भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 61-72

61

नानाविधैरुपायैः प्रकृतिः पुरुषस्योपकारिण्यनुपकारिणः पुंसः कथं देवमानुषतिर्यग्भावेन सुखदुःखमोहात्मकभावेन शब्दादिविषयभावेन एवं नानाविधैरुपायैरात्मानं प्रकाश्याहमन्या त्वमन्य इति निवर्त्तते ऽतो नित्यस्य तस्यार्थमपार्थं कुरुते चरति च यथा कश्चित् परोपकारी सर्वस्योपकुरुते नात्मनः प्रत्युपकारमीहत एवं प्रकृतिः पुरुषार्थं कुरुते करोत्यपार्थकम् ॥ 60 ॥
पश्चादुक्तमात्मानं प्रकाश्य निवर्त्तते निवृत्त च किं करोतीत्याह ।
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य

62

लोके प्रकृतेः सुकुमारतरं न किञ्चिदस्तीत्येवं मे मतिर्भवति येन परार्थ एवं मतिरुत्पन्ना कस्मादहमनेन पुरुषेण दृष्टास्मीत्यस्य पुंसो पुनर्दर्शनं नोपैति पुरुषस्यादर्शनमुपयातीत्यर्थः । तत्र सुकुमारतरं वर्णयति । ईश्वरं कारणं ब्रुवते । "अजो जन्तुरनीशो ऽयमात्मा नः सुखदुःखयोरीश्वरप्रेरितो गच्छेत् स्वर्गं नरकमेव वा ॥" अपरे स्वभावकारणिकां ब्रुवते । केन शुक्लीकृता हंसा मयूराः केन चित्रिताः । स्वभावेनैवेति । अत्र सांख्याचार्या आहुः निर्गुणत्वादीश्वरस्य कथं सगुणतः प्रजा जायेरन् कथं वा पुरुषान्निर्गुणादेव तस्मात् प्रकृतेर्युज्यते यथा शुक्लेभ्यस्तन्तुभ्यः शुक्ल एव पटो भवति कृष्णेभ्यः कृष्ण एवेति । एवं त्रिगुणात् प्रधानात् त्रयो लोकास्त्रिगुणाः समुत्पन्ना इति गम्यते । निर्गुण ईश्वरः सगुणानां लोकानां तस्मादुत्पत्तिरयुक्तेति । अनेन पुरुषो व्याख्यातः । तथा केषांचित् कालः कारणमित्युक्तं च । "कालः पञ्चास्ति भूतानि कालः संहरते जगत् । कालः सुप्तेषु जागर्त्ति कालो हि दुरतिक्रमः ॥" व्यक्तमव्यक्तपुरुषास्त्रयः पदार्थास्तेन कालो ऽन्तर्भूतो ऽस्ति स व्यक्तः सर्वकर्तृत्वात् कालस्यापि प्रधानमेव कारणं स्वभावो ऽप्यत्रैव लीनः तस्मात् कालो न कारणम् । नापि स्वभाव इति । तस्मात् प्रकृतिरेव कारणं न प्रकृतेः कारणान्तरमस्तीति । न पुनर्दर्शनमुपयाति पुरुषस्य । अतः प्रकृतेः सुकुमारतरं सुभोग्यतरं न किञ्चिदीश्वरादिकारणमस्तीति मे मतिर्भवति ॥ 61 ॥
तथा च श्लोके रूढम् । पुरुषो मुक्तः पुरुषः संसारीति चोदितेत्याह ।
तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः

63

तस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति यस्मात् कारणात् प्रकृतिरेव नानाश्रया दैवमानुषतिर्यग्योन्याश्रया बुद्ध्यहंकारतन्मात्रेन्द्रियभूतस्वरूपेण बध्यते मुच्यते संसरति चेति । अथ मुक्त एव स्वभावात् स सर्वगतश्च कथं संसरत्यप्राप्तप्रापणार्थं संसरणमिति तेन पुरुषो बध्यते पुरुषो मुच्यते संसरति व्यपदिश्यते येन संसारित्वं न विद्यते सत्त्वपुरुषान्तज्ञानात् तत्त्वं पुरुषस्याभिव्यज्यते । तदभिव्यक्तो केवलः शुद्धो मुक्तः स्वरूपप्रतिष्ठः पुरुष इति । अत्र यदि पुरुषस्य बन्धो नस्ति ततो मोक्षो ऽपि नास्ति । अत्रोच्यते प्रकृतिरेवात्मानं बध्नाति मोचयति च यत्र सूक्ष्मशरीरं तन्मात्रकं त्रिविधकरणोपेतं तत् त्रिविधेन बन्धेन बध्यते । उक्तं च प्राकृतेन च बन्धेन तथा वैकारिकेण च । दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते । तत् सूक्ष्मं शरीरं धर्माधर्मं संयुक्तम् ॥ 62 ॥
प्रकृतिश्च बध्यते प्रकृतिश्च मुच्यते संसरतीति कथं तदुच्यते ।
रूपैः सप्तभिरेवं बध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषस्यार्थं प्रति विमोचयत्येकरूपेण

64

रूपैः सप्तभिरेवैतानि सप्त प्रोच्यन्ते धर्मो वैराग्यमैश्वर्यमधर्मो ऽज्ञानमवैराग्यमनैश्वर्य्यमेतानि प्रकृतेः सप्तरूपाणि तैरात्मानं स्वं बध्नाति प्रकृतिरात्मानं स्वमेव सैव प्रकृतिः पुरुषस्यार्थः पुरुषार्थः कर्त्तव्य इति विमोचयत्यात्मानमेकरूपेण ज्ञानेन ॥ 63 ॥
कथं तज्ज्ञानमुत्पद्यते ।
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्

65

एवमुक्तेन क्रमेन पञ्चविंशतितत्त्वालोचनाभ्यासादियं प्रकृतिरयं पुरुष एतानि पञ्चतन्मात्रेन्द्रियमहाभूतानीति पुरुषस्य ज्ञानमुत्पद्यते नास्ति नाहमेव भवामि न मे मम शरीरं तद्यतो ऽहमन्यः शरीरमन्यन्नाहमित्यपरिशेषमहंकाररहितमपरिशेषमविपर्ययाद्विशुद्धं विपर्ययः संशयो ऽविपर्ययादसंशयाद्विशुद्धं केवलं तदेव नान्यदस्तीति मोक्षकारणमुत्पद्यते ऽभिव्यज्यते ज्ञानं पञ्चविंशतितत्त्वज्ञानं पुरुषस्येति ॥ 64 ॥
ज्ञाने पुरुषः किं करोति ।
तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः

66

तेन विशुद्धेन केवलज्ञानेन पुरुषः प्रकृतिं पश्यति प्रेक्षकवत् प्रेक्षकेण तुल्यमवस्थितः स्वस्थो यथा रंगप्रेक्षको ऽवस्थितो नर्त्तकीं पश्यतिः स्वस्थः स्वस्मिंस्तिष्ठति स्वस्थः स्वस्थानस्थितः । कथंभूतां प्रकृतिं निवृत्तप्रसवां निवृत्तः बुद्ध्यहंकारकार्य्यानर्थवशात् सप्तरूपविनिवृत्तां निवर्त्तितोभयपुरुषप्रयोजनवशाद्यैः सप्तभी रूपैर्धर्मादिभिरात्मानं बध्नाति तेभ्यः सप्तभ्यो रूपेभ्यो विनिवृत्तिं प्रकृतिं पश्यति ॥ 65 ॥
किं च ।
दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या ।
सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य

67

रंगस्थ इति यथा रंगस्थ इत्येवमुपेक्षक एकः केवलः शुद्धः पुरुषस्तेनाहं दृष्टेति कृत्वा उपरता निवृता एका एकैव प्रकृतिः त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिरस्ति मूर्त्तिभेदे जातिभेदादेवं प्रकृतिपुरुषयोर्निर्वृत्तावपि व्यापकत्वात् संयोगो ऽस्ति न तु संयोगात् कुतः सर्गो भवति । सति संयोगे ऽपि तयोः प्रकृतिपुरुषयोः सर्वगतत्वात् सत्यपि संयोगे प्रयोजनं नास्ति सर्गस्य सृष्टेश्चरितार्थत्वात् प्रकृतेर्द्विविधं प्रयोजनं शब्दविषयोपलब्धिर्गुणपुरुषान्तरोपलब्धिश्च । उभयत्रापि चरितार्थत्वात् सर्गस्य नास्ति प्रयोजनं यः पुनः सर्ग इति । यथा दानग्रहणनिमित्त उत्तमर्णाधमर्णयोर्द्रव्यविशुद्धौ सत्यपि संयोगे न कश्चिदर्थसम्बन्धो भवति । एवं प्रकृतिपुरुषयोरपि नास्ति प्रयोजनमिति ॥ 66 ॥
यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षो भाति ततो मम कस्मान्न भवतीति । अत उच्यते ।
सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः

68

यद्यपि पञ्चविंशतितत्त्वज्ञानं सम्यक् ज्ञानं भवति तथापि संस्कारवशाद्धृतशरीरो योगी तिष्ठति कथं चक्रभ्रमवच्चक्रभ्रमेण तुल्यं यथा कुलालश्चक्रं भ्रमयित्वा घटं करोति मृत्पिण्डं चक्रमारोप्य पुनः कृत्वा घटं पर्यामुञ्चति चक्रं भ्रमत्येव संस्कारवशादेवं सम्यग्ज्ञानाधिगमादुत्पन्नसम्यग्ज्ञानस्य धर्मादीनामकारणप्राप्तौ एतानि सप्त रूपाणि बन्धनभूतानि सम्यग्ज्ञानेन दग्धानि यथा नाग्निना दग्धानि बीजानि प्ररोहणसमर्थान्येवमेतानि धर्मादीनि बन्धनानि न समर्थानि । धर्मादीनामकारणप्राप्तौ संस्कारवशाद्धृतशरीरास्तिष्ठति ज्ञानाद्वर्त्तमानधर्माधर्मक्षयः कस्मान्न भवति वर्त्तमानत्वादेव क्षणान्तरे क्षयमप्येति ज्ञानं त्वनागतकर्म दहति वर्त्तमानशरीरेण च यत् करोति तदपीति विहितानुष्ठानकरणादिति संस्कारक्षयाच्छरीरपाते मोक्षः ॥ 67 ॥
स किंविशिष्टो भवतीत्युच्यते ।
प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति

69

धर्माधर्मजनितसंस्कारक्षयात् प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानस्य निवृत्तौ ऐकान्तिकमवश्यमात्यन्तिकमनन्तर्हितं कैवल्यं केवलभावान्मोक्ष उभयमैकान्तिकात्यन्तिकमित्येव विशिष्टकैवल्यमाप्नोति ॥ 68 ॥
पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्

70

पुरुषार्थो मोक्षस्तदर्थं ज्ञानमिदं गुह्यं रहस्यं परमर्षिणा श्रीकपिलर्षिणा समाख्यातं सम्यगुक्तं यत्र ज्ञाने भूतानां वैकारिकाणां स्थित्युत्पत्तिप्रलया अवस्थानाविर्भावतिरोभावाश्चिन्त्यन्ते विचार्यन्ते येषां विचारात् सम्यक् पञ्चविंशतितत्त्वविवेचनात्मिका सम्पद्यते संवित्तिरिति ॥ 69 ॥
सांख्यं कपिलमुनिना प्रोक्तं संसारविमुक्तिकारणं हि ।
यत्रैताः सप्ततिरार्या भाष्यं चात्र गौडपादकृतम् ॥
[उन्चोम्मेन्तेद् कारिकास्:]
एतत्पवित्र्यमग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम्

71

शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभिः ।
सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम्

72

सप्तत्यां किल यो ऽर्थास्ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चेति

मूल पाठ: Sāṃkhyakārikā with Gauḍapāda's Bhāṣya · Edition: The Sankhya Karika. By Iswara Krishna; Translated from the Sanscrit by Henry Thomas Colebrooke, also the Bhashya, or, Commentary of Gaudapada; Translated, and Illustrated by an Original Comment, by Horace Hayman Wilson. Bombay : Tookaram Tatya 1887. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc