यते उत्पन्ने ज्ञाने विद्वांञ्छरीरं त्यक्त्वा मोक्षं गच्छति तस्मादेते विशेषा सूक्ष्मा नित्या इति मातापितृजा निवर्तन्ते तत् सूक्ष्मशरीरं परित्यज्येहैव प्राणत्यागवेलायां मातापितृजा निवर्तन्ते मरणकाले मातापितृजं शरीरमिहैव निवर्त्त्य भूम्यादिषु प्रलीयते यथा तत्त्वं ॥ 39 ॥
सूक्ष्मं च कथं संसरति तदाह ।
पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्
मूल पाठ: Sāṃkhyakārikā with Gauḍapāda's Bhāṣya · Edition: The Sankhya Karika. By Iswara Krishna; Translated from the Sanscrit by Henry Thomas Colebrooke, also the Bhashya, or, Commentary of Gaudapada; Translated, and Illustrated by an Original Comment, by Horace Hayman Wilson. Bombay : Tookaram Tatya 1887. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0