सांख्यसूत्र · अध्याय 3
(करणेषु गौणमुख्यभावव्यवस्था)
वैराग्याध्या
अविशेषात् विशेषारम्भः
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
तस्माच्छरीरस्य
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
तदीजात् संसृतिः
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
आविवेकाच्च प्रवर्तनमविशेषाणां
(संसृतेः विवेकपर्यन्तत्वं)
उपभोगादितरस्य
(संसृतेः विवेकपर्यन्तत्वं)
सम्प्रति परिमुक्तो द्वाभ्यां
(संसृतेः विवेकपर्यन्तत्वं)
मातापितृजं स्थूलं प्रायशः इतरन्न तथा
(स्थूलनदिनर शरीरयोः भेदः)
पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य
(स्थूलनदिनर शरीरयोः भेदाः)
सप्तदशैकं लिङ्गं
(लिङ्गशरीरं तत्कार्यं च)
व्यक्तिभेदः कर्मविशेषात्
(लिङ्गशरीरं तत्कार्यं च)
तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः
(लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य)
न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)
मूर्तत्वे ऽपि न सङ्घातयोगात् तरणिवत्
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)
अणुपरिमाणं तत्कृतिश्रुतेः
(लिङ्गशरीरपरिमाणं)
तदन्नमयत्वश्रुतेश्च
(लिङ्गशरीरपरिमाणं)
पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः
(लिङ्गशरीरसंसृतेः पुरुषार्थत्वं)
पाञ्चभौतिको देहः
(स्थूलशरीरस्वरुपविषये मत भेदाः)
चातुर्भौतिकमित्येके
(चैतन्यस्य भूतधर्मत्वा भावः)
ऐकभौतिकमित्यपरे
(चैतन्यस्य भूतधर्मत्वा भावः)
न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः
(चैतन्यस्य भूतधर्मत्वा भावः)
प्रपञ्चमरणाद्यभावश्च
(चैतन्यस्य भूतधर्मत्वा भावः)
मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः
(चैतन्यस्य भूतधर्मत्वा भावः)
ज्ञानान्मुक्तिः
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)
बन्धो विपर्ययात्
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)
नियतकारणत्वान्न समुच्चयविकल्पौ
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)
स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)
इतरस्यापि नात्यन्तिकं
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)
सङ्कल्पिते ऽप्येवं
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)
भावनोपचयात् शुद्धस्य सर्वं प्रकृतिवत्
(उपासनाफलं)
रागोपहतिः ध्यानं
(ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं)
वृत्तिनिरोधात् तत्सिद्धिः
(ध्यानसिद्ध्युपायः)
धारणासनस्वकर्मणा तत्सिद्धिः
(ध्यानसाधनानि, तेषां लक्षणानि च)
निरोधः छर्दिविधारणाभ्यां
(ध्यानसाधनानि, तेषां लक्षणानि च)
स्थिरसुखमासनं
(ध्यानसाधनानि, तेषां लक्षणानि च)
स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं
(ध्यानसाधनानि, तेषां लक्षणानि च)
वैराग्यात् अभ्यासाच्च
(मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः)
विपर्ययभेदाः पञ्च
(बन्धहेतुविपर्ययविभागः)
अशक्तिरष्टविशतिधा तु
(विपर्ययहेतूनां अशक्तीनां भेदाः)
तुष्टिर्नवधा
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)
सिद्धिरष्टधा
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)
अवान्तरभेदाः पूर्ववत्
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
एवमितरस्याः
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
आध्यत्मिकादि भेदात् नवधा तुष्टिः
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
ऊहादिभिः सिद्धिरष्टधा
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
नेतरादितरहानेन विना
(तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः)
दैवादिप्रभेदा
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)
आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात्
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)
ऊर्ध्वं सत्वविशाला
(गुणप्रभेदेन सृष्टिभेदाः)
तमोविशालामूलतः
(गुणप्रभेदेन सृष्टिभेदाः)
मध्ये रजोविशाला
(गुणप्रभेदेन सृष्टिभेदाः)
कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत्
(विचित्रसृष्टीनां निमित्तं)
आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः
(आमुक्ति सृष्टीनां हेयत्वं)
समानं जरामरणादिनं दुःखं
(आमुक्ति सृष्टीनां हेयत्वं)
न कारणलयात् कृतकृत्यता मग्नवदुत्थानात्
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
अकार्यत्वे ऽपि तद्योगः पारवश्यात्
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
स हि सर्ववित् सर्वकर्ता
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
ईदृशेश्वरसिद्धिः सिद्धा
(प्रकृतिलीनस्यैव जन्येश्वरत्वं)
प्रधानसृष्टिः परार्थं स्वतो ऽप्यभोक्तृत्वात्
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)
उष्ट्रकुङ्कुमवहनवत्
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)
अचेतनत्वे ऽपि क्षीरवच्चेष्टितं प्रधानस्य
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
कर्मवत् दृष्टेर्वा कालादेः
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
स्वभावाच्चेष्टितमनभिसन्धानात् भृत्यवत्
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
कर्माकृष्टेर्वानादितः
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके
(सृष्टिनिवृत्तिहेतुः)
इतरैतरवत्तद्दोषात्
(सृष्टिनिवृत्तिहेतुः)
द्वयोरेकतस्य वौदासीन्यमपवर्गः
(सृष्टिनिवृत्तिहेतुः)
अन्यसृष्ट्युपरागे ऽपि न विरज्य (म) ते प्रबुद्धरज्जुतत्वस्येवोरगः
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः)
कर्मनिमित्तयोगाच्च
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः)
नैरपेक्ष्ये ऽपि प्रकृत्युपकारे ऽविवेको निमित्तं
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
नर्तकीवत् प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात्
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
दोषबोधे ऽपि नोपसर्पणं प्रधानस्य कुलवधूवत्
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते
(बन्धमोक्षयोः आत्मगतत्वाभावः)
प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत्
(बन्धमोक्षयोः आत्मगतत्वाभावः)
रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण
(बन्धमोक्षनिमित्तानि)
निमित्तत्वमविवेकस्य न दृष्टहानिः
(बन्धमोक्षनिमित्तानि)
तत्वाभ्यासान्नेति नेतीति त्यागात् विवेकसिद्धिः
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)
अधिकारिप्रभेदान्न नियमः
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)
बाधितानुवृत्त्या मध्यविवेकतो ऽप्युपभोगः
(विवेकविशेषस्यैव निस्तारोपायत्वं)
जीवन्मुक्तश्च
(विवेकविशेषस्यैव निस्तारोपायत्वं)
उपदेश्योपदेष्टृत्वात्तत्सिद्धिः
(जीवन्मुक्तिसाधनं)
श्रुतिश्च
(जीवन्मुक्तिसाधनं)
इतरथा अन्धपरम्परा
(जीवन्मुक्तिसाधनं)
चक्रभ्रमणवत् धृतशरीरः
(जीवन्मुक्तिसाधनं)
संस्कारलेशतः तत्सिद्धिः
(जीवन्मुक्तिसाधनं)
विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात्
मूल पाठ: Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0