सांख्यसूत्र · अध्याय 4
(पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं)
आख्यायिका
राजपुत्रवत् तत्वोपदेशात्
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
पिशाचवदन्यार्थोपदेशे ऽपि
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
आवृत्तिरसकृदुपदेशात्
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
पितापुत्रवदुभयोर्दृष्टत्वात्
(क्वचिदनुमानात् देहस्य भङ्गुरताज्ञानोपपत्तिः)
श्येनवत् सुखदुःखी त्याग वियोगाभ्यां
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
अहिनिर्ल्वयिनीवत्
(ज्ञाननिष्पत्त्यङ्ग मनोधमोः)
छिन्नहस्तवद्वा
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
असाधनानुचिन्तनं बन्धाय भरतवत्
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण (शङ्ख) वत्
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
द्वाभ्यामपि तथैव
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
निराशः सुखी पिङ्गलावत्
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
अनारम्भे ऽपि परगृहे सुखी सर्पवत्
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
बहुशास्त्र गुरूपासने ऽपि सारादानं षट्पदवत्
(सारग्रहणावश्यकता)
इषुकारवन्नैकचित्तस्य समाधिहानिः
(एकाग्रतावश्यकता)
कृतनियमलङ्घनादानर्थक्यं लोकवत्
(शास्त्रविहितनियमानुल्लङ्घनावश्यकता)
तद्विस्मरणे ऽपि भेकीवत्
(शास्त्रविहितनियमस्मरणावश्यकता)
नोपदेशश्रवणे ऽपि कृतकृत्यता परामर्शादृते विरोचनवत्
(श्रुतार्थमननावश्यकता)
दृष्टस्तयोरिन्द्रस्य
(श्रुतार्थमननावश्यकता)
प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात् तद्वत्
(गुरुसेवा)
न कालनियमो वामदेववत्
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)
अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)
इतरलाभे ऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः
(पुनरावृत्तिहेतुभूतान्युपासनानि)
विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत्
(ज्ञाननिष्पत्त्यधिकारः)
लब्धातिशययोगाद्वा तद्वत्
(ज्ञाननिष्पत्त्यधिकारः)
न कामचारित्वं रागोपहते शुकवत्
(रागदोषाः तच्छमनोपायाश्च)
गुणयोगात् बद्धः शुकवत्
(रागदोषाः तच्छमनोपायाश्च)
न भोगाद्रागशान्तिः मुनिवत्
(रागदोषाः तच्छमनोपायाश्च)
दोषदर्शनादुभयोः
(रागदोषाः तच्छमनोपायाश्च)
न मलिनचेतस्युपदेश बीजप्ररोहो ऽजवत्
(रागदोषाः तच्छमनोपायाश्च)
नाभासमात्रमपि मलिनदर्पणवत्
(रागदोषाः तच्छमनोपायाश्च)
न तज्जस्यापि तद्रपता पङ्कजवत्
(रागदोषाः तच्छमनोपायाश्च)
न भूतियोगे ऽपि कृतकृत्यता उपास्यसिद्धिवत् उपास्यसिद्धिवत्
मूल पाठ: Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0