सांख्यसूत्र · अध्याय 2
(वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः), प्रधानकार्य
विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
विरक्तस्य तत्सिद्धेः
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात्
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
बहुभृत्यवद्वा प्रत्येकं
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः
(पुरुषे स्रष्टृत्वनिराकरणं)
कार्यतस्तत्सिद्धेः
(पुरुषे स्रष्टृत्वनिराकरणं)
चेतनोद्देशान्नियमः कण्टकमोक्षवत्
(पुरुषे स्रष्टृत्वनिराकरणं)
अन्ययोगे ऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत्
(पुरुषे स्रष्टृत्वनिराकरणं)
रागविरागयोः योगः सृष्टिश्च
(सृष्टिं प्रति मुख्यं निमित्तकारणं)
महदादिक्रमेण पञ्चभूतानां
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)
आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)
दिक्कालावाकाशादिभ्यः
(दिक्कालयोः सृष्टिः)
अध्यवसायो बुद्धिः
(महत्तत्व स्वरूप कार्यादिः)
तत्कार्यं धर्मादि
(महत्तत्व स्वरूप कार्यादिः)
महदुपरागाद्विपरीतं
(महत्तत्व स्वरूप कार्यादिः)
अभिमानो ऽहङ्कारः
(अहङ्कारतत्वस्वरूपकार्यादिः)
एकादश पञ्चतन्मात्रं तत्कार्यं
(अहङ्कारतत्वस्वरूपकार्यादिः)
सात्विकं एकादशकं प्रवर्तते वैकृतादहङ्कारात्
(अहङ्कारतत्वस्वरूपकार्यादिः)
कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं
(इन्द्रियाणां स्वरूपं)
आहङ्कारिकत्वश्रुतेः न भौतिकानि
(इन्द्रियाणां स्वरूपं)
देवतालयश्रुतिर्नारम्भकस्य
(इन्द्रियाणां स्वरूपं)
तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च
(इन्द्रियाणां अनित्यता)
अतीन्द्रियं इन्द्रियं भ्रान्तानामधिष्ठाने
(गोलकानामेवेन्द्रियत्व निराकरणं)
शक्तिभेदे ऽपि भेदसिद्धौ नैकत्वं
(एकेन्द्रियवादनिरासः)
न कल्पनाविरोधः प्रमाणदृष्टस्य
(एकेन्द्रियवादनिरासः)
उभयात्मकं च मनः
(मनसः ज्ञानकर्मोभयात्मकत्वं)
गुणपरिणामभेदान्नानात्वमवस्थावत्
(मनसः ज्ञानकर्मोभयात्मकत्वं)
रूपादिरसमलान्त उभयोः
(इन्द्रियाणां विषयाः)
द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां
(इन्द्रियाणां आत्मोकारकत्वं)
त्रयाणां स्वालक्षण्यं
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः)
सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः)
क्रमशो ऽक्रमशश्चेन्द्रियवृत्तिः
(इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः)
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः
(पञ्चविधाः धीवृत्तयः)
तन्निवृत्तावुपशान्तोपरागः स्वस्थः
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः)
कुसुमवच्च मणिः
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः)
पुरुषार्थं करणोद्भवो ऽप्यदृष्टोल्लासात्
(इन्द्रियप्रवृत्त्युपाधिः)
धेनुवद्वत्साय
(इन्द्रियप्रवृत्त्युपाधिः)
करणं त्रयोदशाविधं अवान्तरभेदात्
(करणानां त्रयोदशत्वं)
इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत्
(करणानां त्रयोदशत्वं)
द्वयोः प्रधानं मनो लोकवत् भृत्यवर्गेषु
(करणेषु गौणमुख्यभावव्यवस्था)
अव्यभिचारात्
(करणेषु गौणमुख्यभावव्यवस्था)
तथाशेषसंस्काराधारत्वात्
(करणेषु गौणमुख्यभावव्यवस्था)
स्मृत्यानुमानाच्च
(करणेषु गौणमुख्यभावव्यवस्था)
सम्भवेन्न स्वतः
(करणेषु गौणमुख्यभावव्यवस्था)
आपेक्षिको गुणप्रधानभावः क्रियाविशेषात्
(करणेषु गौणमुख्यभावव्यवस्था)
तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत्
(करणेषु गौणमुख्यभावव्यवस्था)
समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत्
2. प्रकीर्णपादः
पञ्चाभिबुद्धयः
पञ्च कर्मयोनयः
पञ्च वायवः
पञ्च कर्मात्मानः
पञ्चपर्वाविद्या
अष्टाविंशतिधाशक्तिः
नवधा तुष्टिः
अष्टधा सिद्धिः
दश मूलिकार्थाः
अनुग्रहः सर्गः
चतुर्दशविधो भूतसर्गः
त्रिविधो बन्धः
त्रिविधो मोक्षः
त्रिविधं प्रमाणं
त्रिविधं दुःखं
एतत्परं याथातथ्यं
एतत्ज्ञात्वा कृतकृत्यः स्यात्
नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते
मूल पाठ: Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0