भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (टीका सहित) · श्लोक 1-20

1

साङ्ख्यकारिका गौडपादभाष्य
कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने ।
कारुण्यात्साङ्ख्यमयी नौरिव विहिता प्रतरणाय ॥
अल्पग्रन्थं स्पष्टं प्रमाणसिद्धान्तहेतुभिर्युक्तम् ।
शास्त्रं शिष्यहिताय समासतो ऽहं प्रवक्ष्यामि ॥
दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ ।
दृष्टे सापार्था चेन्नैकान्तात्यन्ततो ऽभावात्

2

दुःखत्रयेति । अस्या आर्य्याया उपोद्घातः क्रियते । इह भगवान्ब्रह्मसुतः कपिलो नाम । तद्यथा -
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
आसुरिः कपिलश्चैव वोढुः पञ्चशिखस्तथा ।
इत्येते ब्रह्मणः पुत्राः सप्त प्रोक्ता महर्षयः ॥
कपिलस्य सहोत्पन्ना धर्म्मो ज्ञानं वैराग्यमैश्वर्य्यञ्चेति । एवं स उत्पन्नः सन्नन्धतमसि मज्जज्जगदालोक्य संसारपारम्पर्य्येण सत्कारुण्यो जिज्ञासमानाय आसुरिसगोत्राय ब्रह्मणायेदं पञ्चविंशतितत्त्वानां ज्ञानमुक्तवान् । यस्य ज्ञानाद्दुःखक्षयो भवति ।
पञ्चविंशतितत्वज्ञो यत्र तत्राश्रमे वसेत् ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥
तदिदमाहुः । दुःखत्रयाभिघाताज्जिज्ञासेति । तत्र दुःखत्रयं- आध्यात्मिकं आधिभौतिकं आधिदैविकं चेति । तत्राध्यात्मिकं द्विविधं - शारीरं मानसं चेति । शारीरं वातपित्तश्लेष्मविपर्य्ययकृतं ज्वरातीसारादि । मानसं प्रियवियोगाप्रियसंयोगादि । आधिभौतिकं चतुर्विधं - भूतग्रामनिमित्तं मनुष्यपशुमृगपक्षिसरीसृपदंशमशकयूकामत्कुणमत्स्यमकरग्राहस्थावरेभ्यो जरायुजाण्डजस्वेदजोद्भिज्जेभ्यः सकाशादुपजायते । आधिदैविकं - देवानामिदं दैविकम् । दिवः प्रभवतीति वा दैवं तदधिकृत्य यदुपजायते शीतोष्णवातवर्षाशनिपातादिकम् । एवं यथा दुःखत्रयाभिज्ञाताज्जिज्ञासा कार्य्या क्व । तदभिघातके हेतौ । तस्य दुःखत्रयस्य अभिघातको यो ऽसौ हेतुस्तत्रेति । दृष्टे सापार्था चेत् । दृष्टे हेतौ दुःखत्रयाभिघातके सा जिज्ञासापार्था चेद्यदि । तत्राध्यात्मिकस्य द्विविधस्यापि आयुर्वेदशास्त्रक्रियया प्रियसमागमाप्रियपरिहारकटुतिक्तकषायादिक्वाथादिभिर्दृष्ट एव आध्यात्मिकोपायः । आधिभौतिकस्य रक्षादिनाभिघातो दृष्टः । दृष्टे सापार्था चेदेवं मन्यसे । न । एकान्त्यात्यन्ततो ऽभावात् । यत एकान्ततो ऽवश्यं अत्यन्ततो नित्यं दृष्टेन हेतुनाभिघातो न भवति तस्मादन्यत्र एकान्तात्यन्ताभिघातके हेतौ जिज्ञासा विविदिषा कार्येति ॥ 1 ॥
यदि दृष्टान्यत्र जिज्ञासा कार्य्या ततो ऽपि नैव यत आनुश्रविको हेतुर्दुःखत्रयाभिघातकः । अनुश्रवतीत्यनुश्रवस्तत्रभवः आनुश्रविकः स च आगमात्सिद्धः । यथा
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
किन्नूनमस्मान् कृणवदरातिः किमु धूर्त्तिरमृतमर्त्यस्य ॥
कदाचिदिन्द्रादीनां देवानां कल्प आसीत् । कथं वयममृता अभूमेति विचार्य्यामुं यस्माद्वयमपाम सोमं पीतवन्तः सोमं तस्मादमृता अभूम अमरा भूतवन्त इत्यर्थः किंच अगन्म ज्योतिः गतवतो लब्धवतो ज्योतिः स्वर्गमिति । अविदाम देवान् दिव्यान् विदितवन्तः । एवं च किन्नूनमस्मान् कृणवदरातिः नूनं निश्चितं किं अरातिः शत्रुरस्मान् कृणवत् कर्त्तेति किमु धूर्त्तिरमृतमर्त्यस्य धूर्त्तिर्जरा हिंसा वा किं करिष्यति अमृतमर्त्यस्य । अन्यच्च श्रूयते आत्यन्तिकं फलं पशुवधेन । सर्व्वंल्लोकाञ्जयति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां तरति यो यो ऽश्वमेधेन यजत इति । एकान्तात्यन्तिके एव वेदोक्ते अपार्थे ऽवजिज्ञासा इति न । उच्यते ।
दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात्

3

दृष्टवदानुश्रविक इति दृष्टेन तुल्यो दृष्टवत् । को ऽसौ आनुश्रविकः कस्मात्स यस्मादविशुद्धिक्षयातिशययुक्तः । अविशुद्धियुक्तः पशुघातात् तथा चोक्तम् ।
षट् शतानि नियुज्यन्ते पशुनां मध्यमे ऽहनि ।
अश्वमेधस्य वचनादूनानि पशुहिस्त्रिभिः ॥
यद्यपि श्रुतिस्मृतिविहितो धर्म्मस्तथापि मिश्रीभावादविशुद्धियुक्त इति । यथा
बहूनीन्द्रसहस्राणि देवानां च युगे युगे ।
कालेन समतीतानि कालो हि दुरतिक्रमः ॥
एवमिन्द्रादिनाशात्क्षययुक्तः । तथातिशयो विशेषस्तेन युक्तः । विशेषगुणादर्शनादितरस्य दुःखं स्यादिति । एवमानुश्रविको ऽपि हेतुर्दृष्टवत् । कस्तर्हि श्रेयानिति चेत् । उच्यते ।
तद्विपरीतः श्रेयान् ताभ्यां दृष्टानुश्रविकाभ्यां विपरीतः श्रेयान् प्रशस्यतर इति । अविशुद्धिक्षयातिशयायुक्तत्वात् । स कथमित्याह ।
व्यक्ताव्यक्तज्ञविज्ञानात् तत्र व्यक्तं महदादिबुद्धिरहंकारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानि । अव्यक्तं प्रधानम् । ज्ञः पुरुषः । एवमेतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञानि कथ्यन्ते एतद्विज्ञानाच्छ्रेय इत्युक्तं च पञ्चविंशतितत्त्वज्ञ इति ॥ 2 ॥
अथ व्यक्ताव्यक्तज्ञानां को विशेष इत्युच्यते ।
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः

4

मूलप्रकृतिः प्रधानम् । प्रकृतिविकृतिसप्तकस्य मूलभूतत्वात् । मूलं च सा प्रकृतिश्च मूलप्रकृतिरविकृतिः । अन्यस्मान्नोत्पद्यते तेन प्रकृतिः कस्यचिद्विकारो न भवति । महदाद्याः प्रकृतिविकृतयः सप्त । महाभूतादिति बुद्धिः बुद्ध्याद्याः सप्त बुद्धि 1 अहंकारः 2 पञ्चतन्मात्राणि 5 एतानि सप्तप्रकृतिविकृतयः । तद्यथा । प्रधानाद्बुद्धिरुत्पद्यते तेन विकृतिः प्रधानस्य विकार इति सैवाहंकारमुत्पादयति अतः प्रकृतिः । अहंकारो ऽपि बुद्धेरुत्पद्यत इति विकृतिः स च पञ्चतन्मात्राण्युत्पादयतीति प्रकृतिः । तत्र शब्दतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तस्मादाकाशमुत्पद्यत इति प्रकृतिः । तथा स्पर्शतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तदेवं वायुमुत्पादयतीति प्रकृतिः । गन्धतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तदेवं पृथिवीमुत्पादयतीति प्रकृतिः । रूपतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तदेवं तेज उत्पादयतीति प्रकृतिः । रसतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तदेवं आप उत्पादयतीति प्रकृतिः । एवं महदाद्याः सप्त प्रकृतयो विकृतयश्च । षोडशकश्च विकारः पञ्चबुद्धीन्द्रियाणि पञ्चकर्म्मेन्द्रियाणि एकादशं मनः पञ्चमहाभूतानि एष षोडशको गणो विकृतिरेव । विकारो विकृतिः । न प्रकृतिर्न विकृतिः पुरुषः ॥ 3 ॥
एवमेषां व्यक्ताव्यक्तज्ञानां त्रयाणां पदार्थानां कैः कियद्भिः प्रमाणैः केन कस्य वा प्रमाणेन सिद्धिर्भवति । इह लोके प्रमेयवस्तु प्रमाणेन साध्यते यथा प्रस्थादिभिर्व्रीहयस्तुलया चन्दनादि । तस्मात् प्रमाणमभिधेयम् ।
दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि

5

दृष्टं यथा श्रोत्रं त्वक् चक्षुर्जिह्वा घ्राणमिति पञ्चबुद्धीन्द्रियाणि शब्दस्पर्शरूपरसगन्धा एषां पञ्चानां पञ्चैव विषया यथासंख्यं शब्दं श्रोत्रं त्वक् स्पर्शं चक्षू रूपं जिह्वा रसं घ्राणं गन्धमिति । एतद्दृष्टमित्युच्यते प्रमाणम् । प्रत्यक्षेणानुमानेन व यो ऽर्थो न गृह्यते स आप्तवचनाद्ग्राह्यः । यथेन्द्रोः देवराजः उत्तराः कुरवः स्वर्गे ऽप्सरस इत्यादि । प्रत्यक्षानुमानाग्राह्यमथाप्तवचनाद्गृह्यते । अपि चोक्तम् ।
आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः ।
क्षीणदोषो ऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥
स्वकर्म्मण्यभियुक्तो यः सङ्गद्वेषविवर्ज्जितः ।
पूजितस्तद्विधैर्नित्यमाप्तो ज्ञेयः स तादृशः ॥
एतेषु प्रमाणेषु सर्वप्रमाणानि सिद्धानि भवन्ति । षट् प्रमाणानि जैमिनिः । अथ कानि तान्यप्रमाणानि । अर्थापत्तिः सम्भवः अभावः प्रतिभा ऐतिह्यं उपमानं चेति षट् प्रमाणानि । तत्रार्थापत्तिर्द्विविधा दृष्टा श्रुता च । तत्र दृष्टा । एकस्मिन् पक्षे आत्मभावो गृहीतश्चेदन्यस्मिन्नप्यात्मभावो गृह्यत एव । श्रुता यथा । दिवा देवदत्तो न भुङ्क्ते अथ च पीनो दृश्यते अतो ऽवगम्यते रात्रौ भुङ्क्त इति । सम्भवो यथा । प्रस्थ इत्युक्ते चत्वारः कुडवाः सम्भाव्यन्ते । अभावो नाम । प्रागितरेतरात्यन्तसर्वाभावलक्षणः । प्रागभावो यथा देवदत्तः कौमारयौवनादिषु । इतरेतराभावः पटे घटाभावः । अत्यन्ताभावः खरविषाणवन्ध्यासुतखपुष्पवदिति । सर्वाभावः प्रध्वंसाभावो दग्धपटवदिति । यथा शुष्कधान्यदर्शनद्वृष्टेरभावो ऽवगम्यते । एवमभावो ऽनेकधा । प्रतिभा यथा । दक्षिणेन विन्ध्यस्य सह्यस्य च यदुत्तरम् । पृथिव्यामासमुद्रायां स प्रदेशो मनोरमः । एवमुक्ते तस्मिन् प्रदेशे शोभनाः गुणाः सन्तीति प्रतिभोत्पद्यते प्रतिभान्वाससंज्ञानमिति । ऐतिह्यं यथा । ब्रवीति लोको यथात्र वटे यक्षिणी प्रवसतीत्येव ऐतिह्यम् । उपमानं यथा । गौरिव गवयः समुद्र इव तडागम् । एतानि षट् प्रमाणानि त्रिषु दृष्टादिष्वन्तर्भूतानि । तत्रानुमाने तावदर्थापत्तिरन्तर्भूता । सम्भवाभावप्रतिभैतिह्योपमाश्चाप्तवचने । तस्मात्त्रिष्वेव सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्टं तदाह तेन त्रिविधेन प्रमाणेन प्रमाणसिद्धिर्भवतीतित वाक्यशेषः । प्रमेयसिद्धिः प्रमाणाद्धि । प्रमेयं प्रधानं बुद्धिरहंकारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानि पुरुष इति एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञान्युच्यन्ते । तत्र किञ्चित् प्रत्यक्षेण साध्यं किञ्चिदनुमानेन किञ्चिदागमेनेति त्रिविधं प्रमाणमुक्तं ॥ 4 ॥
तस्य किं लक्षणमेतदाह ।
प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु

6

प्रतिविषयेषु श्रोत्रादिनां शब्दादिविषयेषु अध्यवसायो दृष्टं प्रत्यक्षमित्यर्थः । त्रिविधमनुमानमाख्यातं शेषवत् पूर्ववत् सामान्यतो दृष्टं चेति । पूर्वमस्यास्तीति पूर्ववद् यथा मेघोन्नत्या वृष्टिं साधयति पूर्ववृष्टित्वात् । शेषवद्यथा समुद्रादेकं जलपलं लवणमासाद्य शेषस्याप्यस्ति लवणभाव इति । सामान्यतो दृष्टम् । देशान्तराद्देशान्तरं प्राप्तं दृष्टम् । गतिमच्चन्द्रतारकं चैत्रवत् । यथा चैत्रनामानं देशान्तराद्देशान्तरं प्राप्तमवलोक्य गतिमानयामीति तद्वच्चन्द्रतारकमिति तथा पुष्पिताम्रदर्शनादन्यत्रपुष्पिताम्रा इति सामान्यतो दृष्टेन साधयति । एतत्सामान्यदृष्टम् ।
किञ्च तल्लिङ्गलिङ्गिपूर्वकमिति तदनुमानं लिङ्गपूर्वकं यत्र लिङ्गेन लिङ्गी अनुमीयते यथा दण्डेन यतिः । लिङ्गिपूर्वकं च यत्र लिङ्गिना लिङ्गमनुमीयते यथा दृष्ट्वा यतिमस्येदं त्रिदण्डमिति । आप्तश्रुतिराप्तवचनं च । आप्ता आचार्य्या ब्रह्मादयः । श्रुतिर्वेदः । आप्तश्च श्रुतिश्च आप्तश्रुती तदुक्तमाप्तवचनमिति ॥ 5 ॥
एवं त्रिविधं प्रमाणमुक्तं तत्र केन प्रमाणेन किं साध्यमुच्यते ।
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम्

7

सामान्यतो दृष्टादनुमानादतीन्द्रियाणमिन्द्रियाण्यतीत्यवर्त्तमानानां सिद्धिः प्रधानपुरुषावतीन्द्रियौ सामान्यतो दृष्टेनानुमानेन साध्येते यस्मान्महदादिलिङ्गं त्रिगुणम् । यस्येदं त्रिगुणं कार्यं तत्प्रधानमिति । यतश्चातेनं चेतनमिवाभाति अतो ऽन्यो ऽधिष्ठाता पुरुष इति । व्यक्तं प्रत्यक्षसाध्यम् । तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धं यथेन्द्रो देवराजः उत्तराः कुरवः स्वर्गे ऽप्सरस इति परोक्षमाप्तवचनात् सिद्धम् ॥ 6 ॥
अत्र कश्चिदाह प्रधानः पुरुषो वा नोपलभ्यते यश्च नोपलभ्यते लोके तन्नास्ति तस्मात्तावपि न स्तः । यथा द्वितीयं शिरस्तृतीयो बाहुरिति । तदुच्यते । अत्र सतामप्यर्थानामष्टधोपलब्धिर्न भवति तद्यथा ।
अतिदूरात्सामीप्यादिन्द्रियघातान्मनो ऽनवस्थानात् ।
सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च

8

इह सतामप्यर्थानामतिदूरादनुपलब्धिर्दृष्टा । यथा देशान्तरस्थानां चैत्रमैत्रविष्णुमित्राणाम् । सामीप्याद्यथा चक्षुषो ऽञ्जनानुपलब्धिः । इन्द्रियाभिघाताद्यथा बधिरान्धयोः शब्दरूपानुपलब्धिः । मनो ऽनवस्थानाद्यथा व्यग्रचित्तः सम्यक्कथितमपि नावधारयति । सौक्ष्म्याद्यथा धूमोष्मजलनीहारपरमाणवो गगनगता नोपलभ्यन्ते । व्यवधानाद्यथा कुड्येन पिहितं वस्तु नोपलभ्यते । अभिभवाद्यथा सूर्यतेजसाभिभूता ग्रहनक्षत्रतारकादयो नोपलभ्यन्ते । समानाभिहाराद्यथा मुद्गराशौ मुद्गः क्षिप्तः कुवलयामलकमध्ये कुवलयामलके क्षिप्ते कपोतमध्ये कपोतो नोपलभ्यते सनानद्रव्यमध्याहृतत्वात् । एवमष्टधानुपलब्धिः सतामर्थानामिह दृष्टा ॥ 7 ॥
एवं चास्ति किमभ्युपगम्यते प्रधानपुरुषयोरप्येतयोर्वानुपलब्धिः केन हेतुना केन चोपलब्धिस्तदुच्यते ।
सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धिः ।
महदादि तच्च कार्यं प्रकृतिविरूपं स्वरूपं च

9

सौक्ष्म्यात्तदनुपलब्धिः प्रधानस्येत्यर्थः । प्रधानं सौक्ष्म्यान्नोपलभ्यते यथाकाशे धूमोष्मजलनीहारपरमाणवः सन्तो ऽपि नोपलभ्यन्ते । कथं तर्हि तदुपलब्धिः । कार्यतस्तदुपलब्धिः । कार्यण दृष्ट्वा कारणमनुमीयते । अस्ति प्रधानं कारणं यस्येदं कार्यम् । बुद्धिरहंकारपञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानि एव तत्कार्यम् । तच्च कार्यं प्रकृतिविरूपम् । प्रकृतिः प्रधानं तस्य विरूपं प्रकृतेरसदृशं स्वरूपं च समानरूपं च तथा लोके ऽपि पितुस्तुल्य एव पुत्रो भवत्यतुल्यश्च । येन हेतुना तुल्यमतुल्यं तदुपरिष्टाद्वक्ष्यामः ॥ 8 ॥
यदिदं महदादिकार्यं तत्किं प्रधाने सदुतादहोस्विदसदाचार्यविप्रतिपत्तेरयं संशयः । यतो ऽत्र सांख्यदर्शने सत्कार्यं बौद्धादीनामसत्कार्यम् । यदि सदसन्न भवत्यसत्सन्न भवतीति विप्रतिषेधस्तत्राह ।
असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्

10

असदकरणान्न सदसतो ऽकरणं तस्मात्सत्कार्यं इहलोके ऽसत्करणं नास्ति यथा सिकताभ्यस्तैलोत्पत्तिस्तस्मात्सतः करणादस्ति प्रागु(त्प)प्तेः । प्रधाने व्यक्तमतः सत्कार्यम् । किं चान्यदुपादानग्रहणादुपादानं कारणं तस्य ग्रहणादिहलोके यो येनार्थी स तदुपादानग्रहणं करोति दध्यर्थी क्षीरस्य न तु जलस्य तस्मात् सत्कार्यम् । इतश्च सर्वसम्भवाभावात् सर्वस्य सर्वत्रसम्भवो नास्ति यथा सुवर्णस्य रजतादौ तृणपांशुसिकतासु तस्मात् सर्वसम्भवाभावात् सत्कार्यम् । इतशच शक्तस्य शक्यकरणात् । इह कुलालः शक्तो मृद्दण्डचक्रचीवररज्जुनीरादिकरणोपकरणं वा शक्यमेव घटां मृत्पिण्डादुत्पादयति तस्मात् सत्कार्यम् । इतश्च कारणभावाच्च सत्कार्यम् । कारणं यल्लक्षणं तल्लक्षणमेव कार्यमेव यथा यवेभ्यो ऽपि यवाः व्रीहीभ्यो व्रीहयः यदासत्कार्यं स्यात्ततः कोद्रवेभ्यः शालयः स्युर्न च सन्तीति तस्मात् सत्कार्यम् । एवं पञ्चभिर्हेतुभिः प्रधाने महदादिलिङ्गमस्ति तस्मात्सत उत्पत्तिर्नासत इति ॥ 9 ॥
प्रकृतिविरूपं सरूपं च यदुक्तं कथमित्युच्यते ।
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्

11

व्यक्तं महदादिकार्य्यं हेतुमदिति हेतुरस्यास्ति हेतुमत् । उपादानं हेतुः कारणं निमित्तमिति पर्यायाः । व्यक्तस्य प्रधानं हेतुरस्ति अतो हेतुमद्व्यक्तं भूतपर्य्यन्तं हेतुमद्बुद्धिमत्त्वं प्रधानेन हेतुमानहंकारो बुद्ध्या पञ्चतन्मात्राणि एकादशेन्द्रियाणि हेतुमन्त्यहंकारेण । आकाशं शब्दतन्मात्रेण हेतुमत् । वायुः स्पर्शतन्मात्रेण हेतुमान् । तेजो रूपतन्मात्रेण हेतुमत् । आपो रसतन्मात्रेण हेतुमत्यः । पृथिवी गन्धतन्मात्रेन हेतुमती । एवं भूतपर्य्यन्तं व्यक्तं हेतुमत् । किं चान्यदनित्यं यस्मादन्यस्मादुत्पद्यते यथा मृत्पिण्डादुत्पद्यते घटः स चानित्यः । किं चाव्याप्यसर्व्वगमित्यर्थः यथा प्रधानपुरुषौ सर्व्वगतौ नैव व्यक्तम् । किंचान्यत् सक्रियं संसारकाले संसरति त्रयोदशविधेन करणेन संयुक्तं सूक्ष्मं शरीरमाश्रित्य संसरति तस्मात् सक्रियम् । किंचान्यदनेकं बुद्धिरहंकारः पञ्चतन्मात्रान्येकादशेन्द्रियाणि च पञ्चमहाभूतानि पञ्चतन्मात्राश्रितानि । किंच लिङ्गं लययुक्तं लयकाले पञ्चमहाभूतानि तन्मात्रेषु लीयन्ते तान्येकादशेन्द्रियैः सहाहंकारे स च बुद्धौ सा च प्रधाने लयं यातीति । तथा सावयवं अवयवाः शब्दस्पर्शरसरूपगन्धाः तैः सह । किंच परतन्त्रं नात्मनः प्रभवति यथा प्रधानतन्त्रा बुद्धिः बुद्धितन्त्रो ऽहंकारः अहंकारतन्त्राणि तन्मात्राणीन्द्रियाणि च तन्मात्रतन्त्राणि पञ्चमहाभूतानि च । एवं परतन्त्रं परायत्तं व्याख्यातं व्यक्तम् । अथो ऽव्यक्तं व्याख्यामः । विपरीतमव्यक्तम् । एतैरेव गुणैर्यथोक्तैर्विपरीतमव्यक्तं हेतुमद्व्यक्तमुक्तम् । नहि प्रधानात् परं किञ्चिदस्ति यतः प्रधानस्यानुत्पत्तिः तस्मादहेतुमदव्यक्तम् । तथानित्यं च व्यक्तं नित्यमव्यक्तमनुत्पाद्यत्वात् नहि भूतानि कुतश्चिदुत्पद्यन्तेति प्रधानम् । किं चाव्यापि व्यक्तं व्यापि प्रधानं कार्य्यं स्यात् । तथा व्यक्तं लिङ्गमलिङ्गमव्यक्तं नित्यत्वान्महदादि लिङ्गं प्रलयकाले परस्परं प्रलीयते नैवं प्रधानं तस्मादलिङ्गं प्रधानम् । तथा सावयवं व्यक्तं निरवयवमव्यक्तं नहि शब्दस्पर्शरसरूपगन्धाः प्रधाने सन्ति । तथा परतन्त्रं व्यक्तं स्वतन्त्रमव्यक्तं प्रभवत्यात्मनः ॥ 10 ॥
एवं व्यक्ताव्यक्तयोर्वैधर्म्म्यमुक्तं साधर्म्म्यमुच्यते यदुक्तं सरूपं च ।
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्

12

त्रिगुणं व्यक्तं सत्त्वरजस्तमांसि त्रयो गुणा यस्येति । अविवेकि व्यक्तं न विवेको ऽस्यास्तीति । इदं व्यक्तमिमे गुणा इति न विवेककर्त्तुं याति अयं गौरयमश्व इति यथा ये गुणास्तद्व्यक्तं यद्व्यक्तं ते च गुणा इति । तथा विषयो व्यक्तं भोज्यमित्यर्थः सर्वपुरुषाणां विषयभूतत्वात् । तथा सामान्यं व्यक्तं मूल्यदासीवत् सर्वसाधारणत्वात् । अचेतनं व्यक्तं सुखदुःखमोहान्न चेतयतीत्यर्थः । तथा प्रसवधर्मि व्यक्तं तद्यथा बुद्धेरहंकारः प्रसूयते तस्मात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि च प्रसूयन्ते तन्मात्रेभ्यः पञ्चमहाभूतानि । एवमेते व्यक्तधर्माः प्रसवधर्मान्ता उक्ता एवमेभिरव्यक्तं सरूपं यथा व्यक्तं तथा प्रधानमिति । तत्र त्रिगुणं व्यक्तमव्यक्तमपि त्रिगुणं यस्यैतन्महदादि कार्यं त्रिगुणम् । इह यदात्मकं कारणं तदात्मकं कार्यमिति यथा कृष्णतन्तुकृतः कृष्ण एव पटो भवति । तथाविवेकि व्यक्तं प्रधानमपि गुणैर्न भिद्यते अन्ये गुणा अन्यत् प्रधानमेव विवक्तुं न याति तदविवेकि प्रधानम् । तथा विषयो व्यक्तं प्रधानमपि सर्वपुरुषविषयभूतत्वाद्विषय इति । तथा सामान्यं व्यक्तं प्रधानमपि सर्वसाधारणत्वात् । तथाचेतनं व्यक्तं प्रधानमपि सुखदुःखमोहान्न चेतयतीति कथमनुमीयत इह ह्यचेतनान्मृत्पिण्डादचेतनो घटा उत्पद्यते । एवं प्रधानमपि व्याख्यातम् । इदानीं तद्विपरीतस्तथा पुमानित्येतद्व्याख्यायते । सद्विपरीतस्ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः पुमान् । तद्यथा त्रिगुणं व्यक्तमव्यक्तं चागुणः पुरुषः । अविवेकि व्यक्तमव्यक्तं च विवेकी पुरुषः । तथा विषयो व्यक्तमव्यक्तं चाविषयः पुरुषः । तथा सामान्यं व्यक्तमव्यक्तं चासामान्यः पुरुषः । अचेतनं व्यक्तमव्यक्तं च चेतनः पुरुषः सुखदुःखमोहांश्चेतयति संजानीते तस्माच्चेतनः पुरुष इति । प्रसवधर्मि व्यक्तं प्रधानं चाप्रसवधर्मी पुरुषो नहि किञ्चित् पुरुषात् प्रसूयते । तस्मादुक्तं तद्विपरीतः पुमानिति । तदुक्तं तथा च पुमानिति । तत् पूर्वस्यामार्यायां प्रधानमहेतुमद्यथा व्याख्यातं तथा च पुमान् तद्यथा हेतुमदननित्यमित्यादि व्यक्तं तद्विपरीतमव्यक्तं तत्र हेतुमद्व्यक्तमहेतुमत् प्रधानं तथा च पुमानहेतुमाननुत्पाद्यत्वात् । अनित्यं व्यक्तं नित्यं प्रधानं तथा च नित्यः पुमान् । अक्रियः सर्वगतत्वादेव । अनेकं व्यक्तमेकमव्यक्तं तथा पुमान्यप्येकः । आश्रितं व्यक्तमनाश्रितमव्यक्तं तथा च पुमाननाश्रितः । लिङ्गं व्यक्तमलिङ्गं प्रधानं तथा च पुमानप्यलिङ्गः । न क्वचिल्लीयत इति । सावयवं व्यक्तं निरवयवमव्यक्तं तथा च पुमान् निरवयवः । नहि पुरुषे शब्दादयो ऽवयवाः सन्ति । किंच परतन्त्रं व्यक्तं स्वतन्त्रमव्यक्तं तथा च पुमानपि स्वतन्त्रः । आत्मनः प्रभवतीत्यर्थः । एवमेतदव्यक्तपुरुषयोः साधर्म्यं व्याख्यातं पूर्वस्यामार्यायाम् । व्यक्तप्रधानयोः साधर्म्यं पुरुषस्य वैधर्म्यं च त्रिगुणमविवेकीत्यादि प्रकृत्यार्यायां व्याख्यातम् ॥ 11 ॥
तत्र यदुक्तं त्रिगुणमिति व्यक्तमव्यक्तं च तत् के ते गुणा इति तत् स्वरूपप्रतिपादनायेदमाह ।
प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः

13

प्रीत्यात्मका अप्रीत्यात्मकाः विषादात्मकाश्च गुणाः सत्त्वरजस्तमांसीत्यर्थः । तत्र प्रीत्यात्मकं सत्त्वं प्रीतिः सुखं तदात्मकमिति । अप्रीत्यात्मकं रजः । विषादात्मकं तमः । विषादो मोहः । तथा प्रकाशप्रवृत्ति नियमार्थाः । अर्थः शब्दः सामर्थ्यवाची प्रकाशार्थं सत्त्वं प्रकाशसमर्थमित्यर्थः । प्रवृत्त्यर्थं रजो नियमार्थं तमः स्थितौ समर्थमित्यर्थः प्रकाशक्रियास्थितिशीला गुणा इति । तथान्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च । अन्योन्याभिभवाः अन्योन्याश्रयाः अन्योन्यजननाः अन्योन्यमिथुनाः अन्योन्यवृत्तयश्च ते तथोक्ताः । अन्योन्याभिभवा इति अन्योन्यं परस्परमभिभवन्तीति प्रीत्यप्रीत्यादिभिर्धर्म्मैराविर्भवन्ति यथा यदा सत्त्वमुत्कटं भवति तदा रजस्तमसी अप्रीतिप्रवृत्तिधर्म्मेण यदा तमस्तदा सत्त्वरजसी विषादस्थित्यात्मकेन इति । तथान्योन्याश्रयाश्च द्व्यणुकवद्गुणाः । अन्योन्यजननाः यथा मृत्पिण्डो घटं जनयति । तथान्योन्यमिथुनाश्च यथा स्त्रीपुंसौ अन्योन्यमिथुनौ तथा गुणाः । उक्तं च ।
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।
उभयोः सत्त्वरजरोर्मिथुनं तम उच्यते ॥
परस्परसहाया इत्यर्थः । अन्योन्यवृत्तयश्च परस्परं वर्त्तन्ते गुणाः गुणेषु वर्त्तन्त इति वचनात् । यथा सुरूपा सुशीला स्त्री सर्व्वसुखहेतुः सपत्नीनां सैव दुःखहेतुः सैव रागिणां मोहं जनयति एव सत्वं रजस्तमसोर्वृत्तिहेतुर्यथा राजा सदोद्युक्तः प्रजापालने दुष्टनिग्रहे शिष्टानां सुखमुत्पादयति दुष्टानां दुःखं मोहं च एवं रजस्सत्त्वतमसोर्वृत्तिं जनयति । तथा तमः स्वरूपेणावरणात्मकेन सत्त्वरजसोर्वृत्तिं जनयति यथा मेघाः खमावृत्य जगतः सुखमुत्पादयन्ति ते वृष्ट्या कर्षुकाणां कर्षणोद्योगं जनयन्ति विरहिणां मोहमेवमन्योन्यवृत्तयो गुणाः ॥ 12 ॥
किंचान्यत् ।
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः

14

सत्त्वं लघु प्रकाशकं च यदा सत्त्वमुत्कटं भवति तदा लघून्यङ्गानि बुद्धिप्रकाशश्च प्रसन्नतेन्द्रियाणां भवति । उपष्टम्भकं चलं च रजः उपष्टम्भातीत्युपष्टम्भकमुद्योतकं यथा वृषो वृषदर्शने उत्कटमुपष्टम्भं करोति एव रजोवृत्तिः । तथा रजश्च चलं दृष्टं रजोवृत्तिश्चलचित्तो भवति । गुरु वरणमेकमेव तमः यदा तम उत्कटं भवति तदा गुरूण्यङ्गान्यावृतानीन्द्रियाणि भवन्ति स्वार्थासमर्थानि । अत्राह यदि गुणाः परस्परं विरुद्धाः स्वमतेनैव कमर्थं निष्पादयन्ति तर्हि कथं प्रदीपवच्चार्थतो वृत्तिः प्रदीपेन तुल्यं प्रदीपवदर्थतः साधना वृत्तिरिष्टा यथा प्रदीपः परस्परविरुद्धतैलाग्निवर्त्तिसंयोगादर्थप्रकाशान् जनयति एवं सत्त्वरजस्तमांसि परस्परं विरुद्धान्यर्थं निष्पादयन्ति ॥ 13 ॥
अन्तरप्रश्नो भवति त्रिगुणमविवेकि विषय इत्यादि प्रधानं व्यक्तं च व्याख्यातं तत्र प्रधानमुपलभ्यमानं महदादि च त्रिगुणमविवेक्यादीति च कथमवगम्यते तत्राह ।
अविवेक्यादिः सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम्

15

यो ऽयमविवेक्यादिर्गुणः स त्रैगुण्यान्महदादौ ऽव्यक्तेनायं सिद्ध्यति । अत्रोच्यते तद्विपर्ययाभावात्तस्य विपर्ययस्तद्विपर्ययस्तस्याभावस्तद्विपर्ययाभावस्तस्मात् सिद्धमव्यक्तम् । यथा यत्रैव तन्तवस्तत्रैव पटः । अन्ये तन्तवो ऽन्यः पटो न कुतस्तद्विपर्ययाभावात् । एवं व्यक्ताव्यक्तसम्पन्नो भवति दूरं प्रधानमासन्नं व्यक्तं यो व्यक्तं पश्यति स प्रधानमपि पश्यति तद्विपर्ययाभावात् । इतश्चाव्यक्तं सिद्धं कारणगुणात्मकत्वात् कार्यस्य । लोके यदात्मकं कारणं तदात्मकं कार्यमपि तथा कृष्णेभ्यस्तन्तुभ्यः कृष्ण एव पटो भवति । एवं महदादिलिङ्गमविवेकिविषयः सामान्यचेतनं प्रसवधर्मि यदात्मकं लिङ्गं तदात्मकमव्यक्तमपि सिद्धम् ॥ 14 ॥
त्रैगुण्यादविवेक्यादिर्व्यक्ते सिद्धस्तद्विपर्ययाभावात् । एवं कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धमित्येतन्मिथ्या लोके यन्नोपलभ्यते तन्नास्ति एवं प्रधानमप्यस्ति किं तु नोपलभ्यते ।
भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य

16

कारणमस्त्यव्यक्तमिति क्रियाकारकसम्बन्धः । भेदानां परिमाणालोके यत्र कर्त्तास्ति तस्य परिमाणं दृष्टं यथा कुलालः परिमितैर्मृत्पिण्डैः परिमितानेव घटान् करोति एवं महदपि महदादिलिङ्गं परिमितं भेदतः प्रधानकार्यमेका बुद्धिरेको ऽहंकारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानीत्येवं भेदानां परिमाणादस्ति प्रधानं कारणं यद्व्यक्तं परिमितमुत्पादयति ।यदि प्रधानं न स्यात्तदा निःपरिमाणमिदं व्यक्तमपि न स्यात् परिमाणाच्च भेदानामस्ति प्रधानं यस्माद्व्यक्तमुत्पन्नम् । तथा समन्वयादिह लोके प्रसिद्धिर्दृष्टा यथा व्रतधारिणं बटुं दृष्ट्वा समन्वयति नूनमस्य पितरौ ब्राह्मणाविति एवमिदं त्रिगुणं महदादिलिङ्गं दृष्ट्वा साधयामो ऽस्य यत् कारणं भविष्यतीति अतः समन्वयादस्ति प्रधानम् । तथा शक्तितः प्रवृत्तेश्च इह यो यस्मिन् शक्तः स तस्मिन्नेवार्थे प्रवर्त्तते यथा कुलालो घटास्य करणे समर्थो घटमेव करोति न पटं रथं वा । तथास्ति प्रधानं कारणं कुतः कारणकार्यविभागात् । करोतीति कारणम् । क्रियत इति कार्यम् । कारणस्य कार्यस्य च विभागो यथा घटो दधिमधूदकपयसां धारणे समर्थो न तथा तक्तारणं मृत्पिण्डः । मृत्पिण्डो वा घटं निष्पादयति न चैवं घटो मृत्पिण्डम् । एवं महदादिलिङ्गं दृष्ट्वानुमीयते । अस्ति विभक्तं तत् कारणं यस्य विभाग इदं व्यक्तमिति । इतश्च अविभागाद्वैश्वरूपस्य विश्वं जगत् तस्य रूपं व्यक्तिः । विश्वरूपस्य भावो वैश्वरूपं तस्याविभागादस्ति प्रधानं यस्मात्रैलोक्यस्य पञ्चानां पृथिव्यादीनां महाभूतानां परस्परं विभागो नास्ति महाभूतेष्वन्तर्भूतास्त्रयो लोका इति पृथिव्यापस्तेजोवायुराकाशमिति एतानि पञ्चमहाभूतानि प्रलयकाले सृष्टिक्रमेणैवाविभागं यान्ति तन्मात्रेषु परिणामिषु तन्मात्राण्येकादशेन्द्रियाणि चाहंकारे अहंकारो बुद्धौ बुद्धिः प्रधाने एवं त्रयो लोकाः प्रलयकाले प्रकृतावविभागं गच्छन्ति तस्मादविभागात् क्षीरदधिवद्व्यक्ताव्यक्तयोरव्यक्तं कारणम् ॥ 15 ॥
अतश्च ।
कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात्

17

अव्यक्तं प्रख्यातं कारणमस्ति यस्मान्महदादिलिङ्गं प्रवर्त्तते । त्रिगुणतः त्रिगुणात् सत्त्वरजस्तमोगुणा यस्मिंस्तत्त्रिगुणं तत्किमुक्तं भवति सत्त्वरजस्तमसां साम्यावस्था प्रधानम् । तथा समुदयात् यथा गंगाश्रोतांसि त्रिणी रुद्रमूर्द्धनि पतितानि एकं स्रोतो जनयति एवं त्रिगुणमव्यक्तमेकं व्यक्तं जनयति तथा वा तन्तवः समुदिताः पटं जनयन्ति एवमव्यक्तं गुनसमुदयान्महदादि जनयतीति त्रिगुणतः समुदयाच्च व्यक्तं जगत् प्रवर्त्तते । यस्मादेकस्मात् प्रधानाद्व्यक्तं तस्मादेकरूपेण भवितव्यम् । नैष दोषः परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषादेकस्मात् प्रधानात् त्रयो लोकाः समुत्पन्नास्तुल्यभावा न भवन्ति देवाः सुखेन युक्ता मनुष्या दुःखेन तिर्यञ्चो मोहेन एकस्मात् प्रधानात् प्रवृत्तं व्यक्तं प्रतिप्रतिगुणाश्रयविशेषात् परिणमातः सलिलवद्भवति । प्रतिप्रतीति वीप्सा । गुणानामाश्रयो गुणाश्रयस्तद्विशेषस्तं गुणाश्रयविशेषं प्रतिनिधाय प्रतिप्रतिगुणाश्रयविशेषं परिणामात् प्रवर्त्तते व्यक्तं यथा आकाशादेकरसं सलिलं पतितं नानारूपात्संश्लेषाद्भिद्यते तद्रसान्तरैरेवमेकस्मात् प्रधानात् प्रवृत्तास्त्रयो लोका नैकस्वभावा भवन्ति देवेषु सत्त्वमुत्कटं रजस्तमसी उदासीने तेन ते ऽत्यन्तसुखिनो मनुष्येषु रज उत्कटं भवति सत्त्वतमसी उदासीने तेन ते ऽत्यन्तदुःखिनो तिर्यक्षु तम उत्कटं भवति सत्त्वजसी उदासीने तेन ते ऽत्यन्तमूढाः ॥ 16 ॥
एवमार्याद्वयेन प्रधानस्यास्तित्वमभ्युपगम्यते । इतश्चोत्तरं पुरुषास्तित्वप्रतिपादनार्थमाह ।
सङ्घातपरार्थत्वात्त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषो ऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च

18

यदुक्तं व्यक्ताव्यक्तविज्ञानान्मोक्षः प्राप्यत इति तत्र व्यक्तादनन्तरमव्यक्तं पञ्चभिः कारणैरधिगतमव्यक्तवत् पुरुषो ऽपि सूक्ष्मस्तस्याधुनानुमितास्तित्वं प्रतिक्रियते । अस्ति पुरुषः कस्मात् संघातपरार्थत्वात् । यो ऽयं महदादि संघातः स पुरुषार्थ इत्यनुमीयते अचेतनत्वात् पर्यङ्गवत् । यथा पर्यङ्क प्रत्येकं गात्रोत्पलकपादवटतूलीप्रछादनपटोपधानसंघतः परार्थो नहि स्वार्थः पर्यङ्कस्य नहि किञ्चिदपि गात्रोत्पलाद्यवयवानां परस्परं कृत्यमस्ति । अतो ऽवगम्यते ऽस्ति पुरुषो यः पर्यङ्के शेते यस्यार्थं पर्यङ्कस्तत्परार्थमिदं शरीरं पञ्चानां महाभूतानां संघातो वर्त्तते ऽस्ति पुरुषो यस्येदं भोग्यशरीरं भोग्यं महदादिसंघातरूपं समुत्पन्नमिति । इतश्चात्मास्ति त्रिगुणादिविपर्ययात् यदुक्तं पूर्वस्यामार्यायां त्रिगुनमविवेकिविषय इत्यादि । तस्माद्विपर्ययाद्येनोक्तं तद्विपरीतस्तथा पुमान् । अधिष्ठानाद्यथेह लंघनल्पवनधावनसमर्थैरश्वैर्युक्तो रथः सारथिनाधिष्ठितः प्रवर्त्तते तथात्माधिष्ठानाच्छरीरमिति । तथा चोक्तं षष्ठितन्त्रे पुरुषाधिष्ठितं प्रधानं प्रवर्त्तते । अतो ऽस्त्यात्माभोक्तृत्वात् । यथा मधुराम्ललवणकटुतिक्तकषायषड्रसोपबृंहित्स्य संय्क्तस्यान्नस्य साध्यते एवं महदादिलिङ्गस्य भोक्तृत्वाभावादस्ति स आत्मा यस्येदं भोग्यं शरीरम्ति । इतश्च कैवल्यार्थम प्रवृत्तेश्च केवलस्य भावः कैवल्यं तन्निमितं या च प्रवृत्तिस्तस्याः स्वकैवल्यार्थं प्रवृत्तेः सकाशादनुमीयते अस्त्यात्मेति यतो सर्वो विद्वानविद्वांश्च संसारसन्तानक्षयमिच्छति । एवमेभिर्हेतुभिरस्त्यात्मा शरीराद्व्यतिरिक्तः ॥ 17 ॥
अथ स किमेकह सर्वशरीरे ऽधिष्ठाता मणिरसनात्मकसूत्रवत् आहोस्विद्बहव आत्मानः प्रतिशरीरमधिष्ठातार इत्यत्रोच्यते ।
जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव

19

जन्म च मरणं च करणानि च जन्ममरणकरणानि तेषां प्रतिनियमात् प्रत्येकनियमादित्यर्थः । यद्येक एव आत्मा स्यात्तत एकस्य जन्मनि सर्व एव जायेरन् एकस्य मरणे सर्वे ऽपि म्रियेरन् एकस्य करणवैकल्ये बाधिर्यान्धमूकत्वकुणत्वखंजत्वलक्षणे सर्वे ऽपि बधिरान्धकुणिखंजाः स्युर्न चैवं भवति तस्माज्जन्ममरणकरणानां प्रतिनियमात् पुरुषबहुत्वं सिद्धम् । इतश्चायुगपत् प्रवृत्तेश्च युगपदेककालं न युगपदयुगपत् प्रवर्त्तनं यस्मादयुगपद्धर्मादिषु प्रवृत्तिर्दृश्यते एके धर्मे प्रवृत्ता अन्ये ऽधर्मे वैराग्ये ऽन्ये ज्ञाने ऽन्ये प्रवृत्ताः तस्मादयुगपत् प्रवृत्तेश्च बहव इति सिद्धम् । किञ्चान्यत्त्रैगुण्याविपर्ययाच्चैव त्रिगुणभावविपर्ययाच्च पुरुषबहुत्वं सिद्धम् । यथा सामान्ये जन्मनि एकः सात्त्विकः सुखी । अन्यो राजसो दुःखी । अन्यस्तामसो मोहवान् । एवं त्रैगुण्यविपर्ययाद्बहुत्वं सिद्धमिति ॥ 18 ॥
अकर्त्ता पुरुष इत्येतदुच्यते ।
तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च

20

तस्माच्च विपर्यासात्तस्माच्च यथोक्तत्रैगुण्यविपर्यासाद्विपर्ययान्निर्गुणः पुरुषो विवेकी भोक्तेत्यादिगुणानां पुरुषस्य यो विपर्यास उक्तस्तस्मात् सत्त्वरजस्तमःसु कर्त्तृभूतेषु साक्षित्वं सिद्धं पुरुषस्येति यो ऽयमधिकृतो बहुत्वं प्रति । गुणा एव कर्त्तारः प्रवर्त्तन्ते साक्षी न प्रवत्तते नापि निवर्त्तत एव । किंचान्यत् कैवल्यं केवलभावः कैवल्यमन्यत्वमित्यर्थः । त्रिगुणेभ्यः केवलः । अन्यन्माध्यस्थ्यं मध्यस्थभावः परिव्राजकवत् मध्यस्थः पुरुषः । यथा कश्चित् परिव्राजको ग्रामीणेषु कर्षणार्थेषु प्रवृत्तेषु केवलो मध्यस्थः पुरुषो ऽप्येवं गुणेषु वर्त्तमानेषु न प्रवर्त्तते । तस्माद्द्रष्टृत्वमकर्त्तृभावाश्च यस्मान्मध्यस्थस्तस्माद्द्रष्टा तस्मादकर्त्ता पुरुषस्तेषां कर्मणामिति सत्त्वरजस्तमांसि त्रयो गुणाः कर्मकर्त्तृभावेन प्रवर्त्तन्ते न पुरुष एवं पुरुषस्यास्तित्वं च सिद्धम् । यस्मात्कर्त्ता पुरुषस्तत्कथमध्यवसायं करोति धर्मं करिष्याम्यधर्मं न करिष्यामीत्यतः कर्त्ता भवति न च कर्त्ता पुरुष एवमुभयात्र दोषः स्यादिति ॥ 19 ॥
अत उच्यते ।
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्युदासीनः

मूल पाठ: Sāṃkhyakārikā with Gauḍapāda's Bhāṣya · Edition: The Sankhya Karika. By Iswara Krishna; Translated from the Sanscrit by Henry Thomas Colebrooke, also the Bhashya, or, Commentary of Gaudapada; Translated, and Illustrated by an Original Comment, by Horace Hayman Wilson. Bombay : Tookaram Tatya 1887. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc